सामग्री पर जाएँ

भैरवी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैरवी, स्त्री, (भैरव + ङीप् ।) चामुण्डा । यथा, “चामुण्डा चर्चिका चर्म्ममुण्डा मार्जारकर्णिका । कर्णमोटी महागन्धा भैरवी च कपालिनी ॥” इति हेमचन्द्रः । २ । १२० ॥ भैरवीविशेषा यथा । त्रिपुरभैरवी १ सम्पत्- प्रदा भैरवी २ कौलेशभैरवी ३ सकलसिद्धिदा भैरवी ४ भयविध्वंसिनी भैरवी ५ चैतन्यभैरवी ६ कामेश्वरी भैरवी ७ षट्कूटा भैरवी ८ नित्या भैरवी ९ रुद्रभैरवी १० भुवेनेश्वरी भैरवी ११ त्रिपुरबाला भैरवी १२ नवकूटा भैरवी १३ अन्नपूर्णा भैरवी १४ । आसां मन्त्रा यथा, -- अथ त्रिपुरभैरवी । “वियद्भृगुहुताशस्थो भौतिको बिन्दुशेखरः । वियत्तदादिकेन्द्राग्निस्थितं वामाक्षिबिन्दुमत् ॥ आकाशभृगुवह्निस्थो मनुः सर्गेन्दुखण्डवान् । पञ्चकूटात्मिका विद्या वेद्या त्रिपुरभैरवी ॥” १ ॥ अथ सम्पत्प्रदा भैरवी । यथासौ त्रिपुरा बाला तथा त्रिपूरभैरवी । सम्पत्प्रदा नाम तस्याः शृणु निर्म्मलमानसे ॥ शिवचन्द्रौ वह्निसंस्थौ वाग्भवं तदनन्तरम् । कामराजं तथा देवि ! शिवचन्द्रान्वितं ततः ॥ पृथ्वीबीजान्तवह्न्याट्यं तार्त्तीयं शृणु वल्लभे ! । शक्तिबीजे महेशानि ! शिववह्नी नियोजयेत् ॥ कुमार्य्याः परमेशानि ! हित्वा सर्गन्तु बैन्दवम् । त्रिपुरा भैरवी देवी महासम्पत्प्रदा प्रिये ! ॥ २ ॥ अथ कौलेशभैरवी । सम्पत्प्रदाभैरवीवद्विद्धि कौलेशभैरवीम् । अयान्नपूर्णा भैरवी । प्रणवं भुवनेशानि ! श्रीबीजं कामबीजकम् । हृदन्ते भगवत्यन्ते माहेश्वरिपदं ततः । अन्नपूर्णे ठयुगलं विद्येयं विंशदक्षरी ॥ १४ ॥” इति तन्त्रसारे भैरवीमन्त्रपरिच्छेदः ॥ रागिणी- विशेषः । सा च भैरवरागस्य पत्नी । यथा, -- “भैरवी कौशिकी चैव भाषा वेलाबली तथा । वङ्गाली चेति रागिण्यो भैरवस्यैव वल्लभाः ॥” मतान्तरे मालवरागस्य पत्नी । यथा, -- धानसी मालसी चैव रामकीरी च सिन्धुडा । आशावरी भैरवी च मालवस्य प्रिया इमाः ॥” अस्या ध्यानं यथा, -- “सरोवरस्था स्फटिकस्य मन्दिरे सरोरुहैः शङ्करमर्च्चयन्ती । तालप्रयोगप्रतिबद्धगीति- र्गौरीतनूर्नारद भैरवीयम् ॥” अस्या गानसमयः पूर्ब्बाह्णकालः । यथा, -- “विभाषा ललिता चैव कामोदी पठमञ्जरी । रामकीरी रामकेली वेलोयारी च गुज्जरी ॥ देशकारी च शुभगा पञ्चमी च गडा तुडी । भैरवी चाथ कौमारी रागिण्यो दश पञ्च च । एताः पूर्ब्बाह्णकाले तु गीयन्ते गायनोत्तमैः ॥” इति सङ्गीतदामोदरः ॥ * ॥ हनूमन्मते एषा सम्पूर्णजातिः । अस्याः सप्त- स्वरविन्यासक्रमः मध्यमपञ्चमधैवतनिषादषड्- जर्षभगान्धारान्तः । अस्या गृहं मध्यमस्वरः । शरदृतौ प्रभाते अस्या गानसमयः । राग- मालायां अस्याः स्वरूपम् । अल्पवयस्का । सुरूपा । सुनेत्रा । विस्तारवदना । पिङ्गल- केशा । कोमलाङ्गी । रक्तवर्णा । श्वेतवसना । गलशोभितचम्पकमाला । प्रफुल्लपद्मयुक्तपर्व्वत- गुहायां शिवपूजापरायणा । तत्र मञ्जीर- वादका गायन्ति च ॥ * ॥ कल्लिनाथसोमे- श्वरभरतमतेष्वेवम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैरवी f. See. below

भैरवी f. of व

भैरवी f. N. of a partic. form of दुर्गाRTL. 188

भैरवी f. a girl of 12 years (representing दुर्गाat the -D दुर्गाfestival) L.

भैरवी f. (in music) N. of a रागिणी.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an epithet of उमा; when शिव is Bhairava, उमा is भैरवी; फलकम्:F1: M. १५८. २५.फलकम्:/F a mother-goddess. फलकम्:F2: Br. IV. 7. ७२; ४४. २२.फलकम्:/F

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAIRAVĪ : One of the eight Ambas. They are: Rudrārcikā, Rudracaṇḍī, Naṭeśvarī, Mahālakṣmī, Siddhacāmuṇḍikā, Siddhayogeśvarī, Bhairavī and Rūpavidyā. All these are the eight different forms of Devī. (See the word DEVĪ).


_______________________________
*1st word in right half of page 115 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भैरवी&oldid=503285" इत्यस्माद् प्रतिप्राप्तम्