भूत

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतम्, क्ली, (भू + क्तः ।) युक्तम् । न्यायः । क्ष्मादिः । पृथिव्यप्तेजोवाय्वाकाशपञ्चकम् । (यथा, मनुः । १२ । १४ । “तावुभौ भूतसम्पृक्तौ महान् क्षेत्रज्ञ एव च ॥ उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥” “स च त्रिविधो वैकारिकस्तैजसो भूतादिरिति । भूतादेरपि तैजससहायात्तल्लक्षणान्येव पञ्चत- न्मात्राण्युत्पद्यन्ते । तद्यथा । शब्दतन्मात्रं स्पर्श- तन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्र- मिति । तेषां विशेषाः शब्दस्पर्शरूपरसगन्धा- स्तेभ्यो भूतानि व्योमानिलानलजलोर्व्व्यः ।” इति सुश्रुते शारीरस्थाने प्रथमेऽध्याये ।) ऋतम् । सत्यम् । इत्यमरभरतौ ॥ पिशाचादि । (यथा, श्रीभागवते । ३ । १४ । २१ । “एषा घोरतमा वेला घोराणां घोरदर्शना । चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥”) जन्तुः । इति मेदिनीशब्दरत्नावल्यौ ॥ (यथा, मनुः । ६ । ८ । “स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समा- हितः । दाता नित्यमनादाता सर्व्वभूतानुकम्पकः ॥” स्थावरजङ्गमात्मकं द्रव्यम् । यथा, मनुः । ८ । ३०६ । “रक्षन् धर्म्मेण भूतानि राजा वध्यांश्च घात- यन् ! यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥”) वस्तुतत्त्वम् । यथा, -- “छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥ छलं प्रमादाभिहितम् । निरस्य परित्यज्य । भूतेन वस्तुतत्त्वानुसरणेन । व्यवहारान्नयेदन्तं नृपः । यस्माद्भूतमपि वस्तुतत्त्वमपि अनुपन्यस्त- मनभिहितं हीयते हानिमुपगच्छति व्यवहारतो व्यवहारेण साक्ष्यादिभिः । तस्माद्भूतानुसरणं कर्त्तव्यम् । यथार्थिप्रत्यर्थिनौ सत्यमेव वदतस्तथा ससभ्येन सभापतिना यतितव्यं सामादिभिरुपायै- स्तथा सति साक्ष्यादिनैरपेक्षेणैव निर्णयो भव- तीति ॥ अथ सर्व्वथापि भूतानुसरणं न शक्यते कर्त्तुं तथा सति साक्ष्यादिभिर्निर्णयः कार्य्य- इत्यनुकल्पः । यथोक्तम् । भूतच्छलानुसारि- त्वाद्विगतिः समुदाहृता । भूतन्तत्त्वार्थयुक्तं यत् प्रमादाभिहितं छलमिति ॥ तत्र भूतानुसारी व्यवहारो मुख्यः । छलानुसारी त्वनुकल्पः । इति मिताक्षरायां व्यवहाराध्यायः ॥

