भिन्दिपाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिन्दिपालः, पुं, (भिदि + इन् । भिन्दिं विदारणं पालयतोति पालि + अण् ।) हस्तप्रमाण- काण्डः । नालिकास्त्रमिति ख्यातम् । इति भरतः ॥ हस्तक्षेप्यलगुडः । इति स्वामी ॥ तत्पर्य्यायः । सृगः २ । इत्यमरः । २ । ८ । ९१ ॥ (यथा, वैशम्पायनसंहितायाम् । ३ । “भिन्दिपालस्तु वक्राङ्गो नम्रशीर्षो बृहच्छिराः । हस्तमात्रोत्सेधयुक्तः करसम्मितमण्डलः ॥” भिण्डिबालः भिन्दिवालश्चापि इत्येवं पाठद्वयं दृश्यते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिन्दिपाल पुं।

अश्मक्षेपसाधनम्

समानार्थक:भिन्दिपाल,सृग

2।8।91।2।1

द्रुघणो मुद्गरघनौ स्यादीली करवालिका। भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिन्दिपाल¦ पु॰ मिदि विदारणे रन् भिन्दिं भेदनं पाल-यति पा{??}--अण्।

१ हस्तक्षेप्ये नातिकास्न्ने अमर-[Page4671-b+ 38] टीकायां मरतः। हस्तप्रमाणे अस्त्रभेदे क्षीरस्वामी। हमा॰ प॰ तल्लक्षणमन्यथोक्तं यथा
“भिन्दिपा{??}लक्षणं प्रोच्यते तस्य य आयामी यत्प्रमाणं दण्डस्य चयः परिणाहो यतसंस्थानं द्रव्यादिप्रमाणं ग्रहणमोक्षौदष्टादुष्टाश्च गतयस्तत्सर्वं यथोक्तं वक्ष्यामि वत्स! नि-बोध। तत्र भिन्दिपालस्य दण्डः फलाचितः सप्तहस्तोज्येष्ठो भवति द्वादशाङ्गलहीनी मध्यमो वितस्तिहीनस्तुकनिष्ठो मानतः स्याद्दण्डश्च सप्ताङ्गुलपरिणाहः श्रेष्ठो भ-वति मृध्यमो द्व्यङ्गुलहीनस्त्र्यङ्गुलहीनश्च कनिष्ठो भवतिमूले परीणाहो ग्राह्यः स च गोपुच्छवत् वेदितव्यो दण्डार्थपुनः कूटजदृक्षजं वैणवं भद्रसिंहव्यं कदम्बकं वा दारु-मयं वा कारयेत तन्मया हि दण्डा दृढाः स्युः काला-कुलोत्सादकारिणह् कल्मषा विवर्द्धयन्ति चतुस्त्रिंश-दवका अवनोदकारकानमोन्नमनसहा पूर्बभारपरी-क्षमाश्च भवन्ति ते नित्यं दण्ठेषु कुशलैः शुभलक्षणाविज्ञेया दण्डस्योपरि पत्रं कर्णिकासंस्थानां प्रयोजयेत् क-र्णिका च द्व्यङ्गुलोत्सेधा षडङ्गुला च लेख्या स्यात् यथादण्डपरीणाहं बलित्थां कारयेत् सौवर्णं रजतमयं वाकांस्यं वा ताम्रं वा लौहमयं शार्ङ्गजातमस्थिजंयोजयेत् तदालाभे तु वैक्षवं दृढं वा विदध्यात् भिन्दि-पालफलन्तु विंशत्यङ्गुलप्रमाणं भवति मिस्त्रिंशसदृशम् पीतंसुनिशितधारमुत्तमं कुर्वीत अष्टादशाङ्गलप्रमाणं मध्यंषोडशाङ्गुलप्रमाणं नीचं निर्दिष्टं तत्र यावत्यः फलपत्र-पुष्पाणां योनयो दृश्यन्ते तावत्यो भिन्दिपालफलकाः,कर्तव्या तथा विस्तारे त्र्यङ्गुलमूले वोच्छकसहबद्धोर्द्धमष्टा-ङ्गुलं दण्डसूत्रेणाववेष्टयेत् पूर्वभागे मध्यान्तादिपात्रै-रित्युत्तमाधममध्यमानां भवेत् दण्डस्य प्रमाणद्विगुणं फलंतस्य गौरवात् भवति तत्राष्टदशाङ्गुलं भिन्दिपालफलाग्रम्{??}जु कार्य्यं पञ्चभिः पञ्चभिः पलैर्बर्द्धिततया{??}वच्छत-पलं श्रेष्ठं पलाग्रेण शतिकः उत्तमः कर्त्तव्यः अशीति-पलोमध्यमः षष्टिपालो नीचः”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिन्दिपाल m. a short javelin or arrow thrown from the hand or shot through a tube (others " a stone fastened to a string " or " a kind of sling for throwing stones ") MBh. R. etc. ( v.l. भिन्दपाल, भिण्डिमाला, भिन्दोमाल, भिन्दिमालor लक, भिन्दुमाल).

"https://sa.wiktionary.org/w/index.php?title=भिन्दिपाल&oldid=299107" इत्यस्माद् प्रतिप्राप्तम्