भास्वर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्वरम्, क्ली, (भासते इति । भास् + “स्थेश भासपिसकसो वरच् । ३ । २ । १७५ । इति वरच् ।) कुष्ठौषधम् । इति शब्दचन्द्रिका ॥

भास्वरः, पुं, (भासते इति । भास् + “स्थेशभास- पिसकसो वरच् । ३ । २ । १७५ । इति वरच् ।) दिनम् । इति राजनिर्घण्टः ॥ सूर्य्यः । इति केचित् । दीप्तियुक्ते, त्रि । इति मुग्धबोध- व्याकरणम् ॥ (यथा, महाभारते । १ । ११ । ११ । “स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा । स्वं रूपं भास्वरं भूयः प्रतिपेदे महायशाः ॥” सूर्य्यस्यानुचरविशेषः । स च भगवता सूर्य्येण तारकासुरवधसाहाय्यार्थं स्कन्दाय दत्तः । यथा, महाभारते । ९ । ४५ । ३० । “सुभ्राजो भास्वरश्चैव यौ तौ सूर्य्यानुयायिनौ । तौ सूर्य्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्वर¦ त्रि॰ भास--वरच्।

१ दीप्तियुक्ते

२ सूर्य्ये

३ अग्नौ मेदि॰

४ दिने

५ अर्कवृक्षे च पु॰।

६ कुष्ठौषधे (कुड) न॰राजनि॰

७ स्कन्दानुचरभेदे पु॰ भा॰ श॰

४६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्वर¦ mfn. (-रः-री-रं) Shining, radiant. m. (-रः)
1. The sun.
2. A day. n. (-रं) A sort of Costus, (C. speciosus.) E. भास् to shine, वरच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्वर [bhāsvara], a. [भास्-वरच्] Shining, bright, radiant, brilliant.

रः The sun.

A day.

Fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्वर mf( आ)n. shining , brilliant , bright , resplendent S3Br. etc.

भास्वर m. the sun L.

भास्वर m. a day L.

भास्वर m. N. of a satellite of the god of the sun MBh.

भास्वर m. of a Buddhist deity (?) L.

भास्वर n. Costus Arabicus or Speciosus L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĀSVARA : One of the two attendants presented by Sūrya to Subrahmaṇya; the other was named Subh- rāja. (Śalya Parva, Chapter 45, Verse 31).


_______________________________
*6th word in left half of page 127 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भास्वर&oldid=503231" इत्यस्माद् प्रतिप्राप्तम्