भूतम्, त्रि, (भाव्यते स्मेति । “आधृषाद्बेति णिज- भावः । भू + क्तः । भूतिरस्त्यस्येति वा । अर्श- आदित्वात् अच् । अभवदिति वा । भुवो गत्यर्थे इति । भूतार्थे कर्त्तरि क्तः ।) प्राणी । जन्तुः । (यथा, ऋग्वेदे । ३ । २७ । ९ । “धिया चक्रे वरेण्यो भूतानां गर्भमादधे ॥” यथा च चरके शारीरस्थाने तृतीयेऽध्याये ॥ “भूतानाञ्चतुर्व्विधा योनिर्जराय्वण्डस्वेदोद्भिदः ।”) अतीतम् । (यथा, कथासरित्सागरे । १ । २४ । “भूतं भवद् भविष्यद् वा किं तत् स्यात् जगति प्रिये । भवती यन्न जानीयादिति शर्व्वोऽप्युवाच ताम् ॥”) वृत्तम् । (यथा, सुश्रुते चिकित्सितस्थाने । १० अध्याये । “गोशकृद्भूतानां वा यवानां शक्तून् कार- यित्वा ॥”) समम् । सदृशम् । इत्यमरभरतौ ॥ प्राप्तम् । (यथा, महाभारते । १३ । ३४ । १५ । “यद् ब्राह्मणमुखात् प्राप्तं प्रतिगृह्णन्ति वैवचः । भूतात्मानो महात्मानस्ते न यान्ति परा- भवम् ॥” “भूतः प्राप्तो वशीकृत आत्मा चित्तं यैस्ते ॥” इति तट्टीकायां नीलकण्ठः ।) सत्यम् । इति मेदिनीशब्दरत्नावल्यौ ॥ (यथा शाकु- न्तले । प्रथमाङ्के । “सूत्रधारः । सस्मितम् । आर्य्ये ! कथयामि ते भूतार्थम् ।”) भूतकालस्य पर्य्यायो यथा । वृत्तम् २ अतीतम् ३ ह्यस्तनम् ४ निभृतम् ५ गतम् ६ । इति राजनिर्घण्टः ॥ उत्तरपदस्थ एव भूतशब्दः समार्थ इति शाब्दिकाः । यथा देवभूतोऽयम् । इति भरतः ॥ (उत्तरपदस्थ भूतशब्दः स्वरूपार्थोऽपि । यथा, मनुः । १ । ५ । “आसीदिदं तमोभूतमप्रज्ञातमलज्ञणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्व्वतः ॥”)

भूतः, पुं, (भू + कर्त्तरि क्तः ।) देवयोनिविशेषः । स च अधोमुस्वोर्द्ध्वमुखादिः पिशाचभेदो रुद्रा- नुचरो बालग्रहः । इत्यमरभरतौ ॥ (यथा, मार्कण्डेयपुराणे । ५१ । ५३ । “विक्षिपेज्जुहुयाच्चैवानलं मित्रञ्च कीर्त्तयेत् । भूतानां मातृभिः सार्द्धं बालकानान्तु शान्तये ॥”) कुमारः । इति मेदिनी । ते, ४१ ॥ योगीन्द्रः । इति शब्दरत्नावली ॥ कृष्णचतुर्द्दशी । इति त्रिकाण्डशेषः ॥ * ॥ भूतनाशकौषधम् । यथा, “श्वेतापराजितामूलं पिष्टं तण्डलवारिणा । तेन नस्यप्रदानं स्याद्भूतबृन्दस्य विद्रवम् ॥ अगस्त्यपुष्पनस्यो वै समरीचश्च भूतहृत् । भुजङ्गवर्म्म वै हिङ्गु निम्बपत्राणि वै यवाः । गौरसर्षप एभिः स्याल्लेपो भूतहरः कृतः ॥ गोरोचना मरीचानि पिप्पली सैन्धवं मधु । अञ्जनं कृतमेभिः स्याद् ग्रहभूतहरं शिव ! ॥ अपि च । “वचा त्रिकटुकञ्चैव करञ्जं देवदारु च । मञ्जिष्ठा त्रिफला श्वेता शिरीषो रजनीद्बयम् ॥ प्रियङ्गुनिम्बत्रिकटुगोमूत्रेणावघर्षितम् ॥ नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा ॥ अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् । भूतेभ्यश्च भयं हन्ति राजद्बारे च शासनम् ॥” इति गारुडे १९२ । १९९ अध्यायः ॥ शम्भुगणभूता यथा, -- “हते वराहस्य गणे भर्गमासाद्य ते गणाः । चतुर्भागाः स्वयं भूत्वा भूतं कर्म्मेति वै जगुः ॥ भूतत्वमभवत्तेषां चतुर्भागवतां तदा । वचनात् पद्मजातस्य भूतग्रामास्ततो मताः ॥ यो लोकविदितः पूर्ब्बं भूतग्रामश्चतुर्विधः । यतस्तेभ्योऽधिका यत्नैस्तद्भूतग्राम उच्यते ॥ इति वः सर्व्वमाख्यातं भूताः शम्भुगणा यथा ।” इति कालिकापुराणे २९ अध्यायः ॥ (वसुदेवस्य पौरवीगर्भजातद्बादशपुत्त्राणां ज्येष्ठ- तमः । यथा, भागवते । ९ । २४ । ४७ । “पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूत नपुं।

