भूगोल

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूगोलः, पुं, (भूर्गोलो मण्डलमिव ।) भुवनकोषः । (यदुक्तं सूर्य्यसिद्धान्ते । “मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति । बिभ्राणः परमां शक्तिं ब्रह्मणो धारणा- त्मिकाम् ॥”) तस्य विवरणम् । यथा, -- “प्रकृतेस्तु महान् जातोऽहङ्कारो महतः पुनः । तन्मात्राणि ह्यहङ्कारात् शब्दः स्पर्शोऽथ रूपकम् ॥ रसो गन्धश्च पञ्चैव गुणा नाम प्रकीर्त्तिताः । ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि । यावन्ति पूर्ब्बैरिह तत्प्रमाणं प्रोक्तं खकक्षाख्यमिदं मतं नः ॥” इति सिद्धान्तशिरोमणौ गोलाध्याये भुवनकोषः समाप्तः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूगोल¦ पु॰ भूगोल इव। गोलाकारे मण्डले
“मध्येसमन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति। वि{??}णःपरमां शक्तिं ब्रह्मणो धारणात्मिकाम्” सू॰ सि॰। तत्स्थानभेदस्तन्मानादिकं च सि॰ शि॰ उक्तं यथा
“मूमेः पिण्डः शशाङ्कज्ञकविरविकुजेज्यार्किनक्षत्रकक्षा-वृत्तैर्वृत्तो वृतः सन् मृदनिलसलिलव्योमतेजेमयोऽयम्। नान्याधारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्यपृष्ठे निष्ठं विश्वं च शश्वत् सदनुजमनुजादित्यदैत्यंसमन्तात्। सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः। कद-म्बकुसुमग्रन्थिः केसरप्रसरैरिव। मूर्तो धर्त्ता चेद्धरि-त्र्यास्ततोऽन्यस्तस्याप्यन्योऽस्यैवमत्रानवस्था। अन्त्येकल्प्या चेत् स्वशक्तिः किमाद्ये किं नो भूमेः साष्टमूर्तेश्चमूर्त्तिः?। यथोष्णताऽर्कानलयोश्च, शीतता विधौ, द्रुतिःके, काठिनत्वमश्मनि। मरुच्चलो भूरचला स्वभावतोयतो विचित्रा वत वस्तुशक्तयः। आकृष्टिशक्तिश्च मही-तया यत् स्वस्थं गुरु स्वाभिमुखं स्वशक्त्या। आकृ-ष्यत तत् पततीव भाति समे समन्तात् क्व पतत्वियं खे। भपञ्चरस्य भ्रमणावलोकादाधारशून्या कुरिति प्रतीतिः। खस्थं न दृष्टं च गुरु क्षमातः खेऽधः प्रयातीतिवदन्ति बौद्धाः। द्वौ द्वौ रवीन्दू भगणौ च तद्वदेका-न्तरौ तावदयं व्रजेताम्। यदब्रुवन्नेवमनम्बराद्या-ब्रुवीम्यतस्तान् प्रति युक्तयुक्तिम्। भूः खेऽधः खलुयातीति बुद्धिवौद्धीमुधा कथम्। यातायातं तु दृष्ट्वापिखे यत् क्षिप्तं गुरु क्षितिम्। किं गण्यं तव वैगुण्यंद्वैगुण्यं या वृथा कथा। भार्केन्दूनां विलोक्याह्नाध्रुवमत्स्यपरिभ्रमम्। यदि समा मुकुरोदरसन्निभाभगवती धरणी तरणिः क्षितेः। उपरिदूरगतोऽपिपरिभ्रमन् किमु नरैरमरैरिव नेक्ष्यते। यदिनिशाजनकः कनकाचलः किमु तदन्तरगः स न दृश्यते। उदगयं ननु मेरुरथांशुमान् कथमुदेति च दक्षिणभागके। ममो यतः स्यात् परिधेः शतांशः पृथ्वी चपृथ्वी, नितरां तनीयान्। नरश्च, तत्पृष्ठगतस्यकृत्स्वा समेव तस्य प्रतिभात्यतः सा। पुरान्तरं चेदि-दमुत्तरं स्यात् तदक्षविश्लेषलवैस्तदा किम्। चक्रां-शकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधेः प्रमाणम्। निरक्षदेशात् क्षितिषोडशांशे भवदबन्ती गणितेन य-स्मात्। तदन्तर षाडशसगुणं स्याद् भूमानमस्माद् बहुकिं तदुक्तम्। शृङ्गीन्नतिग्रहयुतिग्रहणोदयास्तच्छा-[Page4679-b+ 38] यादिकं परिधिना घटतेऽमुना हि। नान्येन तेन जगुरुक्तमहीप्रमाणप्रामाण्यमन्वययुजा व्यतिरेककेण। लङ्काकुमध्ये यमकोटिरस्याः प्राक्, पश्चिमे रोमकपत्तनं च। अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये बडवानलश्च। कुवृत्तपादान्तरितानि तानि स्थानानि षड् गोलविदीवदन्ति। वसन्ति मेरौ सुरसिद्धसङ्घा और्बे च सर्वे नरकाःसदैत्याः। यो यत्र तिष्ठत्यवनीं तलस्था मात्मानमस्याउपरिस्थित च। स म{??