भोक्तृ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भोक्ता [ऋ] त्रि, (भुज् + कर्त्तरि तृच् ।) भोजनकर्त्ता । यथा, -- “यज्ञेश्वरो हव्यसमस्तकव्य- भोक्ताव्ययात्मा हरिरीश्वरोऽत्र ।” इति श्राद्धप्रयोगतत्त्वम् ॥ सुखादिभोगकर्त्ता यथा, -- “कर्त्ता च देही भोक्ता च आत्मा भोजयिता सदा । भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च ॥” इति ब्रह्मवेवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥ अथ भोक्तुर्लक्षणं यथा, पाकराजेश्वरे । “स्नातः सुधौतमृदुसुन्दरशुक्तवासा- स्तत्कालधौतचरणः सह पुत्त्रमित्रैः । स्रग्वी प्रसन्नहृदयो रसपाकवेद्यां भोक्ता विशेच्च सततं हि सहात्मवैद्यैः ॥ मृदुतूलमये स्थूले चारुवस्त्रावगुण्ठिते । आसने प्राङ्मुखो भोक्तोपविशेद्बाप्युदङ्मुखः ॥” (भोजनकर्त्रर्थे यथा, -- “यदा कारणमासाद्य भोक्तृणां छन्दतोऽपि वा । अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान् विनिर्द्दिशेत् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥ “भोक्तारं विजने रम्ये निःसम्बाधे शुभे शुचौ । सुगन्धिपुष्परचिते रम्ये देशेऽथ भोजयेत् ॥” इति च तत्रैव तदध्याये ॥ यथा च सांख्यशास्त्रे भोक्ता भोगकर्त्ता पुरुषः । सति भोगज्ञाने भोक्तृज्ञानं भवतीति तल्लक्षण- माह । “चिदवसानो भोगः ।” इति सांख्यसूत्रम् । १ । १०४ ॥ पुरुषस्वरूपे चैतन्ये पर्य्यवसानं यस्यैतादृशो भोगः सिद्धिरित्यर्थः । राज्ञो भृत्यवर्गः यथा, स्वामिने भोग्यजातमर्पयति, तथा, इन्द्रियाणि विषयजातं स्वस्वशक्त्या गृहीत्वा अन्तःकरण- प्रतिविम्बिताय पुरुषाय अर्पयति, स च पुरुषः प्रतिविम्बग्रहणमात्रेण विषयजातं भुङ्क्ते प्रकाशयतीत्यर्थः । पुरुषस्य भोगः प्रतिविम्बा- दानमात्रं अन्येषान्तु पुष्ट्यादिः । ईदृशः परि- णामरूपो भोगः पुरुषे निषिध्यते । “बुद्धे र्भाग इवात्मनि ।” इत्यादिभिरिति । एतादृक् तया पुरुषः भोगकर्त्ता वा भोक्ता ॥” इति तद्भाष्ये विज्ञानभिक्षुः ॥
भोक्ता [ऋ] पुं, (भुङ्क्ते जीवरूपेणेति, भुनक्ति पालयतीति वा भुज + तृच् ।) विष्णुः । यथा, -- “भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।” इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥ भर्त्ता । इति हेमचन्द्रः । ३ । ९१ ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भोक्तृ¦ त्रि॰ भुज--भोजने अवने च तृच्।
१ भोजनकर्त्तरि
२ भोगकर्त्तरि च
३ त्राणकर्त्तरि हेमच॰। स्त्रियां ङीप्।
४ विष्णौ पु॰
“भ्राजिष्णुर्भोजनं भोक्ता” विष्णुस॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भोक्तृ¦ mfn. (-क्ता-क्ती-क्तृ)
1. Enjoying, an enjoyer.
2. An eater. m. (-क्ता)
1. A husband.
2. A lover.
3. A possessor.
4. A king. E. भुज् to enjoy, &c., aff. तृच् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भोक्तृ [bhōktṛ], a. [भुज् तृच्]
One who enjoys or eats.
Possessing.
Enjoying or making use of.
Feeling, enduring, experiencing.
Protecting, ruling, governing. -m.
A possessor, enjoyer, user; पुरुषो$स्ति भोक्तृ- भावात् कैवल्यार्थप्रवृत्तेश्च Sāṅ. K.17.
A husband.
A king, ruler.
A lover.
An epithet of Viṣṇu.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भोक्तृ m. ( f( त्री) )one who enjoys or eats , enjoyer , eater , experiencer , feeler , sufferer MaitrUp. MBh. etc. (also as fut. of 3. भुज्R. )
भोक्तृ m. a possessor , ruler of a land , king , prince Inscr.
भोक्तृ m. a husband , lover L.