देवयोनिः

समानार्थक:विद्याधर,अप्सरस्,यक्ष,रक्ष,गन्धर्व,किन्नर,पिशाच,गुह्यक,सिद्ध,भूत

1।1।11।2।4

विद्याधराप्सरोयक्षरक्षोगन्धर्व किन्नराः। पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः॥

 : अप्सरस्, हाहानामदेवगायकः, हूहूनामदेवगायकः, देवगायकः, राक्षसः, किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

भूत वि।

प्राप्तम्

समानार्थक:लब्ध,प्राप्त,विन्न,भावित,आसादित,भूत

3।1।104।2।6

स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्. लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥

पदार्थ-विभागः : , द्रव्यम्

भूत नपुं।

आवृतम्

समानार्थक:भूत

3।3।78।1।1

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु। वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले॥

पदार्थ-विभागः : , द्रव्यम्, कालः

भूत नपुं।

अतीतः

समानार्थक:भूत,वृत्त,स्म

3।3।78।1।1

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु। वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले॥

पदार्थ-विभागः : , द्रव्यम्, कालः

भूत नपुं।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

3।3।78।1।1

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु। वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले॥

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

भूत नपुं।

प्राणी

समानार्थक:प्राणिन्,चेतन,जन्मिन्,जन्तु,जन्यु,शरीरिन्,भूत

3।3।78।1।1

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु। वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले॥

वैशिष्ट्यवत् : जननम्

 : नरकस्थप्राणी, मनुष्यः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

भूत नपुं।

युक्तम्

समानार्थक:भूत,अभिनीत,क्षम

3।3।78।1।1

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु। वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूत¦ न॰ भू--क्त।

१ न्याय्ये उचिते पृथिवीजलतेजोबायुगगन-रूपेषु गन्धादिविशेषगुणवत्षु

२ द्रव्येषु,

४ सत्ये,यथार्थे वास्तविके
“भूतमप्यनुपत्यस्तं हीयते व्यवहारतः” इति स्मृतिः।

५ तत्त्वानुसन्धाने च
“छलं निरस्य भूतेन” स्मृतिः।

६ पिशाचादौ पु॰

७ कुमारे

८ योगीन्द्रे

९ कृष्णपक्षे

१० प्राणिनि च न॰।

११ अतीते वृत्ते

१२ सदृशे

१३ प्राप्ते

१४ सत्यार्थे त्रि॰।

१५ कृष्णचतुर्दर्श्या स्त्री टाप्। भूतत्वंच आत्मान्यत्वे सति विशेषगुणवत्त्वम् न तु जातिःमूर्त्तत्वेन साङ्कर्य्यात् तथाहि भूतत्वाभावबति मनसिमूर्त्तत्वस्य सत्त्वात् मूर्त्तत्वाभाववति गगने भूतत्वस्य सत्त्वात्उभयोः परस्परभावसामानाधिकरण्यम् पृथिव्यादिषुचतुर्षु च भूतत्वमूर्त्तत्वयोरुभयोः सत्त्वात् परस्परसामा-नाधिकरण्यमिति माङ्कर्य्यात् जातिव्याधकता।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूत¦ mfn. (-तः-ता-तं)
1. Been, become.
2. Being, existing.
3. Gone, past.
4. (In composition,) Like, resembling.
5. Obtained, got.
6. Pro- [Page534-a+ 60] per, right.
7. True.
8. Known.
9. Mixed. mn. (-तः-तं)
1. A goblin, a ghost, a malignant spirit, haunting cemeteries, lurking in trees, animating carcases and deluding or devouring human beings.
2. A living being. m. (-तः)
1. A son, a child.
2. A demi-god of a parti- cular class.
3. The fourteenth day of the dark half of the lunar month.
4. A name of S4IVA. n. (-त)
1. An element; five Bhu4tas are enumerated: earth, fire, water, air and A4ka4s or æther.
2. (In law,) Fact, matter of fact, the real state of the case, or what has actually been.
3. The past.
4. Welfare.
5. The world.
6. The number “five,” (in math.) E. भू to be, aff. क्त of the participle past.