}ऽतः कुचतुर्थसंस्थामिथश्च तेतिर्थ्यगिवामनन्ति। अधःशिरस्काः कुदलान्तरस्थाश्छाया-मनुष्या इव नीरतीरे। अनाकुलास्तिर्यगधः स्थिताश्चतिष्ठन्ति ते तत्र वर्यं यथात्र। भूमेरर्धं क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहुराचार्य्यवर्याः। अर्धेऽन्य-स्मिन् द्वीपषट्कस्य याम्य क्षारक्षीराद्यम्बुधीनां नि-वेशः। लवणजलधिरादौ दुग्धसिन्धुश्च तस्मादमृतममृत-रश्मिः श्रीश्च यस्माद्बभूव। महितचरणपद्मः पद्म-जन्मादिदेवैर्वसति सकलवासो वासुदेवश्च यत्र। दध्नोघृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः। स्वादूदकान्तर्बडवानलोऽसौ पाताललोकाः पृथिवीपु-टानि। चञ्चत्फणामणिगणांशुकृतप्रकाशा एतेषुसासुरगणाः फणिनो वसन्ति। दिव्यानि व्यरमणीरमणीयदेहैः सिद्धाश्च तत्र च लकत्क्षन{??}वभासैः। शाकं ततः शाल्मलमत्र कौशं क्रौञ्चं च गोमेष्टकपु-ष्करे च। द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वींपसुदाह-रन्ति। लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽ{??} तस्मात्तस्माच्चान्यो निषध इति ते सिन्धुपर्य्यन्तदैर्घ्याः। एवंसिद्धादुदगपि पुराच्छृङ्गङ्गवच्छुक्लनीला वर्षाण्येषां जयरिहबुधा अन्तरे द्रोणिदेशान्। भारतवर्षमिदं ह्यदग-स्मात् किन्नरवर्षमतो हरिवर्षम्। सिद्धपुराच्च तथा कुरुतस्मात् विद्धि हिरणमयरम्यकवर्षे। माल्यवांश्च यम-कोष्टिपत्तनाद्रोमकाच्च किल गन्धमादनः। नीलशैलनि-षधावधी च तावन्तारालमनयोरिलावृतम्। माल्यव-ज्जलधिमध्यवर्त्ति यत् तत् तु भद्रतुरगं जगुर्बुधाः। गन्धशैलजलराशिमध्यगं केतुमालकमिलाकलाविदः। निषधनीलसुगन्धसुमाल्यकैरलमिलावृतमाव्रतमाबभौ। अ-मरकेलिकु{??}यसमाकुलं रुचिरकाञ्चनचित्रमहीतलम्। इह हि मेरुगिरिः किल मध्यगः कनकरत्नमयस्त्रि-दशालयः। द्रुहिणजन्मकुपद्मजकर्णिकेति च पुराण-विदोऽभुमवर्णयन्। विष्कम्भशैलाः खलु मन्दरोऽस्य[Page4680-a+ 38] सुगन्धशैलो विपुलः सुपार्श्व। तेषु क्रमात् सन्ति चकेतुवृक्षाः कदम्बजम्बूवटपिप्पलाख्याः। जम्बूफलाम-लगलद्रसतः प्रवृत्ता जम्बूनदीरसयुता मृदभूत् सुवर्णम्। जाम्बूनदं हि तदतः सुरसिद्धसङ्घाः शश्वत् पिबन्त्य-मृतपानपराङ्मुखास्तम्। वनं तथा चैत्ररथं विचित्रंतेष्वप्सरोनन्दननन्दनं च। धृत्याह्वयं यद्धृति-कृत् सुराणां भ्राजिष्णु बैभ्राजमिति प्रसिद्धम्। सरांस्यथैतेष्वरुणं च मानसं महाह्रदं श्वेतजलं यथा-क्रमम्। सरःसु रामारमणश्रमालसाः सुरा रमन्ते ज-लकेलिलालसाः। सद्रत्नकाञ्चनमयं शिखरत्नयं च मेरौमुरारिकपुरारिपुराणि तेषु। तेषामधः शतमखज्वल-नान्तकानां रक्षोऽम्बुपानिलशशीशपुराणि चाष्टौ। विष्णुपदी विष्णुपदात् पतिता मेरौ चतुर्धाऽस्मात्। विष्कम्भाचलमस्तकशस्तसरःसङ्गता गता वियता। सी-ताख्या भद्राश्वं, सालकनन्दा च भारतं वर्षम्। ब-ङ्क्षुश्च केतुमालं, भद्राख्या चोत्तरान् कुरून् याता। याकर्णिताभिलषिता दृष्टा स्पृष्टावगाहिता पीता। उक्ता स्मृता स्तुता वा पुनाति बहुधा पापिनः पुरुषान्। यां चलितो दलिताखिलबन्धो गच्छति बल्गति तत्पितृसङ्गः। प्राप्ततटे विजितान्तकदूतो याति नरेनिरयात् सुरलोकम्। ऐन्द्रं कशेरुशकलं किल ताम्र-पर्णमन्यद्गभस्तिमदतश्च कुमारिकाख्यम्। नागं च सौ-म्यमिह वारुणमन्त्यखण्डं गान्धर्वसंज्ञमिति भारतवर्ष-मध्ये। वर्णव्यवस्थितिरिहैव कुमारिकाख्ये शेषेषु चान्त्यज-जना निवसन्ति सर्वे। माहेन्द्रशुक्तिमलयर्क्षकपारियात्राःसह्यः मविन्ध्य इह सप्त कुलाचलाख्याः। भूर्लोकाख्यो द-क्षिणे व्य{??}देशात् तस्मात् सौम्योऽय भुवः, स्वश्च मेरुः। लभ्यः पुण्येः खे महः स्याज्जनोऽतोऽनल्पानल्पैः स्वै-स्तपः सत्यमन्त्यः। लङ्कापुरेऽर्कस्य यदोदयः स्यात् तदादिनार्धं यमकोटिपुर्य्याम्। अधस्तदा सिद्धपुरेऽस्त-कासः खाद्रोमके रात्रिदल तदैव। यत्रोदितोऽर्कः किलतत्र पूर्वा, ततापरा यत्र गतः प्रतिष्ठाम्। तन्मत्-{??}तोऽग्पे च ततोऽ{??}लानामुदक्स्थितो मेरुरितिप्रसिद्धम्। यथोज्जयिन्याः कुचतुर्थभागे प्राच्यां दिशि{??