भूर्ज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूर्जः, पुं, (ऊर्ज + घञ् । भूः ऊर्जो बलं यस्य । भुवि ऊर्ज्जयते इति भू + ऊर्ज + अच् वा ।) स्वनामख्यातवृक्षविशेषः । भोजपत्र इति हिन्दी- भाषा । (यथा, रघौ । ४ । ७३ । “भूर्जेषु मर्म्मरीभूताः कीचकध्वनिहेतवः ।”) तत्प्रर्य्यायः । वल्कद्रुमः २ भुर्जः ३ सुचर्म्मा ४ भूर्जपत्रकः ५ चित्रत्वक् ६ बिन्दुपत्रः ७ रक्षा- पत्रः ८ विचित्रकः ९ भूतघ्नः १० मृदुमत्रः ११ शैलेन्द्रस्थः १२ । इति राजनिर्घण्टः ॥ भूर्ज- पत्रः १३ चर्म्मी १४ बहुलवल्कलः १५ । इति भावप्रकाशः ॥ छत्रपत्रः १६ शिवः १७ स्थिर- च्छदः १८ । इति रत्नमाला ॥ मृदुत्वक् १९ इत्यमरः । २ । ४ । ४६ । पत्रपुष्पकः २० । इति भरतधृतमधुः ॥ भुजः २१ बहुपटः २२ बहु- त्वक्कः २३ मृदुत्वचः २४ । इति भरतधृत- स्वामी ॥ अस्य गुणाः । बलकारित्वम् । कफ- रक्तनाशित्वञ्च । इति राजवल्लभः ॥ कटत्वम् । कषायत्वम् । उष्णत्वम् । भूतरक्षाकरत्वम् । त्रिदोषशमनत्वम् । पथ्यत्वम् । दुष्टकौटिल्य- नाशित्वञ्च । इति राजनिर्घण्टः ॥ कर्णरोग- पित्तराक्षसमेदविषहरत्वञ्च । इति भावप्रकाशः ॥ (यथा, वाभटे शरीरस्थाने प्रथमेऽध्याये ॥ “भूर्जलाङ्गलिकीतुम्बीसर्पत्वक्कुष्ठसर्षपैः । पृथक् द्वाभ्यां समस्तैर्वा योनिलेपनधूपनम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूर्ज पुं।

भूर्जवृक्षः

समानार्थक:भूर्ज,चर्मिन्,मृदुत्वच्

2।4।46।1।3

इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ। पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूर्ज¦ पु॰ ऊर्ज--अच्

७ त॰। स्वनामख्याते वल्कप्रधाने वृक्षे।
“भूर्जत्वचः स्पर्शवतीर्दधानाः” कुमा॰।
“भूर्जः कटुःकषायोष्णः भूतरक्षाकरः परः। त्रिदोषशमनः पथ्यःदुष्टकौटिल्यनाशनः” राजनि॰।
“कर्णरोगपित्तकफमेदोविषहरश्च सः” भावप्र॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूर्जः [bhūrjḥ], The birch-tree; भूर्जगतो$क्षरविन्यासः V.2; Ku.1.7; 'भूर्जः कटुः कषायोष्णो भूतरक्षाकरः परः' Rājanighaṇṭu.

र्जम् A leaf made of birch-bark for writing on.

A written deed, document. -Comp. -कण्टकः a man of one of the mixed tribes, the offspring of an outcast Brāhmaṇa by a woman of the same class; व्रात्यात्तु जायते विप्रात् पापात्मा भूर्जकण्टकः Ms.1.21. -पत्रः the birch-tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूर्ज m. a species of birch (the Bhoj tree , Betula Bhojpattra , the bark of which is used for writing on) Ka1t2h. Ka1v. Var. etc.

भूर्ज n. a leaf made of birch bark for writing on Ka1ran2d2. ; a written deed , document , Lokapr. [ cf. Slav. bre7za ; Lith. be4rzas ; Germ. bircha , Birke ; Eng. birch.]

"https://sa.wiktionary.org/w/index.php?title=भूर्ज&oldid=503269" इत्यस्माद् प्रतिप्राप्तम्