भूत¦ mfn. (-तः-ता-तं)
1. Hired, paid, maintained.
2. Cherished, suppor- ted.
3. Filled.
4. Having, being possessed of, or endowed with.
5. Borne, carried. m. (-तः)
1. A servant.
2. A hired labourer. E. भृ to nourish, aff. क्त।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूत [bhūta], p. p. [भू-क्त]

Become, being, existing.

Produced, formed.

Actually being, really happened, true; भूताश्चार्था विरुद्ध्यन्ति देशकालविरोधिताः Rām.5.3.37.

Right, proper, fit; अभूतेनापवादेन कीर्तीं निपतितामिव Rām. 5.15.34; भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः R.1.33.

Past, gone.

Obtained.

Mixed or joined with.

Being like, similar, (see भू); मग्नां द्विषच्छद्मनि पङ्कभूते Ki.3.39.

तः A son, child.

An epithet of Śiva.

The fourteenth day of the dark half of a lunar month (also भूता).

A great devotee.

N. of a priest of the gods.

The dark fortnight of a month (कृष्णपक्ष).

see भूतगण.

तम् Any being (human, divine or even inanimate); इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम् Ku.4.45; Pt.2. 87.

A living being, an animal, a creature; क्षरः सर्वाणि भूतानि कूटस्थो$क्षर उच्यते Bg.15.16; भूतेषु किं च करुणां बहुली- करोति Bv.1.122; U.4.6.

A spirit, ghost, an imp, a devil (m. also in these senses); ततो रक्षां महातेजः कुरु भूतविनाशिनीम् Rām.7.66.3.

An element; (they are five, i. e. पृथ्वी, अप्, तेजस्, वायु, and आकाश); तं वेधा विदधे नूनं महाभूतसमाधिना R.1.29.

An actual occurrence, a fact, a matter of fact.

The past, past time.

The world.

Well-being, welfare.

A symbolical expression for the number 'five'.

Fitness, propriety.-Comp. -अनुकम्पा compassion for all beings; भूतानुकम्पा तव चेत् R.2.48. -अनुवादः a mention of established facts, a variety of अर्थवाद (q. v.); भूतानुवादमात्रमनर्थकम् ŚB. on MS.1.2.4. -अन्तकः the god of death, Yama.-अभिषङ्गः possession by evil spirits. -अरिः Asa Fœtida.

अर्थः the fact, real fact, true state, truth, reality; आर्ये कथयामि ते भूतार्थम् Ś.1; भूतार्थशोभाह्नियमाणनेत्रा Ku.7.13; कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति Mk.3.24.

an element of life. ˚कथनम्, ˚व्याहृतिः f. a statement of facts; भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः R.1.33.-अवमानिन् m. despiser of all; भूतावमानी हैहयश्चार्जुनः Kau. A.1.6. -आत्मक a. consisting or composed of the elements.

आत्मन् one whose soul is purified.

composed of the five elements (as the body); cf. Ms.12.12. (-m.)

the individual (as opposed to the Supreme Soul); विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति Ms.5.19; विधमिष्यति ते देहे भूतात्मानं चिरोषितम् Rām.6.59. 55.

of Śiva.

of Viṣṇu; भूतात्मा भूतभावनः V. Sah.

an elementary substance.

war, conflict.

the elementary or vital principle.

a soul which clings to the elements, a carnal mind; भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम् Y.3.34.

आदिः the Supreme Spirit.

an epithet ofAhaṁkāra (in Sāṅkhya phil.). -आर्त a. possessed by a devil.

आवासः the body.

an epithet of &Scute;iva.

of Viṣṇu; वसन्ति त्वयि भूतानि भूतावासस्ततो हरिः Hariv.-आविष्ट a. possessed by a devil or evil spirit. -आवेशः demoniac possession. -इज्यम्, -इज्या making oblations to the Bhūtas. -इन्द्रियजयिन् m. a kind of ascetic.-इष्टा the fourteenth day of a lunar fortnight. -ईशः

of Viṣṇu.

of Śiva; भूतेशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटा जटाः Māl.1.2; भूतेशप्रीति- हेतोः Udb. -ईश्वरः an epithet of Śiva; भूयः स भूतेश्वर- पार्श्ववर्ती R.2.46. -उन्मादः demoniac possession. -उपदेशः a reference to past things or such as already exist.-उपसृष्ट, -उपहत a. possessed by a devil. -ओदनः a dish of rice (eaten to counteract the influence of demons). -कर्तृ, -कृत् m. an epithet of Brahman; सर्वलोकप्रभुर्ब्रह्मा भूतकर्तृ तथर्षयः Rām.2.25.25; ततस्थानाह भूत- कृत् 7.4.12. -कला f. a power which produces the five elements; धरादिपञ्चभूतानां निवृत्त्याद्याः कलाः स्मृताः Śāradātilakam.

