भाण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाणः, पुं, (भण्यतेऽत्रेति । भण + अधिकरणे घञ् ।) नाटकादिदशरूपकान्तर्गतरूपक- विशेषः । इति हेमचन्द्रः । २ । १९८ ॥ तस्य लक्षणादि यथा, -- “भाणः स्याद्धूर्त्तचरितो नानावस्थान्तरात्मकः । एकाङ्क एक एवात्र निपुणः पण्डितो विटः ॥ रङ्गे प्रकाशयेत् स्वेनानुभूतमितरेण वा । सम्बोधनोक्तिप्रत्युक्ती कुर्य्यादाकाशभाषितैः ॥ सूचयेद्वीरशृङ्गारौ शौर्य्यसौभाम्यवर्णनैः । तत्रेतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारती ॥ मुखनिर्व्वहणे सन्धी लास्याङ्गानि दशापि च ॥ अत्राकाशभाषितरूपं परवचनमपि स्वयमेवा- नुवदन्नुत्तरप्रत्युत्तरे कुर्य्यात् । शृङ्गारवीररसौ च सौभाग्यशौर्य्यवर्णया सूचयेत् । प्रायग्रहणात् कौशिक्यपि वृत्तिर्भवति । उदाहरणं लीला- मधुकरः ।” इति साहित्यदर्पणे ६ परिच्छेदः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाण¦ पु॰ सा॰ द॰ उक्तलक्षणे दशरूपकान्तर्गते दृश्यकाव्यभेदेतल्लक्षणं यथा
“भाणः स्याद्धूर्त्तचरितो नानावस्थान्तरात्मकः। एकाङ्कएक एवात्र निपुणः पण्डितो विटः। रङ्गे प्रकाशयेत्स्वेनानूभूतमितरेण वा। सम्बोधनोक्तिप्रत्युक्ती कुर्य्या-[Page4651-b+ 38] दाकाशभाषितैः। सूचयेद्वीरशृङ्गारौ शौर्य्यसौभाग्यवर्णनैः। तत्रेतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारती। मुखनिर्वहणे सन्धी लास्याङ्गानि दशापि च”। अत्रा-काशभाषितरूपं परवचनमपि स्वयमेवानुवदन्नुत्तर-प्रत्युत्तरे कुर्य्यात्। शृङ्गारवीररसौ च सौभाग्यशौर्य्य-वर्णनेन सूचयेत्। प्रायग्रहणात् कौशिक्यपि वृत्ति-र्भवति। उदाहरणं लीलामधुकरः” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाण¦ m. (-णः) A sort of dramatic entertainment, described as one, in which one only of the interlocutors appears on the scene; or as the narrative of some intrigue, told either by the hero or a third person. E. भण् to speak, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाणः [bhāṇḥ] भाणिका [bhāṇikā], भाणिका A species of dramatic composition; in it only one character is introduced on the stage which supplies the place of interlocutors by a copious use of आकाशभाषित q. v.; भाणः स्याद्धर्तचरितो नानावस्थान्तरा- त्मकः । एकाङ्क एक एवात्र निपुणः पण्डितो विटः ॥ S. D.513; see the next stanzas also; e. g. वसन्ततिलक, मुकुन्दानन्द, लीलामधुकर &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाण m. ( भण्)recitation ( esp. of the Buddhist law) MWB. 44

भाण m. N. of a sort of dramatic entertainment (in which only one of the interlocutors appears on the scene , or a narrative of some intrigue told either by the hero or a third person) Das3ar. Sa1h. Prata1p. (See. IW. 471 ).

"https://sa.wiktionary.org/w/index.php?title=भाण&oldid=294960" इत्यस्माद् प्रतिप्राप्तम्