}द्यम{??}टिरेष। ततश्च पश्चान्न भवेदवन्ती लङ्कैवतस्याः ककुभि प्रतीप्याम्। तथैव सर्वत्र यतो हि यत्स्यात् प्राणां ततस्तन्न भवेत् प्रतीच्याम्। निरक्षदे-शादितरत्न तस्मात् प्राचीप्रतीच्यौ च विचित्रसंस्थे। [Page4680-b+ 38] निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षि-{??}त्तरौ। तदाश्रितं खेजलयन्त्रवत् तथा भ्रमद्भचक्रनिजमस्तकोपरि। उदग्दिशं याति यथा यथा नर-स्तथा तथा स्यान्नतमृक्षमण्डलम्। उदग्ध्रुवं पश्यतिचोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशकाः। योजन-संख्याभांशैर्गुणिता स्वपरिधिहृता भवन्त्यंशाः। भूमौकक्षायां वार्वागेभ्यो योजनानि च व्यस्तम्। सौम्यंध्रुवं मेरुगताः खमध्ये याम्यं च दैत्या निजमस्तकोर्द्धेःसव्यापसब्यं भ्रमदृक्षचक्रं विलोकयन्ति क्षितिजप्रसक्तम्। प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय

४९

६७ स्तद्व्यासः कुभुजङ्गसायकभुवः

१५

९१ सिद्धांशकेनाधिकः

१०

२४ पृष्ठे क्षेत्रफलं तथा युगगुणत्रिंशच्छराष्टाद्रयो

७८

५२

०३

४ भूमेः कन्दुकजालवत् कुपरिधिव्यासाहतेः प्रस्फु-टम्। दुष्टं कन्दुकपृष्ठजालवदिलागाले फलं जल्पितंलल्लेनास्य शतांशकोऽपि न मवेद्यस्मात् फलं वास्तवम्। तत् प्रत्यक्षविरुद्धमुद्धतमिदं नैवास्तु वा ह्यस्तु वा हेप्रौढा! गणका विचारयत तन्मध्यस्थबुद्ध्या भृशम्। यत्परिध्यर्धविष्कम्भं वृत्तं कृत्तं किलांशुकम्। तेनार्धश्छाद्यतेगोलः किञ्चिद्वस्त्रेऽवशिष्यते। गोलक्षेत्रफलात् त-स्माद्वस्त्रक्षेत्रफलं यतः। सार्धद्विगुणितासन्नं तावदेवा-परे दले। एवं पञ्चगुणात् क्षेत्रफलात् पृष्ठफलं खलु। नाधिकं जायते तेन परिधिघ्नं कुतः कृतम्। वृत्तक्षेत्र-फलं यस्मात् परिधिध्नं न युक्तिमत्। दुष्टत्वाद् गणि-तस्यास्य दुष्टं भूपृष्ठजं फलम्। गोलस्य परिधिःकल्प्यो वेदघ्नज्यामितेर्मितः। मुखबुध्नगरेखाभिर्यद्वदाम-लके स्थिताः। दृश्यन्ते वप्रकास्तद्वत् प्रागुक्तपरिधेर्मि-तान्। ऊर्ध्वाधःकृतरेखाभिर्गोले वप्रान् प्रकल्पयेत्। तत्वैकवप्रकक्षेत्रफलं खण्डैः प्रसाध्यते। सर्वज्यैक्यंतिभज्यार्धहीनं त्रिज्यार्धभाजितम्। एवं वप्रफलंतत् स्याद् गोलव्याससमं यतः। परिधिव्यासघाती-ऽतो गोलपृष्ठफलं स्मृतम्। वृत्तक्षेत्रे परिधिगुणित{??}सपादः फलं तत् क्षुण्णं वेदैरुपरि परितः कन्दुकस्येवसालम्। गोलस्यैवं तदपि च फलं पृष्ठजं व्यासनि-{??}म् प{??}भिर्भक्तं भवति नियतं गोलगर्भे धनाख्यम्”। पुराणसर्वस्ये विष्णुपु॰ अन्यथोक्तं यथा
“जम्बुप्लक्ष ह्वयौ द्वीपौ शालमलिश्चापरी द्विज!। कुशःक्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः। एते द्वीपा स-{??}द्रैस्तु सप्त सप्तभिरावृताः।{??}र्पिर्दधि-[Page4681-a+ 38] दुग्धजलैः समः। जम्बूद्वीपः समस्तानामेतेर्पा मध्यमेस्थितः। तस्यापि मेरुर्मैत्रेय! मध्ये कनकपर्वतः। पतु-रशीतिसाहस्रो योजनैरस्य चोच्छ्रयः। प्रविष्टः षोडशा-धस्तात् द्वात्रिंशन्मूर्ध्नि विस्तृतः। मूले षोडशसाहस्रोविस्तारस्तस्य भूभृतः। भूपद्मस्यास्य शैलोऽसौ कर्णिकासंस्थितिः स्थितः। हिमवान् हेमकूटश्च निषधस्तस्यदक्षिणे। नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः। लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथा परे। सहस्रद्वि-तयोच्छ्रायास्तावद्विस्तारिणश्च ते। भारतं प्रथमं वर्षततः किंपुरषं स्मृतम्। हविवर्षं तथैवान्यं मेरो-र्दक्षिणतो द्विजः। रम्यकञ्चोत्तरं वर्षं तथैवानु हिरण्-मयम्। उत्तराः कुरवश्चैव यथा वै भारतं तथा। नवसाहस्रमेकैकमेतेषां द्विजसत्तम!। इलावृतञ्च तन्मध्येसौवर्णो मेरुच्छ्रितः। मेरोश्चतुर्दिशं तत्र नवसाहस्र-विस्तृतम्। इलावृतं महाभाग! चत्वार उपपर्वताः। विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः। पूर्वेण