भाटक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाटकः, पुं, क्ली, (भटतीति । भट पोषणे + ण्वुल् ।) व्यवहारार्थं दत्तशकटादिलभ्यधनम् । इति हलायुधः ॥ भाडा इति माषा ॥ अथ गृहादि- भाटकम् । “परभूमौ गृहं कृत्वा भाटयित्वा वसेत्तु यः । स तद्गृहीत्वा निर्गच्छेत्तृणकाष्ठेष्टकादिकम् ॥ स्तोमं विना वसित्वा तु परभूमावनिच्छतः । निर्गच्छंस्तृणकाष्ठानि न गृह्णीयात् कथञ्चन ॥” कात्यायनः । “गृहवाप्यापणादीनि गृहीत्वा भाटकेन यः । स्वामिनो नार्पयेद्यावत्तावद्दाप्यः स भाटकम् ॥” वापी परकृता प्रतिष्ठितेति विवक्षितम् । “हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः ॥ स्वामिनो नार्पयेद्यावत् तावद्दाप्यः स भाट- कम् ॥” वृद्धमनुः । “यो भाटयित्वा शकटं नीत्वा नान्यत्र गच्छति । भाटं न दद्याद्दाप्योऽसावनूढस्यापि भाटकम् ॥” शकटं वृषनौकादेरप्युपलक्षणम् । अनूढस्या- वाहितस्यापि शकटादेः । इति विवादचिन्ता- मणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाटक¦ पु॰ न॰ भट--पोषणे ण्वुल्। परगृहयानादेरुपभोगार्थंतत्स्वामिने दीयमाने घने। (भाडा) हला॰।
“परभूमौ गृहं कृत्वा भाटयित्वा वसेत् तु यः। स तद्गृहीत्वा निर्गच्छेत्तृणकाष्ठेष्टकादिकम्। स्तोमं विना व-सित्वा तु परभूमावनिच्छतः। निर्गच्छंस्तृणकाष्ठानिन गृह्णीयात् कथञ्चन” कात्यायनः।
“गृहवाप्यापणा-दीनि गृहीत्वा भाटकेन यः। स्वामिनोनार्पयेद्यावत्ता-वद्दाप्यः स भाटकम्। वापी परकृता अप्रतिष्ठितेति विव-क्षितम्।
“हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेनयः। स्वामिनोनार्पयेद्यावत्तावद्दाप्यः स भाटकम्”। वृद्धमनुः
“यो भाटयित्वा शकटं नीत्या नान्यत्र गच्छति। भाटं न दद्याद्दाप्योऽसावनूढस्यापि भाटकम्”। शकटंवृषनौकादेरप्युपलक्षणम्। अनूढस्यावाहितस्यापि शक-दादेः” इति विषादचिन्तामणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाटक¦ m. (-कः) Price, especially paid for the use of any thing or per- son; wages, hire. E. भट् to hire, or maintain, aff. ण्वुल् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाटक m. =prec. , A1ryav.

"https://sa.wiktionary.org/w/index.php?title=भाटक&oldid=294800" इत्यस्माद् प्रतिप्राप्तम्