सामग्री पर जाएँ

भविष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविष्यः, त्रि, (भू + ऌटः सद्वेति शतृस्यट् च ततो विभाषायां पृषोदरात् तस्य लोपः ।) भविष्यत्- कालः । इति हेमचन्द्रः ॥ (यथा, हरिवंशे । ८१ । २८ । “अयं भविष्ये कथितो भविष्यकुशलैर्द्विजैः ॥”) पुराणविशेषे, क्ली । यथा, -- “चतुर्द्दशं भविष्यं स्यात्तथा पञ्चशतानि च ॥” इति श्रीभागवते १२ स्कन्धे १३ अः ॥ (फलविशेषे, क्ली ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविष्य(त्)¦ पु॰ भू--
“ऌटः सद्वेति” शतृ--स्यट् च पृषो॰वा तलीपः। भाविनि

१ काले

२ तत्कालवर्त्तिनिपदार्थे त्रि॰ स्त्रियां ङीप् नुम् च
“अव्याक्षेपोभविष्यन्त्याः” रघुः। तलोपपक्षे क्लीवता। उत्तर-पदस्थः त्रि॰।
“यद्भविष्यो विनश्यति” पञ्चत॰

३ भवि-ष्यमधिकृत्य कृते पुराणभेदे न॰। तच्च महापुराणान्त-र्गतं पुराणं तत्प्रतिपाद्यविषयादिकं नारदीयपु॰

४ पा॰

१०

० अ॰ उक्तं यथा
“अथ ते संप्रवक्ष्यामि पुराणं सर्वसिद्धिदम् भविष्यंभवतः सर्वलोकाभीष्टप्रदायकम्। तत्राहं सवदवाना-मादिकर्त्ता समुदातः। सृष्ट्यर्थं तत्र सञ्जातो मनुःस्वायम्भुवः पुरा। स मां प्रणम्य पप्रच्छ धर्मं सर्वार्थ-साधकम। अ{??} तस्मै तदा प्रीतः प्रावोचं धर्मसंहि-ताम्। पुराणानां यदा व्यासो व्यासञ्चक्रे महामतिः। तदा तां संहितां सर्वां पञ्चधा व्यभजन्मुनिः। अथो-रकल्पवृत्तान्तनानाश्चर्य्यकथाचिताम्”। तत्र प्रथम-पूर्वणि। तत्रादिमं स्मृत पर्व ब्राह्मं यत्रास्त्युप-क्रमः। सूतशौनकसंवादै पुराणप्रश्नसंक्रमः। आदित्य-चरितः प्रायः सर्वाख्यानसमाचितः। सृष्ट्यादिलक्षणी-[Page4647-a+ 38] येतः शास्त्रसर्वसरूपकः। पुस्तलेखकलेखानां लक्षणञ्चततः परम्। संस्काराणाञ्च सर्वेषां लक्षणञ्चात्रकीर्त्तितम्। पक्षत्यादितिथीनाञ्च कल्पाः सप्त च की-र्त्तिताः। अष्टसाद्याः शेषकल्पाः वैष्णवे प्रर्वणि स्मृताः। शैवे च कामतो भिन्नाः सौरे चान्यकथाचयः। प्रतिसर्गाह्वयं पश्चान्नानाख्यानसमाचितम्। पुराणस्योप-संहारसहितं षर्व पञ्चमम्। एषु पञ्चषु पूर्वस्मिन् ब्र-ह्मणो महिमाधिकः”। द्वितीयतृतीयचतुर्थपञ्चमपर्वसु
“धर्मे कामे च मोक्षे तु विष्णोश्चापि शिवस्य च। द्वि-तीये च तृतीये च सौरो वर्गचतुष्टये। प्रतिसर्गा-ह्वयं त्वान्त्यं प्रोक्तं सर्वकथाचितम्। एतत् भविष्यंनिर्दिष्टं पर्ब व्यासेन धीमता। चतुर्दशसहन्तु पुराणंपरिकीर्त्तितम्। भविष्यं सर्वदेवानां साम्यं यत्र प्रकी-र्त्तितम्। गुणानां तारतम्येन समं ब्रह्मेति हिश्रुतिः”। तत्फलश्रुतिः।
“तल्लिखित्वा तु यो दद्यात् पौष्यांविद्वान् विमत्सरः। गुडधेनुयुतं हेमवस्त्रमाल्यविभू-षणैः। वाचकं पुस्तकञ्चापि पूजयित्वा विधानतः। गन्धाद्यैर्भोज्यभक्ष्यैश्च कृत्वा नीराजनादिकम्। यो वैजितेन्द्रियो भूत्वा सोपबासः समाहितः। अथ वा योनरो भक्त्या कीर्त्तयेच्छृणुयादपि। स मुक्तः पातकैर्घोरैःप्रयाति ब्रह्मणः पदम्। योऽप्यनुक्रमणीमेतां भविष्यस्यनिरूपिताम्। पठेद्वा शृणुयाच्चैतौ मुक्तिभुक्तिञ्चविन्दतः”।

४ (चालता) फलमेदे राजनि॰। तान्तं

५ जलेनिघण्टुः। भविष्यत्त्वञ्च वर्त्तमानप्रागभावप्रतियोगित्व-मिति नैयायिकाः पदार्थस्य अनागतावस्थाभेद इतिसांख्यादयः।

४ हरिवंशपर्वभेदे न॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविष्य¦ mfn. (-ष्यः-ष्या-ष्यं) Future, what will be. E. See भविष्यत्, the final rejected.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविष्य [bhaviṣya], a.

Future; नैतदन्ये करिष्यन्ति भविष्या वसुधाधिपाः Mb.14.87.21.

Imminent, impending; श्रुत्वा सांग्रामिकीं वार्तां भविष्यां स्वामिनं प्रति Pt.1.91. -ष्यम् The future, futurity. -Comp. -कालः the future tense. -ज्ञानम् knowledge of futurity. -पुराणम् N. of one of the 18 Purāṇas.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविष्य mfn. to be about to become or come to pass , future , imminent , impending MBh. Ka1v. etc.

भविष्य n. the future Hariv. Pur.

भविष्य n. = -पुराण(below).

"https://sa.wiktionary.org/w/index.php?title=भविष्य&oldid=503205" इत्यस्माद् प्रतिप्राप्तम्