म-न्दरो नाम दक्षिणे गन्धमादनः। विपुलः पश्चिमे भागेसुपार्श्वश्चोत्तरे स्मृतः। कदम्बस्तेषु जम्बूश्च पिप्पलोवट एव च। एकादश शतायामाः पादपा गिरिकेतवः। जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महामुने!। महा-गजप्रमाणानि जम्ब्वास्तस्याः फलानि वै। पतन्तिभूभृतः पृष्ठे शीर्य्यमाणानि सर्वतः। रसेन तेषां प्र-ख्याता तत्र जम्बूनदीति वै। सरित् प्रवर्त्तते सा च पी-यते तन्निवासिभिः। न स्वेदो न च दौर्गन्ध्यं न जरानेन्द्रियक्लमः। तत्पानसुस्थमनसां जनानां तत्र जा-यते। तीरमृत्तत्र संप्राप्य सुखवायुविशोषिता। जाम्बू-नदाख्यं भवति सुवर्णं सिद्धभूषणम्। भद्राश्वं पूर्वतोमेरोः केतुमालञ्च पश्चिमे। वर्षे द्वे तु मुनिश्रेष्ठ!तयोर्मध्यमिलावृतम्। वनं चैत्ररथं पूर्वं दक्षिणे गन्ध-मादने। वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम्। अरुणोदं महाभद्रं ससितोदं समानसम्। सरांस्ये-तानि चत्वारि देवभोग्यानि सर्वदा। सीतान्तश्चैवमुञ्जश्च कुवरो माल्यवांस्तथा। वैकङ्कप्रमुखामेरोः पू-र्बतः केसराचलाः। त्रि{??}टः शिशिरश्चैव पतङ्गो रुच-कस्तथा। निषधादयो दक्षिणतस्तस्य केसरपर्वताः। शिखिवासः सवैदूर्य्यः कपिलो गन्धमादनः। जारु-धिप्रमुखास्तद्वत् पश्चिमे केसराचलाः। मेरोरनन्तरा-ङेषु जठरादिष्वव{??}[Page4681-b+ 38] मानस्तथा परः।{??} तथा उत्तरे वेसरा-चलाः। चतुर्दशसहस्राणि योजनानां महापुरी। मे-रोरुपरि मैत्रेय। ब्रह्मणः प्रथिता पुरी। त{??} सम-न्ततश्चाष्टौ दिशासु विदितासु च। इन्द्रादिलोकपालानांप्रख्याताः प्रवराः पुरः। विष्णुपादविनिष्क्रान्ता पूर-यित्वेन्दुमण्डलम्। समन्ताद् ब्रह्मणः पूर्य्या गङ्गा पततिवै दिवः। सा तत्र पतिता दिक्षु चतुर्द्धा प्रत्यपद्यत। मीता चालकनन्दा च वङ्क्षुर्भद्रा च वै क्रमात्। पूर्वेणशैलात् सीता तु शैलं यात्यन्तरी{??}गा। ततश्च पूर्ववर्षेणभद्राश्वेनैति पार्णवम्। भद्रा तथोत्तरगिरीनुत्तरांश्चतथा कुरून्। अतीत्योत्तरमम्भोधिं समभ्येति महामुने!। वङ्क्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः। पञ्चिमं केतु-मालाख्यं वर्षमभ्येति सार्णवम्। तथा चालकानन्दापिदक्षिणेनेत्य भारतम्। प्रयाति सागरं भूत्वा सप्तभेदामहामुने!। आनीलनिषधायामौ माल्यवद्गन्धमादनौ। तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः भारताःकेतुमालाश्च भद्राश्वाः कुरवस्तथा। पद्मानि लोकपद्मस्यमर्य्यादाश्चैव बाह्यतः। जठरो देवकूटश्च मर्य्यादाप-र्वताबुभौ। तौ दक्षिणोत्तरायामावानीलनिषधा-यतौ। मेरोः पश्चिमदिग्भागे यथा पूर्वा तथास्थितौ। त्रिशृङ्गो जारुधिश्चैव उत्तरे वर्षपर्वतौ। पूर्वपश्चायतावेतावर्णवान्तव्यवस्थितौ। इत्येते मुनि-वर्य्योक्तामर्य्यादापर्वतास्तव। जठराद्याः स्थितामेरो-र्येषां वौ द्वौ चतुर्दिशम्। मेरोश्चतुर्दिशं ये तु प्रोक्ताःकेसरपर्वताः। शीतान्ताद्या मुने! तेषामतीव सुमनो-रमाः। शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः। सुर-म्याणि तथा तेषु काननानि पुराणि च। लक्ष्मीवि-ष्ण्वग्निसूर्य्यादिदेवानां सुनिसत्तम!। तान्यायतनव-र्य्याणि जुष्टानि वराकन्नरैः। गन्धर्वयक्षरक्षांसि तथादैतेयदानवाः। क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वह-र्निशम्। भौमाह्येते स्मृताः स्वर्गा धर्मिणामालया-मुने!। नैतेषु पापकर्माणी यान्ति जन्मशतैरपि। भ-द्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विज!। वराहःकेतुमाले तु भारते कूर्मरूपधृक्। मत्स्यरूपश्च गो-विन्दः कुरुष्वास्ते सनातनः। विश्वरूपेण सर्वत्र सर्वःसर्वश्वरो हरिः। सर्वस्याधारभूतोऽसौ मैत्रेया{??}ऽखि-लात्मकः। यानि किपुरुषाद्यानि वर्षाण्यष्टौ महामुने!। न तेषु शोको नायासी नोद्वेगः क्षद्भयादिकम्। सु{??}[Page4682-a+ 38] प्रजा निरातङ्काः सर्वदुः स्वविवर्जिताः। दशद्वादशवर्षाणांसहस्राणि स्थिरायुषः। न तेषु वर्षवर्य्येषु भौमान्यम्भांसितेषु वै। कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना। सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः। नद्यश्च शत-शस्तेभ्यः प्रसूता या द्विजोत्तम!”।
