भूतशुद्धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतशुद्धिः, स्त्री, (भूतानां देहारम्भ कपृथिव्यादि पञ्चभूतानां शुद्धिः शोधनम् ।) पूजादौ बीज- विशेषद्वारावामकुक्षिस्थितपापपुरुषदहनपूर्ब्बक- शरीरशोधनम् । तत्प्रयोगो यथा । रमिति जलधारया वह्निप्राकारं विचिन्त्य स्वाङ्के डत्तानौ करौ कृत्वा सोऽहमिति जीवात्मानं हृदयस्थं द्वात्रिंशन्मात्रया मन्त्री लं बीजेन दृढं नयेत् । स्वस्थाने हंसमन्त्रेण पुनस्तेनैव वर्त्मना ॥ जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत्ततः । इति कृत्वा भूतशुद्धिं मातृकान्यासमाचरेत् ॥ * संक्षेपभूतशुद्धिर्यथा । पुरश्चरणचन्द्रिकायाम् । “अथवान्यप्रकारेण भूतशुद्धिर्विधीयते । धर्म्मकन्दसमुद्भूतं ज्ञाननालसुशोभनम् ॥ ऐश्वर्य्याष्टदलोपेतं परं वैराग्यकर्णिकम् । स्वीयहृत्कमले ध्यायेत् प्रणवेन विकासितम् ॥ कृत्वा तत्कर्णिकासंस्थं प्रदीपकलिकानिभम् । जीवात्मानं हृदि ध्यात्वा मूले सञ्चिन्त्य कुण्डलीम् । सुषुम्नावर्त्मनात्मानं परमात्मनि योजयेत् ॥” इति तन्त्रसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतशुद्धि¦ स्त्री॰ भूतानां देहारम्भकपृथिव्यादीनां शुद्धिर्भावनाविशेषात् शोधनम्। तन्त्रादौ प्रसिद्धे देहारम्भकचतु-र्विंशतितत्त्वानां भावनाविशेषेण संस्कारेण देवरूपता-सम्पादने। भूतशुद्धिप्रकारस्तन्त्रसारे उक्तो यथागौतमीये
“सुषुम्णावर्त्मना सोऽहमिति मन्त्रेण यो-जयेत्। सहस्रारे शिवे स्थाने परमात्मनि देशिकः। धूम्रवर्णं ततो वायुवीजं(यं) षड्विन्दुलाञ्छितम्। पूरयेदिडया वायुं सुधीः षोडशमात्रया। मात्रया तु चतुः-षष्ट्या कुम्भयेच्च सुषुम्णया। द्वात्रिंशन्मात्रया मन्त्रीरेचयेत् पिङ्गलाख्यया। पूरये{??}नया चैव सञ्चिन्त्य नील-मारुतम्। रक्तवर्णं वह्निवीजं (रं) त्रिकोणं स्वस्तिका-न्वितम्। तेन पूरकयोगेन मात्रया षोडशाख्यया। चतुःषष्ट्या मात्रया च निर्दहेत् कुम्भकेन च। वाम-पार्श्वस्थितं पापपुरुषं कज्जलप्रभम्। ब्रह्महत्याशिर-स्कञ्च स्वर्णस्तेयभुजद्वयम्। सुरापानहृदायुक्तं गुरु-तल्पकटिद्वयम्। तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम्। उपपातकरोमाणं रक्तश्मश्रुविलोचनम्। खड्गचर्मधर” क्रुद्धमेवं कुक्षौ विचिन्तयेत्। मूलाधारोत्थितेनैववह्निना निर्दहेच्च तम्। एवं सन्दह्य परितो द्वात्रिंश-न्मात्रया ततः। भस्मना सहितं मन्त्री रेचयेदिडयापुनः। वामनाड्यां चन्द्रबीजं (ठं) कुन्देन्वयुतसन्निभम्। भालेन्दुवीजे संयोज्य ततः षोडशमात्रया। सुषुम्णयाचतुःषष्टिमात्रया तोयवीजकम् (वं)। ध्यात्वाऽमृतमयींवृष्टि पञ्चाशद्वर्णरूपिणीम्। तया देहं विचिन्त्यैवंमनसा पिङ्गकाध्वना। द्वात्रिंशन्मात्रया मन्त्री लं-वीजेन दृढं नयेत्। स्वस्थाने हंसमन्त्रेण पुनस्तेनैववर्त्मना। जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत्ततः। इति कृत्वा भूतशुद्धिं मातृकाम्यासमाचरेत्”। ततो हंस इति वीजं हृदयमानीय कुलकुण्डलिनींपृतिव्यादीनि च यथास्थाने स्थापयेत्। विशेषतस्तुशक्तिविषये। हंस इति जीवादिकं परमशिवे संयोज्यसोऽहमिति मन्त्रेण स्थाने नयेत्। तन्त्रान्तरे
“सोऽहमेदं[Page4687-a+ 38] समाभाष्य जीवं हृदि समानयेत्”। शूद्रे तु विशेषोवाराहीतन्त्रे
“हंसाख्यं न स्मरेत् शुद्रा भूतशुद्धौकदाचन। स्वरणान्नरकं याति दीक्षा च विफलाभवेत्”। शारदायाम्
“जीवं तेजोमयं ध्यात्वा नमोमन्त्रेण योजयेत्”। भूतशुद्धिपदव्युत्पत्तिमाह विशुद्धे-श्वरे
“शरीराकारभूतानां भूतानां यद्विशोधनम्। अव्ययब्रह्मसंयोगात् भूतशुद्धिरियं मता” वराहीये
“मूलाधारात्ततो वीजं ब्रह्ममार्गेण देशिकः। हंसेनपुष्करस्थाने परमात्मनि योजयेत्”। ब्रह्ममार्गः सुषुम्णा। त्रिपुरासारसमुच्चये
“संयोज्य वीजमथ दुर्गममध्यनाडी-मार्गेण पुष्करनिविष्टशिवे सुसूक्ष्मे”। ज्ञानार्णवे
“प्राणप्रतिष्ठया पश्चात् जीवं देहे निधापयेत्। मुखवृत्तंसमुच्चार्य्य हंसस्तु विपरीतकः। उद्धरेत् परमेशानि!विद्येयं त्र्यक्षरी मता। प्राणप्रतिष्ठामन्त्रोऽयं सर्व-कर्माणि साधयेत्। तेनैव विधिना देवि! स्थिरीकुर्य्या-न्निजां तनुम्”। तारादौ विशेषस्तत्रैव दृश्यः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतशुद्धि/ भूत--शुद्धि f. " removal of evil demons " , N. of a ceremony RTL. 197

भूतशुद्धि/ भूत--शुद्धि f. N. of a तन्त्र.

"https://sa.wiktionary.org/w/index.php?title=भूतशुद्धि&oldid=303263" इत्यस्माद् प्रतिप्राप्तम्