भृङ्गार
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृङ्गारम्, क्ली, (डुभृञ् धारणपोषणयोरिति । भृ + “शृङ्गारभृङ्गारौ ।” उणा० ३ । १३६ । इति आरन् निपातनात् नुम् गुक् च ।) लवङ्गम् । सुवर्णम् । इति राजनिर्घण्टः ॥
भृङ्गारः, पुं, (भृ + आरन् नुम् गुक् च । अथवा “भृङ्गं जलमियर्त्त्यनेनेति ।” भृङ्गं + ऋ + करणे घञ् । इत्यमरटीकायां रघुनाथः ॥ स्वर्णघटित- वारिपात्रम् । (यथा मार्कण्डेयपुराणे । ८ । २०३ । “नाद्य पश्यामि ते छत्रं भृङ्गारमथवा पुनः ॥”) तत्पर्य्यायः । कनकालुका २ इत्यमरः ॥ गुडुकः ३ गडुकः ४ । इति शब्दरत्नावली ॥ भृङ्ग- राजः । इति जटाधरः ॥ अथ भृङ्गारोद्देशः । “राज्ञोऽभिषेकपात्रं यद्भृङ्गार इति तन्मतम् । तदष्टधा तस्य मानमाकृतिश्चापि चाष्टधा ॥ सौवर्णं राजतं भौमं ताम्रं स्फाटिकमेव च । चान्दनं लौहजं शार्ङ्गमेतदष्टविधं मतम् ॥ भानुदिङ्नवसप्ताष्टरुद्रलोकसुरोन्मिताः । अष्टावष्टौ समाख्याता आयामपरिणाहयोः ॥ द्विचतुर्बाणवेदाब्धिबाणसप्तात्मवृत्तिता । यथाक्रमं समुद्दिष्टमादित्यादिदशा भुवाम् ॥ पद्मरागस्तथा वज्रं वैदूर्य्यमौक्तिकन्तथा । नीलं मारकतञ्चैव मुक्ता च सप्त कीर्त्तिताः ॥ भृङ्गारसप्तके न्यास्या न भौमो मणिमहति । कानकं मृण्मयं वापि सर्व्वेषामुपयुज्यते ॥ कानकन्तु क्षितीशानां मृण्मयं सार्व्वयोगिकम् । शङ्खपद्मेन्दुकह्लारं प्रत्यस्रं विन्यसेत् क्रमात् ॥ चतुर्व्विधानां भूपानां चान्द्रः सर्व्वत्र शस्यते । श्वेतं रक्तं तथा पीतं कृष्णं चन्दनमुच्यते । एतेषां सलिलैः सेकश्चतुर्णां स्यान्महीभुजाम् ॥ मल्ली पद्मञ्च नीलञ्च तथा कृष्णापराजिता । एषां पुष्पाणि केशेषु चतुर्जातिमहीभुजाम् ॥ हीरकं पद्मरागश्च वैदूर्य्यं नीलमेव च । चत्वारो मणयो धेयाश्चतुर्णां सेचनाम्भसि ॥ इत्थं निश्चित्य यः कुर्य्यान् नृपतिः सेकमात्मनः । स चिरायुर्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन् ॥” इति युक्तिकल्पतरौ भृङ्गारोद्देशः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृङ्गार पुं।
सुवर्णजलपात्रम्
समानार्थक:भृङ्गार,कनकालुका
2।8।32।2।3
हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत्. भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका॥
पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृङ्गार¦ पु॰ बभर्त्ति जलं भृ--आरक् नि॰।
१ स्वर्णमयजलपात्र-भेदे अमरः
२ जलपात्रभेदे च (झारी)। भृङ्ग इव ऋ-च्छति ऋ--अच्।
३ भृङ्गराजे जटा॰।
४ लवङ्गे
५ सुवर्णे चन॰ राजनि॰।
६ झिल्लीनामकीटे स्त्री अमरः गौरा॰ङीष्। स्वार्थे क। भृङ्गारिका तत्रैव। तत्र भृङ्गारपात्ररचनादिकं युक्तिकल्पतरावुक्तं यथा