“पराशर उवाच। उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्षंतद्भारतं नाम भारती यत्र सन्ततिः। नवयोजनसाहस्रोविस्तारोऽस्य महामुने!। कर्ममूमिरियं स्वर्गमपवर्गञ्चगच्छताम्। महेन्द्रो मलयः सह्यः शक्तिमा{??}क्षपर्वतः। विन्ध्यश्च पारि(या) पात्रश्च सप्तात्र कुलपर्वताः। अतः सं-प्राप्यते स्वर्गो मुक्तिमस्मात् प्रयान्ति च। तिर्य्यक्त्वंनरकत्वञ्च यान्त्यतः पुरुषामुने!। इतः स्वर्गश्च मोक्षश्चमध्यञ्चान्तश्च गम्यते। न खत्वन्यत्र मर्त्यानां कर्म भूमौविधीयते। भारतस्यास्य वर्षस्य नवभेदान्निशामय। इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान्। नामद्वीप-स्तथा सौम्यो गन्धर्वस्त्वथ वारुणः। अयन्तु नवमस्तेषांद्वीपः सागरसंवृतः। योजनानां सहस्रन्तु द्वीपोऽयंदक्षिणोत्तरात्। पूर्वे किराता यस्यापि पश्चिमे जवनाःस्थिताः। ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भा-गशः। इज्यायुद्धबलिज्याद्यैर्वर्त्तयन्तो व्यवस्थिताः। वेद-स्मृतिमुखाश्चान्याः पारि(या)पात्रोद्भवा मुने!। नर्मदा सुर-साद्याश्च नद्यो विन्ध्यविनिर्गताः। तापीपयोष्णीनिर्विन्ध्याकावेरीपमुखा नदी। गोदावरीभीमरथीकृष्णवेण्वादिका-स्तथा। सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः। कृतामलाताम्रपर्णीप्रमुखामलयोद्भवाः। त्रिसामा ऋषि-कुल्याद्या महेन्द्रप्रभवाः स्मृताः। ऋषिकुल्याकुमाराद्याःशुक्तिमत्पादसम्भवाः। शतद्रूचन्द्रभागाद्या हिमवत्-पादनिःसृताः। आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः।{??}मे कुरुपञ्चालमध्यदेशादयोजनाः। पूर्वदेशादिका-श्चैव कामरूपनिवासिनः। ओड्राः कलिङ्गामनधा दाक्षिणात्याश्च सर्वशः। तथापरान्ताः सौराष्ट्राः शुद्धाभीरास्तथा-र्बुदाः। मारुकामालकाश्चैव पारि(या)पात्रनिवासिनः। तौवीराः सैन्धवाहूणा शाल्लाः शाकलवासिनः। मद्रा-नामास्तथाम्बष्ठाः पारसीकादयस्तथा। चासां पिबन्तःसलिलं वसन्ति सरितां सदा। चत्वारि भारते वर्षे यगा-म्बल{??}!। कृत त्रेता द्वापर कलिचान्यत्रनकचित। तपस्तप्यन्ति मुनयोजह्वते चान्त य{??}नः।{??}नि चात्र दीयन्ते परलोकाममादरात। पुरुवैर्यज्ञ-[Page4682-b+ 38] पुरुषो जम्बूद्वीपे सदेज्यते। तत्रापि भारतं श्लेष्ठंजम्बूद्वीपे महामुने!। यतो हि कर्मभूरेषा ततोऽन्या-भोगभूमयः। अत्र जन्मसहस्राणां सहस्रैरपि सत्तम!। कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयम्। गायन्तिदेवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे। स्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषाः सुरत्यात्। कर्माण्यसंकल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्मरूप। अवाप्य ता कममहीमनन्ते तस्मिं ल्लयं ये त्वमलाःप्रयान्ति। जानीम नैतवद्धवयं विलीने स्वर्गप्रदे कर्मणिदेहबन्धम्। प्राप्स्याम धन्याः खलु ते मनुष्या ये भारतेनेन्द्रियविप्रहीनाः। नववर्षन्तु मैत्रेय! जम्बूद्वीप-मिदं मया। लक्षयोजनविस्तार संक्षेपात् कथितंतव। जम्बूद्वीप समातुत्य लक्षयोजनविस्तृतः। मैत्रेय!वलयाकारः स्थितः स्वीरोद{??}र्बिहिः।