कालः past time.

(in gram.) the past or preterite time. -केशी the holy basil. -कोटिः absolute non-entity; Bhddh. -क्रान्तिः f. possession by a devil.

गणः the collection of created beings.

the whole class of spirits or devils; प्रेतान् भूतागणांश्चान्ये यजन्ते तामसा जनाः Bg.17.4. -गत्या truthfully; तदखिलमिह भूतं भूतगत्या ...... अभिलषति स्म N.9.159. -गुणः a quality of the elements; शब्दस्पर्शरूपरसगन्धा भूतगुणाः स्मृताः Śāradātilakam. -ग्रस्त possessed by a devil.

ग्रामः the whole multitude or aggregate of living beings; U.7; भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते Bg.8.19.

a multitude of spirits.

घ्नः a kind of birch tree.

a camel.

garlic. (-घ्नी) the holy basil. -चतुर्दशी the fourteenth day of the dark half of Kārtika. -चारिन् m. an epithet of Śiva. -चिन्तकः = स्वभाववादिन् q. v.; दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः Mb.12.232.19. -चिन्तनिकः an adherent to the doctrine that the mind or intellect is produced from material elements. -चिन्ता an enquiry into the elements, investigation into their nature. -चैतन्यम् intellectuality of matter. -जननी the mother of all beings.-जयः victory over the elements. -तन्त्रम् the doctrine of spirits. -तन्मात्रम् a subtle element. -दया compassion towards all beings, universal benevolence. -द्रुमः Cordia Latifolia (Mar. भोंकर). -द्रुह्, -ध्रुक् a. injurious, malicious. -धरा, -धात्री, -धारिणी the earth. -धात्री sleep.-नाथः an epithet of Śiva; तद् भूतनाथानुग नार्हसि त्वम् R.2.58. -नायिका an epithet of Durgā.

नाशनः the marking-nut plant.

mustard.

pepper.

(नम्) Asa Fœtida.

a bead used for rosaries (रुद्राक्ष).-निचयः the body. -पक्षः the dark fortnight.

पतिः an epithet of Śiva; ध्यानास्पदं भूतपतेर्विवश Ku.3.43,74.

of Agni.

the sacred basil.

the sky; ज्वलसि यन्निशि भूतपतिं श्रितः N.4.55. -पत्री the holy basil. -पालः the guardian of living beings. -पूर्णिमा the day of fullmoon in the month of Āśvina. -पूर्वम् ind. formerly.a.

former, ancient, old; पश्यामि च जनस्थानं भूतपूर्वखरा- लयम् U.2.17.

deceased. -प्रकृतिः f. the origin of all beings; यामाहुः सर्वभूतप्रकृतिरिति Ś.1.1 (v. l.). -बलिः = भूतयज्ञ q. v. -ब्रह्मन् m. a low Brāhmaṇa who maintains himself with the offerings made to an idol; see देवल.-भर्तृ a. sustaining all beings; भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च Bg.13.16. -m. an epithet of Śiva. -भव a. existing in all beings. -भव्यम् past and future.

भावनः an epithet of Brahman.

of Viṣṇu. -भाविन् a.

creating living beings. -भाषा, -भाषितम् the language of devils. -भृत् a. sustaining the elements or creatures; भूतभृन्न च भूतस्थो ममात्मा भूतभावनः Bg.9.5. -भौतिक a. consisting of the elements. -महेश्वरः an epithet of Śiva.-मातृ f. an epithet of Gaurī. -मातृका the earth.-मात्रम्, -त्रा the rudiment of an element. -मात्रा f. pl. the coarse and subtile elements; तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः Ms.12.17. -यज्ञः an oblation or offering to all created beings, one of the five daily Yajñas to be performed by a householder. -योनिः the origin of all created beings. -रयाः a. a class of gods under the 5th Manu; Bhāg. -राज् m. an epithet of Śiva. -लिपिः a particular magic formula. -वर्गः the whole class of spirits. -वादिन्a. telling the real fact or truth. -वासः the Bibhītaka tree. -वाहनः an epithet of Śiva.

