भोगी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगी, [न्] पुं, (भोगोऽस्यास्तीति । भोग + इनिः ।) सर्पः । इत्यमरः । १ । ७ । ८ । (यथा, विष्णुपुराणे । १ । ३ । २३ । “एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः । भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः ॥” भोगयुक्तः । यथा, आर्य्यासप्तशत्याम् । ४१४ । “भवतालिङ्गि भुजङ्गी जातः किल भोगिचक्र- वर्त्ती त्वम् ॥”) ग्रामपात्रः । नृपः । इति मेदिनी । ने । १०२ । नापितः । इति विश्वः ॥ वैयावृत्तिकरः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगी पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।8।2।3

दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः। उरगः पन्नगो भोगी जिह्मगः पवनाशनः॥ लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा। कुम्भीनसः फणधरो हरिर्भोगधरस्तथा। अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका।

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

"https://sa.wiktionary.org/w/index.php?title=भोगी&oldid=184088" इत्यस्माद् प्रतिप्राप्तम्