“पराशर उवाच। क्षीरोदेन यथाद्वीपो जस्बुसङ्गाऽभिवेष्टितः। संवेष्ट्य क्षार-मुदधिं प्लक्षद्वीयस्तथा स्थितः। जम्बूद्वीपस्य विस्तारः शत-साहस्रसम्मितः। स एव द्विगुणो ब्रह्मन्! प्लक्षद्वीपोऽप्युदाहृतः। सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै। ज्येष्ठःशान्तभयो नाम शैशिरस्तदनन्तरः। सुखोदयस्तथानन्दःशिवः क्षेमक एव च। ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वराइमे। पूर्वं शान्तभयं वर्षं शिशिरं मुखटं तथा। आनन्दञ्च शिवञ्चैव क्षेमकं घ्रुवमेव च। मर्य्याटाकार-कास्तेषां तथान्ये वर्षपर्वताः। सप्तैव तेषां नामानिशृणुष्व मुनिसत्तम!। गोमेदश्चैव चन्दश्च नारदोदुन्दुभि-स्तथा। सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः। वर्षाचलेषु रम्येषु सर्वेष्वेतेषु चानघाः। वसन्ति देवगन्धर्व-सहिताः सततं प्रजाः। तेषु पुण्या जनपदाश्चिराच्चम्रियते जनः। नाधयोघ्याधयोवापि सर्वकालसुखं हितत्। तेषां न{??}श्च सप्तेव वर्षाणान्तु समुद्रगाः। ना-मतस्ताः प्रवक्ष्यामि श्रुताः पाप हरन्ति याः। अमु-तप्ता शिखा चैव विपापा दिदिवा क्रमुः। अमृतासुकृता चैव सप्तौतास्तत्र निमृगाः। एते शैलास्तथा नद्यःप्रधानाः कथितास्तव। क्षुद्रनद्यस्तथा शैलास्तत्र सन्तिसहस्रशः। ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते। अपसर्पिणी न तेषां वै नचैचोतसर्पिणी प्रजा। नात्र-चास्त युगावस्या तेषु स्थानेषु सप्तषु। त्रेतायुगसमःकालः मर्वदैव महासने!। प्लक्षद्वीपादिषु ब्रह्मन्। शाक-द्वीपान्तियेषु ते। पञ्चवर्षसहस्राणि जना तीवन्त्यना-[Page4683-a+ 38] मयाः। धर्माः पञ्चस्यथैतेषु वर्णाश्रभविभागजाः। यर्णाश्च तत्र चत्वारस्तान्निबोध वदामि ते। आर्य्यकाःकुरराश्चैव विविंशाभाविनश्च ते। विपक्षत्रियवैश्यास्तेशूद्राश्च द्विजसत्तम!। जम्बूवृक्षप्रमाणस्तु तन्मध्ये सुमहा-तरुः। प्लक्षस्तन्नामसंज्ञोऽयं प्लक्षद्वीपो द्विजोत्तम!। इज्यते भगवांस्तत्र तैर्वर्णैरार्य्यकादिभिः। सोमरूपीजगत्स्रष्टा सर्वः सर्वेश्वरो हरिः। प्लक्षद्वीपप्रमाणेनप्लक्षद्वीपसमावृतः। तथैवेक्षुरसोदेन परिवेशानुकारिणा। इत्येतत्तव मैत्रेय! प्लक्षद्वीपमुदाहृतम्। संक्षे-पेण मया भूयः शाल्मलं मे निशामय। शाल्मल-स्येश्वरो वीरो वपुष्मांस्तत्सुतान् शृणु। तेषान्तु नाम-संज्ञानि सप्त वर्षाणि तानि वै। श्वेतोऽत्र हरितश्चैवजीमूतो हरितस्तथा। वैद्युतो मानसश्चैव सुप्रभश्चमहामुने!। शाल्मलेन समुद्रोऽसौ द्वीपेनेक्षुरसोदकः। विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः। तत्रापिपर्वताः सप्त विज्ञेयारत्नयोनयः। रसाभिव्यञ्जकास्तेतु तथा सप्तैव निम्नगाः। कुमुदश्चोन्नतश्चैव तृतीयश्चबलाहकः। द्रोणो यत्र महौषध्यः स चतुर्थो मही-धरः। कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा। कुमुद्वान् पर्वतवरः सरिन्नामानि मे शृणु। योनितोयावितृष्णा च चन्द्रा शुक्ला विमोचनी। निवृत्तिः सप्तमीतासां स्मृतास्ताः पापशान्तिदाः। श्वेतञ्च लोहितञ्चैवजीमूतं हरितं तथा। वैद्युतं मानसञ्चैव सुप्रभं नामसप्तमम्। सप्तैतानि तु वर्षाणि चातुर्वर्णयुतानि वै। शाल्मलेऽपि च ये वर्णा वसन्त्येते महामुने!। कपिला-श्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक्। ब्राह्मणाःक्षत्रिया वैश्याः शूद्राश्चैव यजन्तितम्। भगवन्तं सम-स्तस्य विष्णुमात्मानमव्ययम्। वायुभूतं मुखश्रेष्ठै-र्यज्वितोऽसङ्गसंस्थितिम्। देवानामत्र सान्निध्यमत्रैवसमनोरमे। शाल्मलिश्च महावृक्षो नाम निर्वृतिकार कःएष द्वीपः समुद्रेण सुरीदेनं समावृतः। विस्तारः शाल्-मलस्यैव समेन तु समन्वतः। सुरोदकः परिवृतः कुश-द्वीपेन सर्वतः। शाल्मलस्य तु विस्ताराद्द्विगुणेन सम-न्ततः। ज्योतिष्मतः कुशद्वीपे सप्त पुत्राः शृणुष्व तान्। उद्भिदो रेणुमांश्चैव सुरथो लम्बनो धृतिः। प्रभाकरोऽथकपिलस्तन्नाम्ना वर्ष उच्यते। तस्मिन् वसन्ति मनुजाःसह दैतेयदानषैः। तथैव देवगन्धर्वयक्षकिंपुरुषा-दिभिः। वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः। [Page4683-b+ 38] दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने!। ब्रा-ह्मणाः क्षत्रियाः वैश्याः शूद्राश्चानुक्रमोदिताः। यथोक्त-कर्मकर्तृत्वात् स्वाधिकारक्षयाय ते। तत्र यत्तत् कुशद्वीपेब्रह्मरूपं जनार्दनम्। यजन्तः क्षपयन्नुग्रमधिकारफल-प्रदम्। विद्रुमो हेमशैलश्च द्युतिमान् पुष्पवांस्तथा