विक्रिया epilepsy.

possession by a devil. -विज्ञान, -विद्या demonology (भूतविद्या); Ch. Up.7.1.2. -विनायकः a leader of evil beings; Bhāg. -विभुः a king; शाहभूविभुः Śāhendra. 2.93. -वृक्षः the Bibhītaka tree. -वेशी a white flowering Vitex Negundo (Mar. निर्गुडी). -शुद्धिः f. purification of the elements (of the body).

संसारः the world of mortals.

the course of existence; घोरे$स्मिन् भूतसंसारे नित्यं सततयायिनि Ms.1.5. -संघः the totality of beings or of the elements. -संचारः demoniac possession.-संचारिन् m. a forest conflagration. -संप्लवः universal deluge or destruction; आभूतसंप्लवस्थानममृतत्वं हि भाषते.-समागमः the meeting of mortals; यथा काष्ठं च ... समेत्य च व्यपेयातां तद्वद् भूतसमागमः Mb.12.28.36.

सर्गः the creation of the world, the class or order of created beings.

creation of the elements. -साक्षिन् m. 'allseeing', an eye-witness of created beings. -साधनी the earth. -सूक्ष्मम् a subtle element. -सृज् m. an epithet of Brahman; बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा Ki.6.42. -सृष्टिः f.

the illusion effected by the power of Bhūtas.

the whole class of Bhūtas taken collectively.

स्थानम् the abode of living beings.

the abode of demons. -हत्या destruction of living beings. -हन्त्री a species of Dūrvā grass. -हरः bdellium.-हासः a kind of fever.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूत mf( आ)n. become , been , gone , past (n. the past) RV. etc.

भूत mf( आ)n. actually happened , true , real (n. an actual occurrence , fact , matter of fact , reality) Ya1jn5. R. etc.

भूत mf( आ)n. existing , present Kan2.

भूत mf( आ)n. ( ifc. )being or being like anything , consisting of , mixed or joined with Pra1t. Up. Mn. etc. (also to form adj. out of adv. , e.g. इत्थम्-, एवम्-, तथा-भ्)

भूत mf( आ)n. purified L.

भूत mf( आ)n. obtained L.

भूत mf( आ)n. fit , proper L.

भूत mf( आ)n. often w.r. for भृत

भूत m. a son , child L.

भूत m. a great devotee or ascetic L.

भूत m. ( pl. )N. of an heretical sect (with जैनs , a class of the व्यन्तरs) L.

भूत m. N. of शिवL.

भूत m. of a priest of the gods L.

भूत m. of a son of वसु-देवand पौरवीBhP.

भूत m. of a son-in-law of दक्षand father of numerous रुद्रs ib.

भूत m. of a यक्षCat.

भूत m. ( f( आ). )the 14th day of the dark half of the lunar month SkandaP. ( L. also m. )

भूत m. N. of a woman HParis3.

भूत n. (See. above ) that which is or exists , any living being (divine , human , animal , and even vegetable) , the world (in these senses also m.) RV. etc.

भूत n. a spirit (good or evil) , the ghost of a deceased person , a demon , imp , goblin (also m.) Gr2S. Up. Mn. etc. (See. RTL. 241 )

भूत n. an element , one of the 5 elements ( esp. a gross -elelement = महा-भ्See. ; but also a subtle -elelement = तन्-मात्रSee. ; with Buddhists there are only 4 -elelement) Up. Sa1m2khyak. Veda7ntas. etc.

भूत n. N. of the number " five "(See. महा-भ्and पाञ्चभौतिक)

भूत n. well-being , welfare , prosperity VS. TS. AitBr.

"https://sa.wiktionary.org/w/index.php?title=भूत&oldid=302579" इत्यस्माद् पुनः प्राप्तिः