भेदक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेदकः, त्रि, (भिद् + ण्वुल् ।) विदारकः । यथा, मनौ । ९ । २८५ ।) (“संक्रमध्वजयष्टीनां प्रतिमानाञ्च भेदकः । प्रतिकुर्य्याच्च तत् सर्व्वं पञ्च दद्याच्छतानि च ॥” विरेचकौषधादिः । (विरेचकौधार्थे विषयो यथा, “नवज्वरे च ये योगा भेदकाः परिकीर्त्तिताः । ते तथैव प्रयोक्तव्या वीक्ष्य देहमलादिकम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे विरेकाधिकारे ॥) पृथक्कारकः । यथा । “भेदयति अन्यपदार्थं पृथक् करोतीति भेदकं नाम्ना शिवः गोत्रेण गार्ग्यः ।” इति कारकटीकायां दुर्गादासः ॥ अपि च । “भेद्यभेदकयोः श्लिष्टं सम्बन्धोऽन्योन्यमिष्यते । द्बिष्ठो यद्यपि सम्बन्धः षष्ठ्यत्पत्तिस्तु भेदकात् ॥” इति कलापटीकाधृतभर्त्तृहरिकारिका ॥ (“सामान्यस्य भेदको विशेषः प्रकारः ।” इति च ५ । ३ । ६९ । इत्यस्य । काशिकावृत्तिः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेदक¦ त्रि॰ भिद--ण्वुल्।

१ रेचके

२ विदारके

३ भेदकारके

४ विशेषणे च।
“स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतंपदैः। गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः” अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेदक¦ mfn. (-कः-दिका-कं) A breaker, who or what breaks or divides. m. (-कः) A mischief-maker. m. (-कः-कं)
1. An adjective.
2. Purgative. E. भिद् to break ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेदक [bhēdaka], a. (-दिका f.) [भिद्-ण्वुल्]

Breaking, splitting, dividing, separating.

Breaking through, piercing.

Destroying, a destroyer; मर्यादाभेदकः Ms.9.291.

Distinguishing, discriminating.

Defining.

Evacuating the bowels, purgative.

Diverting (watercourses); स्त्रोतसां भेदको यश्च तेषां चावरणे रतः Ms.3.163.

Seducing (ministers); Ms.3.232 Kull. -कः An adjective or differentiating attribute.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेदक mfn. breaking into or through , piercing , perforating R.

भेदक mfn. diverting (water-courses) Mn. iii , 163

भेदक mfn. destroying (boundary-marks) ib. ix , 291

भेदक mfn. seducing (ministers) ib. ix , 232 Kull.

भेदक mfn. making a difference , distinguishing , determining , defining. Das3ar. Ka1vya7d. Pan5car.

भेदक n. a determinative i.e. an adjective Pa1n2. 2-1 , 57 Sch. (See. भेद्य).

"https://sa.wiktionary.org/w/index.php?title=भेदक&oldid=307510" इत्यस्माद् प्रतिप्राप्तम्