भाद्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाद्रः, पुं, (भाद्री पौर्णमास्यस्मिन्निति । भाद्री + “सास्मिन् पौर्णमासीति ।” ४ । २ । २१ । इत्यण् ।) भाद्रपदनक्षत्रयुक्ता पौर्णमासी यस्मिन् मासे सः । वैशाखादिद्वादशमासान्तर्गतपञ्चम- मासः । तत्पर्य्यायः । नभस्यः २ प्रौष्ठपदः ३ भाद्र- पदः ४ । इत्यमरः । १ । ४ । १७ ॥ स च द्विविधः । सिंहस्थरविकालः सौरः । १ । सिंहस्थरव्या- रब्धशुक्लप्रतिपदादिदर्शान्तो मुख्यचान्द्रः । कृष्ण- प्रतिपदादिपौर्णमास्यन्तो गौणचान्द्रः । २ । इति मलमासतत्त्वम् ॥ * ॥ तत्र जातफलम् । “नभस्यमासे खलु जन्म यस्य धीरो मनोज्ञश्च वराङ्गनानाम् । रिपुप्रमाथी कुटिलोऽतिमर्म्मा प्रपन्नभर्त्ता स भवेत् सहासः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ तत्र गोः प्रसवे नारदः । “भानौ सिंहगते चैव यस्य गौः सम्प्रसूयते । मरणं तस्य निर्द्दिष्टं षड्भिर्मासैर्न संशयः ॥ तत्र शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् । प्रसूतां तत्क्षणादेव तां गां विप्राय दापयेत् ॥ ततो होमं प्रकुर्व्वीत घृताक्तै राजसर्षपैः । आहुतीनां घृताक्तानामयुतं जुहुयात्ततः ॥” व्याहृतिभिश्चायं होमः । “सोपवासः प्रयत्नेन दद्याद्बिप्राय दक्षिणाम् ॥” इति ॥ तथा । “सिंहराशौ गते सूर्य्ये गोः प्रसूतिर्यदा भवेत् । पौषे च महिषी सूते दिवैवाश्वतरी तथा । तदानिष्टं भवेत् किञ्चित् तच्छान्त्यै शान्तिकं चरेत् ॥ अस्य वामेतिसूक्तेन तद्विष्णोरिति मन्त्रतः । जुहुयाच्च तिलाज्येन शतमष्टोत्तराधिकम् ॥ मृत्युञ्जयविधानेन जुहुयाच्च तथायुतम् । श्रीसूक्तेन ततः स्नायात् शान्तिसूक्तेन वा पुनः ॥ मध्यरात्रौ निशीथे वा यदा गौः क्रन्दते तदा । ग्रामे वास्य गृहे वापि शान्तिकं पूर्ब्बवद्दिशेत् ॥” संक्रमणोत्तरषोडशदण्डात्मकपुण्यकालाभ्यन्तरे गोः प्रसवे विप्रसम्प्रदानकगोप्रदानपूर्ब्बकशान्तिः कार्य्या इति विशेषः । तदतिरिक्तसिंहस्थरवौ गोः प्रसवे शान्तिमात्रं कर्त्तव्यं न गोः प्रदानम् । निर्णयसिन्धुधृताद्भुतसागरग्रन्थीयवचनजात- मीमांसानुसारादिति ॥ * ॥ अथ भाद्रकृत्यम् । तत्र जन्माष्टमीव्रतप्रमाणन्तिथितत्त्वेऽनुसन्धेयम् । श्रावणपौर्णमास्यनन्तरितभाद्रकृष्णाष्टम्यां रात्रि- मध्ये मुहूर्त्ताष्टमीरोहिणीयोगरूपजयन्तीलाभे तत्रैवोपवासः । उभयदिने चेत्तदा परदिने । जयन्त्यलाभे तु रोहिणीयुक्ताष्टम्यां उभयदिने रोहिणीयुताष्टमीलाभे परदिने । रोहिण्यलाभे तु निशीथसम्बन्धिन्यामष्टम्याम् । उभयदिने निशीथसम्बन्धे तदसम्बन्धे वा परदिने इति । ओ~ अद्येत्यादि सिंहार्कचतुर्थीचन्द्रदर्शनजन्य- पापक्षयकामो धात्रेयीवाक्यमहं पठिष्ये । इति संकल्प्य । “ओ~ सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः । सुकुमारक ! मा रोदीस्तव ह्येष स्यमन्तकः ॥” इति विष्णुपुराणोक्तं धात्रेयीवाक्यं पठेत् ॥ * ॥ अथानन्तव्रतम् । तत्र यद्दिने पूर्ब्बाह्णलाभस्तद्दिने व्रतम् । उभयदिने चेत् परदिने युग्मात् । व्रतानु- ष्ठानविधिस्तु पद्धतौ ज्ञेयः ॥ * ॥ अथागस्त्यार्घ्य- दानम् । प्रमाणन्तु तिथितत्त्वेऽनुसन्धेयम् । सिंहस्थरविकर्त्तव्यत्वेन सौरमासादरः । कन्यार्क- संक्रान्तिपूर्ब्बदिनत्रयाभ्यन्तरे कृतस्नानादिकृता- ह्निकस्तिलकुशजलान्यादाय ओ~ तत् सदित्युच्चार्य्य ओ~अद्येत्यादि सर्व्वाभिलषितसिद्धिकामोऽगस्त्य- पूजनमहं करिष्ये इति संकल्प्य शालग्रामे जले वा दक्षिणामुखः एतत् पाद्यम् ओ~ अग- स्त्याय नमः । सितपुष्पाक्षतयुक्तं जलं शङ्खेन गृहीत्वा इदमर्घ्यम् । ओ~ काशपुष्पप्रतीकाश अग्निमारुतसम्भव । मित्रावरुणयोः पूत्त्र कुम्भयोने नमोऽस्तु ते ॥ ओ~ अगस्त्याय नमः । एवमाचमनीयस्नानीय- गन्धपुष्पधूपदीपनैवेद्यादिकं दद्यात् । ओ~ आतापिर्भक्षितो येन वातापिच्च महासुरः । समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु ॥” इति प्रार्थयेत् ॥ इति कृत्यतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाद्र पुं।

