भागिनेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागिनेयः, पुं, (भगिन्या अपत्यम् । भगिनी + “स्त्रीभ्यो ढक् ।” ४ । १ । १२० । इति ढक् ।) भगिनीपुत्त्रः । तत्पर्य्यायः । स्वस्रीयः २ । इत्य- मरः । २ । ६ । ३२ ॥ स्वस्रियः ३ । इति शब्दरत्ना- वली ॥ स च मुख्यप्रतिनिधिः । यथा, -- “ऋत्विक् पुत्त्रो गुरुर्भ्राता भागिनेयोऽथ विट्पतिः । एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि ॥” इति तिथ्यादितत्वम् ॥ * ॥ तस्यावश्यपोष्यत्वम् यथा, -- “पितृव्यगुरुदौहित्रान् भर्त्तुः स्वस्रीयमातुलान् । पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः ॥” इत्यपुत्त्रधनाधिकारे दायभागः ॥ * ॥ भागिनेयदत्तककरणं शूद्रस्यैव न तु द्विजानाम् । यथा, दत्तकचन्द्रिकायां शौनकवचने । “दौहित्रो भागिनेयश्च शूद्रैस्तु क्रियते सुतः । ब्राह्मणादित्रये नास्ति भागिनेयः सुतः क्वचित् ॥” तन्मरणे मातुलस्य पक्षिण्यशौचम् । यथा । “पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च । योनिसम्बन्धे मातृष्वस्रीयपितृष्वस्रीयगागिनेयेषु । मातुलमरणे भागिनेयस्यापि पक्षिण्यशौचम् ।” इति शुद्धितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागिनेय पुं।

भगिनीसुताः

समानार्थक:स्वस्रीय,भागिनेय

2।6।32।2।2

श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ। स्वस्रीयो भागिनेयः स्याज्जामाता दुहितुः पतिः॥

जनक : भगिनी

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागिनेय¦ पुंस्त्री॰ भगिन्या अपत्यम् ठक्।{??}पुत्रे। तत्कन्यायां खी ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागिनेय¦ m. (-यः) A sister's son. E. भगिनी a sister, ढक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागिनेयः [bhāginēyḥ], [भगिन्या अपत्यं ढक्] A sister's son. -यी A sister's daughter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागिनेय m. (fr. भगिनी)a sister's son Pa1rGr2. MBh. Ka1v. etc. (also in friendly address to any younger person DivyA7v. )

"https://sa.wiktionary.org/w/index.php?title=भागिनेय&oldid=503213" इत्यस्माद् प्रतिप्राप्तम्