सामग्री पर जाएँ

भिषक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिषक्, [ज्] बिभेति रोगो यस्मादिति । भीलि भीत्याम् + “भियः षुक् ह्रस्वश्च ।” उणा० १ । १३७ । इति अजिः षुगागमो ह्रस्वत्वञ्च ।) वैद्यः । इत्यमरः । २ । ६ । ५७ ॥ (अस्य प्राशस्त्यादिकं यथा, -- “भिषग्बुभूषुर्मतिमान् अतः स्वगुणसम्पदि । परं प्रयत्नमातिष्ठेत् प्राणदः स्याद् यथा नृणाम् ॥ तदेव युक्तं भैषज्यं यदारोम्याय कल्प्यते । स चैव भिषजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत् ॥ सम्यक् प्रयोगं सर्व्वेषां सिद्धिराख्यातिकर्म्मणाम् ॥ सिद्धिराख्यातिसर्व्वैश्च गुणैर्युक्तं भिषक्तमम् ॥” इति चरके सूत्रस्थाने प्रथमेऽध्याये ॥ “एतदवश्यमध्येयमधीत्य च कर्म्माप्यवश्यमुपा- सितव्यमुभयज्ञो हि भिषग्राजार्हो भवति ॥” यस्तु केवलशास्त्रज्ञः कर्म्मस्वपरिनिष्ठितः । स मुह्यत्यातुरम्प्राप्य प्राप्य भीरुरिवाहवम् ॥ यस्तु कर्म्मसु निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः । स सत्सु पूजां नाप्नोति वधञ्चार्हति राजतः ॥ उभावेतावनिपुणावसमर्थौ स्वकर्म्मणि । अर्द्धवेदधरावेतावेकपक्षाविव द्विजौ ॥ ओषध्योऽमृतकल्पास्तु शस्त्राशनिविषोपमाः । भवन्त्यज्ञैरुपहृतास्तस्मादेतौ विवर्ज्जयेत् ॥ छेद्यादिष्वनभिज्ञो यः स्नेहादिषु च कर्म्मसु । स निहन्ति जनं लोभात् कुवैद्यो नृपदोषतः ॥ यस्तूभयज्ञो मतिमान् स समर्थोऽर्थसाधने । आहवे कर्म्मनिर्वोढुं द्बिचक्रः स्यन्दनो यथा ॥” इति सुश्रुते सूत्रस्थाने तृतीयेऽध्याये ॥) दण्डनीयभिषग् यथा, -- “अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् । रोगिभ्योऽर्थं समादत्ते स दण्ड्यश्चौरवद्भिषक् ॥” इति ज्योतिस्तत्त्वम् ॥ तस्यान्नस्याभोज्यत्वं यथा, -- “शूद्रान्नं ब्राह्मणो भुक्त्रा तथा रङ्गावतारिणः । चिकित्सकस्य क्रूरस्य तथा स्त्रीमृगजीविनाम् ॥ शौण्डिकान्नं सूतिकान्नं भुक्त्वा मासं व्रती भवेत् ॥” व्रती यावकेन । तत्र धेनुद्वयम् । इति प्राय- श्चित्तविवेकः ॥ अपि च । “पूयञ्चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् । विष्ठा वार्द्धु षिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥” इति मानवे ४ अध्यायः ॥ (शतधन्वनः क्षेत्रजः पुत्त्रः । यथा, हरिवंशे । ३८ । ६ । “कृतवर्म्माग्रजस्तेषां शतधन्वा तु मध्यमः । देवर्षेश्च्यवनात् तस्य भिषग्वैतरणश्च यः ॥” औषधम् । यथा, ऋग्वेदे । १ । २४ । ९ । “शतं ते राजन् भिषजः सहस्रमुर्व्वी गभीरा सुमतिष्टे अस्तु ॥” “हे राजन् ! वरुण ! ते तव शतं भिषजः सहस्रं बन्धनिवारकाणि शतसहस्रसंख्याका- न्यौषधानि वैद्या वा सन्ति ॥” इति तद्भाष्ये सायनः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिषक् in comp. for 2. भिषज्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of हृदिक. Br. III. ७१. १४१.

"https://sa.wiktionary.org/w/index.php?title=भिषक्&oldid=434260" इत्यस्माद् प्रतिप्राप्तम्