भाद्रपदमासः

समानार्थक:नभस्य,प्रौष्ठपद,भाद्र,भाद्रपद

1।4।17।1।3

स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः। स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाद्र¦ पु॰ भद्राभिर्युक्ता पौर्णमासी भाद्री सा यस्मिन् भासेअण्। चैत्रादितः मष्ठे चान्द्रे

१ मासे अमरः।

२ तन्मा-[Page4652-a+ 38] सीयपौर्णमास्यां स्त्री ङीप्। भद्रेव स्वार्थे अण्।

३ पूर्वोत्तरभाद्रपदाख्यनक्षत्रे न॰।
“भाद्रद्वये सागरे” ज्योतिषम्।

४ भाद्र्या पौर्णमास्यायुक्ते पक्षे तथाविधे

५ गुरुवर्षे च कार्त्तिकशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाद्र¦ m. (-द्रः) The name of a month, (August-September,) when the moon is full near the wing of Pegasus. E. भद्र for भद्रपदा and अण् aff: see the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाद्रः [bhādrḥ] भाद्रपदः [bhādrapadḥ], भाद्रपदः [भद्राभिर्युक्ता पौर्णमासी भाद्री सा यस्मिन् मासे अण्] N. of a lunar month (corresponding to AugustSeptember); भाद्रद्वये सागरे Jyotiṣam. -दाः (f. pl.) N. of the 25th and 26th lunar mansions (पूर्वाभाद्रपदा and उत्तराभाद्रपदा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाद्र m. (fr. भद्र, of which it is also the वृद्धिform in comp. )the month भाद्र(= -पदbelow) Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=भाद्र&oldid=295322" इत्यस्माद् प्रतिप्राप्तम्