१ कुशेशयो हरिश्चैव सप्तमो मन्दराचलः। वर्षाचलास्तुसप्तैव तत्र द्वीपे महामुने!। नद्योऽपि सप्त तासाञ्चशृणु नामान्यनुक्रमात्। धूतपापा शिवा चैव पवित्रासम्मतिस्तथा। विद्युदस्ता मही चैव सर्वपापहरा-स्त्विमाः। अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाऽचलाः। कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत् स्मृतम्। तत्प्रमा-णेन स द्वीपो घृतोदेन समावृतः। धृतोदश्च समुद्रो वैक्रौञ्चद्वीपेन संवृतः। क्रौञ्चद्वीपो महाभाग! श्रूयताञ्चा-परो महान्। कुशद्वीपस्य विस्ताराद्द्विगुणो यस्य वि-स्तरः। क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्र महात्मनः। तन्ना-मानि च वर्षाणि तेषाञ्चक्रे महीपतिः। कुशलो मन्दग-श्चोष्णः पीवरीऽथान्धकारकः। मुनिश्च दुन्दुभिश्चैव सप्रेतेतत्सुता मुने!। तत्रापि देवगन्धर्वसेविताः सुमनोरमाः। वर्षाचला महाबुद्धे! तेषां नामानि मे शृणु। क्रौ{??}वामनश्चैव तृतीयश्चान्धकारकः। चतुर्थी हरशैलश्चस्वभाभिर्भासयन्नभः। देवावृत् पञ्चमश्चैव तथा स्वःपुण्ड-रीकवान्। दुन्दुभिश्च महाशैलो द्विगुणास्ते पर-स्परम्। द्वीपद्वीपेषु ये शैला यथा द्वीपानि ते तथा। वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च। निवसन्ति निरा-तङ्काः सहदेवगणैः प्रजाः। पुष्कराः पुष्कलाधन्यास्ति-ष्याख्याश्च महामुने!। ब्राह्मणाः क्षत्रियावैश्याः शूद्राश्चा-नुक्रमोदिताः। ते तत्र नद्यो मैत्रेय! या पिवन्ति शृ-णुष्वताः। सप्त प्रधानाः परतस्तत्रान्याः क्षुद्रनिम्नगाः। सौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा। ख्यातिश्चपुण्डरीका च सप्तैता वर्षनिम्नगाः। तत्रापि वर्णैर्भग-वान् पुष्कराद्यैर्जनार्दनः। योगिरुद्रस्वरूपस्तु इज्यतेयज्ञसन्निधौ। क्रौञ्चद्वीपः समुद्रेण दधिमण्डीदकेनच। आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः। दधि-मण्डोदकश्चापि शाकद्वीपेन संवृतः। क्रौञ्चद्वीपस्यविस्ताराद् द्विगुणेन महामते!। शाकद्वीपेश्वरस्यापिभवस्य सुमहात्मनः। सप्तैव तनयास्तेषां ददौ वर्षाणिसप्त च। जलदश्च कुमारश्च सुकुमारो मणीरकः। कुमु-दोदः समौदाकिः सप्तमश्च महाद्रुमः तत्संज्ञान्यपि-[Page4684-a+ 38] तान्येव सप्त वर्षाण्यनुक्रमात्। तत्रापि पर्वताः सप्त वर्ष-विच्छेदकारिणः। पूर्वस्तत्रोदयनिरिर्जलाधारस्तथा परःतथा रेवतकः श्यामस्तथैवास्तगिरिर्द्विज!। आम्बिकेय-स्तथा रम्यः केशरी पर्वतोत्तमः। शाकस्तत्र महावृक्षःसिद्धगन्धर्वसेवितः। तत्पत्रवातसंसर्गादाह्लादो जायतेपरः। तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः। नद्य-श्चात्र महापुण्याः सर्वपापभयापहाः। सुकुमारीकुमारी च नलिनी रेणुका तथा। इक्षुश्च धेनुका चैवगभस्ती सप्तमी तथा अन्यास्त्वयुतशस्तत्र{??}द्रनद्यो म-हामुने!। महीधरास्तथा चात्र शतमोऽथ सहस्रशः। ताः पिबन्ति मुदायुक्ता जलदादिषु ये स्थिताः। वर्षेष्वेतेजनपदाः स्वर्गादभ्येत्य मेदिनीम्। धर्महानिर्न ते-ष्वस्ति न संहर्षः परस्परम्। मर्य्यादाव्युत्क्रमो नापितेषु देशेषु सप्तसु। मागाश्च मानधाश्चैव मानसामन्दगास्तथा। मागा व्राह्मणभूयिष्ठा मागधा क्षत्रिया-{??