“राज्ञोऽभिषेकपात्रं यद् भृङ्गार इति तन्मतम्। तदष्टधातस्य मानं प्रकृतिश्चापि चाष्टधा। सौवर्णं राजतं भौमंताम्रं स्फाटिक्रमेब च। चान्दनं लौहजं शार्ङ्गमेत-दष्टविधं मतम्। भानु
१२ दिङ्
१० नवसप्ताष्टरुद्र
११ लोक-
३ सुरोन्मिताः
३३ । अष्टावष्टौ समाख्याता आयामपरि-णाहयोः। द्विचतुर्वाण
५ वेदाब्धि
४ वाण
४ सप्ताष्टवृत्तिता। यथाक्रमं समुद्दिष्टमादित्यादिदशाभुवाम्। पद्मरागस्तथावज्रं बेदूर्य्यं मौक्तिकन्तथा। नीलं मारकतञ्चेव मुक्ता[Page4696-a+ 38] च सप्तकीर्त्तिताः। भृङ्गारसप्तके न्यास्या न भौमो मणि-मर्हति। कानकं मृण्मयं वापि सर्वेषामुपयुज्यते। ”
“कानकन्तु क्षितीशानां मृण्मयं सार्वभौतिकम्। शङ्ख-पद्मेन्दुकह्लारं प्रत्यस्रं विन्यसेत् क्रमात्। चतुर्विधानांभूपानां चान्द्रः (रौप्यः) सर्वत्र शस्यते। श्वेतं रक्तं तथापीतं कृष्णं चन्दनमुच्यते। एतेषां सलिलैः सेकश्चतुर्णांस्यान्मयीभुजाम्। मल्ली पद्मञ्च नीलञ्च तथा कृष्णाप-राजिता। एषां पुष्याणि केशेषु चतुर्जातिमहीभूजाम्। हीरकं पद्मरागश्च वैदूर्य्यं नीलमेव च। चत्वारो मणयो धेयाश्चतुर्णां सेचनाम्भसि। इत्थंनिश्चित्य यः कुर्य्यान्नृपतिः सेकमात्मनः। सं चिरायु-र्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन्”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृङ्गार¦ m. (-रः)
1. A golden vase, especially used at royal ceremonials.
2. A shrub, (Eclipta prostrata, &c.: see भृङ्गराज) n. (-रं)
1. Cloves.
2. Gold. f. (-री) A cricket. E. भृ to contain, (water, &c.) आरक् Una4di aff., and गुक् augment; or भृङ्ग a bee, and अरि an enemy, fem. form.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृङ्गारः [bhṛṅgārḥ] रम् [ram], रम् 1 A golden vase or pitcher; प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् Mb.13.52.14.
A pitcher of a particular shape (Mar. झारी); also भृङ्गारुः; काञ्चनैश्चैव भृङ्गारैर्जुह्रुः सलिलमग्रतः Rām.5.18.12; शिशिरसुरभिसलिलपूर्णो$यं भृङ्गारः Ve.6.
A vase used at the coronation of a king; गुणेषु न तु मे द्वेषो भृङ्गारः प्रतिगृह्यताम् Pratijñā Y.4.21; स्थालानां चषकाणां च भृङ्गाराणां च भूरिशः Śiva B.29.58; तेषां बाह्यं चारं छत्रभृङ्गारव्यजनपादुकोपग्राहिणस्तीक्ष्णा विद्यः Kau. A.1. 12.
रम् Gold.
Cloves.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भृङ्गार mn. (said to be fr. भृ)a golden pitcher or vase MBh. Hariv. Ka1m. etc.
भृङ्गार mn. a vase used at the inauguration of a king (of 8 different substances and 8 different forms) L.
भृङ्गार m. = भृङ्गराजL.
भृङ्गार n. cloves
भृङ्गार n. gold L.