भागीरथी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागीरथी, स्त्री, (भगीरस्येयम् । भगीरथ + अण् । ङीप् ।) गङ्गा । इत्यमरः । १ । १० । ३१ ॥ पृथिव्यां तस्यावतरणम् । यथा, -- सूत उवाच । “ततो भगीरथो राजा तपः परमदुश्चरम् । कृत्वा सन्तोषयामास उमाकान्तं महेश्वरम् ॥ धारणायानुमत्वा तं जगाम ब्रह्मणोऽन्तिकम् । ततो भगीरथः प्राह गङ्गा ब्रह्मन् ! विसृज्यताम् ॥ स तच्छ्रुत्वा वचस्तस्य सम्मान्य विबुधप्रियम् । गङ्गां प्रस्थापयामास सापतद्ब्रह्मणोऽन्तिकात् ॥ वायुना प्रेर्य्यमाणापि आकाशपथगा नदी । विख्याताकाशगङ्गेति तत्र संसेविता गजैः ॥ विष्णोः पदं समायाता तस्माद्विष्णुपदीति सा । पूज्यमाना सुरैः सिद्धैर्मुनिविद्याधरोरगैः ॥ सुरालयमनुप्राप्ता तस्माद्देवनदी तु सा । तस्मात् प्रपतिता गङ्गा शम्भोः शिरसि संस्थिता ॥ धृतैकेनैव तेनापि शम्भुना योगमायया । दिव्यं वर्षशतं साग्रं पुनराराधितेन वै ॥ मुक्ता भगीरथेनैव मलहन्त्री विनिर्गता । जटाजूटात् पपातोर्द्धे मेरोस्तस्मात्ततोऽगमत् ॥ देवैः परिवृता गङ्गा हेमकूटञ्च पर्व्वतम् । मन्दरञ्चैव कैलासं हिमवन्तञ्च पर्व्वतम् ॥ तामायान्तीं तु रोधाय स्वलीनो नाम दानवः । पार्व्वतं रूपमास्थाय वर्षाणान्तु शतैर्द्विजाः ॥ ततो भगीरथो राजाराधयामास कौशिकम् । स तुष्टः प्रददौ नागं वाहनं वै भगीरथः ॥ तमारुह्यागमत्तत्र यत्र रुद्धा भगीरथी । तेन नागेन तं दैत्यं संविदार्य्य न सङ्गतः ॥ शतधा तां समाधाय मूर्द्धन्यैरावणो गजः । महीतलं समापेदे स यावन्नागसाह्वयम् ॥ तस्माद्व्याघटनाद्विप्रा अभून्नागपुरं वरम् । प्लावयन्ती महीं गङ्गा जह्नोराश्रममभ्यगात् ॥ तां दृष्ट्वाथ पपौ सोऽपि प्रसृत्या कुपितो मुनिः । जह्रुना नाशितां दृष्ट्वा गङ्गां त्रिपथगां नदीम् ॥ सशोकस्तोषयामास जह्नुं भगीरथो मुनिम् । मुमोच कर्णरन्ध्रेण गङ्गा स दक्षिणेन ताम् ॥ एतस्माज्जाह्रवी भूता सुता तस्य मुनेस्तथा । ततः सा विविधान् देशान् पर्व्वतांश्च तथा- श्रमान् ॥ संप्लाव्य वारिणा भूयो जगाम पूर्ब्बसागरम् ॥ यत्र तत्रोदकं तस्थौ तस्याः पुण्यमभूद्द्विजाः । सुतीर्थं सर्व्वमर्त्यानां तारणं पापनाशनम् ॥ ततः सम्पूरयामास समुद्रं सर्व्वतो दिशम् । प्रपन्नं सागरैः सर्व्वं ततः पातालमाविशत् ॥ सागराणां तनोस्तस्मात् संप्लाव्य वारिणा ततः । आवृता ब्रह्मलोकं या तां गङ्गां प्रणमाम्यहम् ॥ त्रिंशल्लक्षयोजना या दैर्घ्ये पञ्चगुणा ततः । आवृता शिवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः । आवृता ध्रुवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ लक्षयोजनविस्तीर्णा दैर्घ्ये शतगुणा ततः । आवृता चन्द्रलोकं या तां गङ्गां प्रणमाम्यहम् ॥ षष्टिसहस्रयोजना या दैर्घ्ये दशगुणा ततः । आवृता सूर्य्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ लक्षयोजनविस्तीर्णा दैर्घ्ये च षड्गुणा ततः । आवृता सत्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ दशलक्षयोजना या दैर्घ्ये पञ्चगुणा ततः । आवृता या तपोलोकं तां गङ्गां प्रणमाम्यहम् ॥ सहस्रयोजनायामा दैर्घ्ये दशगुणा ततः । आवृता जनलोकं या तां गङ्गां प्रणमाम्यहम् ॥ सहस्रयोजनायामा दैर्घ्ये सप्तगुणा ततः । आवृता या च कैलासं तां गङ्गां प्रणमाम्यहम् ॥ शतयोजनविस्तीर्णा दैर्घ्ये दशगुणा ततः । मन्दाकिनी येन्द्रलोके तां गङ्गां प्रणमाम्यहम् ॥ पाताले या भोगवती विस्तीर्णदशयोजना । ततो दशगुणा दैर्घ्ये तां गङ्गां प्रणमाम्यहम् ॥ क्रोशैकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित् । क्षितौ चालकनन्दा या तां गङ्गां प्रणमाम्यहम् ॥ सत्ये या क्षीरवर्णा च त्रेतायामिन्दुसन्निभा । द्वापरे चन्दनाभा च तां गङ्गां प्रणमाम्यहम् ॥ जलप्रभा कलौ या च नान्यत्र पृथिवीतले । स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् ॥ यस्याः प्रभावमतुलं पुराणे च श्रुतौ श्रुतम् । या पुण्यदा पापहर्त्री तां गङ्गां प्रणमाम्यहम् ॥ यत्तोयकणिकास्पर्शः पापिनाञ्च पितामह ! । ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥ इत्येवं कथितं ब्रह्मन् ! गङ्गापद्यैकविंशतिः । स्तोत्ररूपञ्च परमं पापघ्नं पुण्यकारकम् ॥ नित्यं यो हि पठेद्भक्त्या संपूज्य च सुरेश्वरीम् । अश्वमेधफलं नित्यं लभते नात्र संशयः ॥ अपुत्त्रो लभते पुत्त्रं भार्य्याहीनो लभेत् प्रियाम् । रोगात् प्रमुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ अस्पष्टकीर्त्तिः सुयशा मूर्खो भवति पण्डितः ॥ यः पठेत् प्रातरुत्थाय गङ्गास्तोत्रमिदं शुभम् ॥ शुभं भवेत्तु दुःस्वप्नं गङ्गास्नानफलं लभेत् ॥” इति गङ्गास्तोत्रम् ॥ नारायण उवाच । “भगीरथोऽनेन स्तोत्रेण स्तुत्वा गङ्गाञ्च नारद ! । जगाम तां गृहीत्वा च यत्र नष्टाश्च सागराः । वैकुण्ठं ते ययुस्तृर्णं गङ्गायाः स्पर्शवायुना ॥ भगीरथेन सानीता तेन भागीरथी स्मृता । इत्येवं कथितं सर्व्वं गङ्गोपाख्यानमुत्तमम् ॥ पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे गङ्गोपाख्याने ८ अः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागीरथी स्त्री।