}था। वैश्यास्तु मानसास्तेषां शूद्रास्तेषां तु मन्दगाः। शाकद्वीपे तु तैर्वर्णैः सूर्य्यरूपधरो मुने!। यथोक्तैरिज्यतेसम्यक्कर्मभिर्नियतात्मभिः। शाकद्वीपस्तु मैत्रेय! क्षीरो-देन समन्ततः। शाकद्वीपप्रमाणेन बलयेनेव वेष्टितः। क्षीराब्धिः सर्वतो ब्रह्मन्! पुष्कराख्येन येष्टितः। द्वीपेनशाकद्वीपात्तु द्विगुणेन समन्ततः। पुष्कराख्य द्वीपपते-र्महावीतोऽभवत् सुतः। धातकिश्च तयोस्तत्र द्वेवर्षेनाम चिह्निते। महावीतं तथैवान्यत् धातकीषण्ड-भण्डितम्। एकश्चात्र महाभाग! प्रख्यातो वर्ष-पर्वतः। मानसोत्तरसंज्ञो वै मध्यतो बलयाकृतिः। योजनानां सहस्राणि ऊर्द्ध्वं पञ्चाशदुच्छ्रितः। ताव-दैव च विस्तीर्णः सर्वतः परिमण्डलः। पुष्करद्वीपबलयंमध्ये संविभजन्निव। स्थितोऽसौ सुमहान् शैलोव्याप्य तद्वर्षकद्वयम्। बलयाकारमेकैकं तयोर्वर्षंतथा गिरिः। दशवर्षसहस्राणि यत्र जीवन्ति मानवाः। निरामया विशोकाश्च रानद्वेषविवर्जिताः। अधमोत्तमौन तेष्वास्तां न नध्यबधकौ द्विज! नेर्ष्यासूयाभयंरोषो दोषो लोभादिको न च। महावीतं महावर्षंधातकीसंङ्गमन्ततः। मानसोत्तरशैलश्च देवदैत्यादिसेवितः। सत्यानृतं न तत्रास्ते द्वीपे पुष्करसंज्ञिते। न तत्र शैलनद्यो वा द्वीपे वर्षद्वयान्विते। तुल्यवेशास्तुमनुजादेवैस्तत्रैकरूपिणः। वर्णाश्रमाचांरहीनं धर्मा-हरणवर्जितम्। त्रयीवार्त्तादण्डनीतिशुश्र षारहितञ्च[Page4684-b+ 38] तत्। वर्{??}द्वयञ्च मैत्रेय! भौमः स्वर्गोऽयमुत्तमः। सर्वश्चसुखदः कालो जरारीगादिवर्जितः। पुष्करे धातकी-षण्डं महावीते च वै मुने!। न्यग्रोधः पुष्करद्वीपेव्रह्मणः स्थानमुत्तमम्। तस्मिन्निवसति ब्रह्म। पूज्य-मानः सुरासुरैः। स्वादूदकेनोदधिना पुष्करः परि-येष्टितः। समेन पुष्करस्यैव विस्तारान्मण्डलात्तथा। एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः। द्वीपश्चैवसमुद्रश्च समानौ द्विगुणौ परौ। पयांसि सर्वदा सर्व-समुद्रेषु समानि वै। ऊनातिरिक्तता तेषां कदा{??}न्नैवजायते। स्थालीस्थमग्निसंयोगादुद्रेकि सलिलं यथा। तथेन्दुवृद्धौ सलिलमम्भोधौ मुनिसत्तम!। अनूमाश्चाति-रिक्ताश्च वर्द्धन्त्यापो ह्रसन्ति च। उदयास्तमनेष्विन्दोःपक्षयोः शुक्लकृष्णयोः। दशोत्तराणि पञ्चैव अङ्गुलानांशतानि वै। अपां धृद्विक्षयौ दृष्टौ सामुद्रीणां महा-मुने!। भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम्। यत्रसंभुञ्जते विप्र! प्रजाः सर्वाः सदैव हि। स्वादूदकस्यपुरतो दृश्यते लोकसंस्थितिः। द्विगुणा काञ्चनी भूमिःसर्वजन्तुविवर्जिता। लोकालोकस्ततः शैलो योजनायुत-विस्तरः। उच्छ्रायेणापि तावन्ति सहस्राण्यचलोहि सः। ततस्तमः समावृत्य तं शैह्यं सर्वतः स्थितम्। तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम्। पञ्चाशत्-कीटिविस्तीर्णा सेयमुवीं महामुने!। सहैवाण्डकटाहेनसद्वीपाब्धिमहीधरा। सेयं धात्री विधात्री च सर्वभूत-गुणाधिका। आधारभूता सर्वेषां मैत्रेय! जगतामिति”। ( भूगोलस्य स्थिरत्वे युक्तिः{??}गोलशब्दे उक्ता अधिक-मत्र किञ्चिदुच्यते इलण्डीयज्योतिर्विदां मते भूगोलस्यैवदक्षिणोत्तरगतिभ्यां सूर्य्यस्य उत्तरदक्षिणगतित्वं कल्प्यतेस्थिरस्य सूर्य्यस्य उत्तरदक्षिणायनयोरसम्भवादिति। तदेतन्मतमतीवासमञ्जसं भूगोलस्य दक्षिणोत्तरगतिस्वीकारेसूर्य्यस्येव कृत्तिकारोहिणोशकटमृगव्याधादीनामपिउत्तरदक्षिणयोर्गतिः प्रसज्येत न च तथा दृश्यतेतेषाञ्च यथा विक्षेपनामशरसंख्या सौरागमे पठितातादृशान्तर एव प्रत्यहं दर्शनं न मनागपि उत्तरदक्षिणा-थनमिति विवेच्य भूगालस्य रिवात्वभनुसन्धातव्यम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूगोल¦ m. (-लः) The terrestrial globe, the earth. E. भू the earth, गोल a ball or globe.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूगोल/ भू--गोल m. " earth-ball " , the terrestrial globe , earth Ka1v. Pan5car. BhP.

भूगोल/ भू--गोल m. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=भूगोल&oldid=503254" इत्यस्माद् पुनः प्राप्तिः