भेरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेरी, स्त्री, (बिभ्यति शत्रवोऽस्या इति । भी + क्रिन् । कृदिकारादिति पक्षे ङीप् ।) भेरी । इत्यमरटीकायां भरतः ॥ वराह उवाच । “भेरीशब्दमकृत्वा तु यस्तु मां प्रतिबोधयेत् । बधिरो जायते भूमे ! जन्मैकञ्च न संशयः ॥ तस्य वक्ष्यामि सुश्रोणि ! प्रायश्चित्तं मम प्रियम् । किल्विषाद् येन मुच्येत भेरीताडनमोहितः ॥ यस्य कस्यचिन्मासस्य शुक्लपक्षे तु द्वादशीम् । आकाशशयनं कृत्वा शीघ्रं मुच्येत किल्बिषात् ॥ य एतेन विधानेन वसुधे ! कर्म्म कारयेत् । अपराधं न गच्छेत मम लोकाय गच्छति ॥” इति वराहपुराणे भेरीताडनापराधप्राय- श्चित्तम् ॥ (यथा च, मुश्रुते । २ । २७६ । ९ । “एतेन भेर्य्यः पटहाश्च दिग्धा नानद्यमाना विषमाशु हन्युः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेरी स्त्री।

भेरी

समानार्थक:भेरी,दुन्दुभि,आनक

1।7।6।1।3

स्याद्यशः पटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्. आनकः पटहोऽस्त्री स्यात्कोणो वीणादि वादनम्.।

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेरी f. (rarely रि)a kettle-drum MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=भेरी&oldid=307792" इत्यस्माद् प्रतिप्राप्तम्