गङ्गा

समानार्थक:गङ्गा,विष्णुपदी,जह्नुतनया,सुरनिम्नगा,भागीरथी,त्रिपथगा,त्रिस्रोतस्,भीष्मसू

1।10।31।2।1

गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा। भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि॥

पदार्थ-विभागः : नाम

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागीरथी¦ f. (-थी) The Ganges. E. भगीरथ a pious monarch, at whose in- tercesion the Ganges first descended from heaven, affs. अण् and ङीप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागीरथी [bhāgīrathī], [भगीरथेन सानीता तेन भागीरथी स्मृता]

N. of the river Ganges; भागीरथीनिर्झरशीकराणाम् Ku.1.15.

N. of one of the three main branches of the Ganges; cf. भागीरथी भोगवती जाह्नवी त्रिजटेश्वरी । विष्णुपादाब्जसंभूता गङ्गा त्रिपथगामिनी ॥ Stotra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागीरथी f. N. of the Ganges (or of one of the 3 main streams or branches of it , viz. the great western branch ; See. नव-द्वीप) MBh. Ka1v. etc.

भागीरथी f. of रथ, in comp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(गङ्गा): so-called on account of भगी- ratha having brought her; a sacred river; फलकम्:F1: Br. II. १८. ४२; III. १३. १००; ५४. ५१; ६३. १६८-9; M. १२. ४४; १६३. ६०; वा. ८८. १६९; Vi. III. १८. ५७; IV. 4. ३५; V. ३५. ३०.फलकम्:/F Indra worshipped ललिता on the banks of the; फलकम्:F2: Br. IV. १२. ४४.फलकम्:/F to its east lay Hamsaprapatanam. a sacred spot; फलकम्:F3: M. १०६. ३२.फलकम्:/F the seventh stream of the गङ्गा flowing towards the south in हिमाह्ववर्ष; फलकम्:F4: Ib. १२१. ४१; वा. ४७. ४०.फलकम्:/F fit for स्राद्ध. फलकम्:F5: Ib. ७७. ९२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhāgīrathī  : f.: See Gaṅgā.


_______________________________
*3rd word in left half of page p399_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhāgīrathī  : f.: See Gaṅgā.


_______________________________
*3rd word in left half of page p399_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भागीरथी&oldid=445975" इत्यस्माद् प्रतिप्राप्तम्