सामग्री पर जाएँ

भोग्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोग्यम्, क्ली, (भुज + ण्यत् ।) धनम् । धान्यम् । इति राजनिर्घण्टः ॥ भोगमर्हतीति । भोग + यत् । भोगार्हेत्रि ॥ (यथा, कामन्दकीये । ५ । ८१ । “यथा रक्षेच्च निपुणं शस्यं कण्टकिशाखया । फलाय लगुडः कार्य्यस्तद्बद्भोग्यमिदं जगत् ।”) आधिभेदः । यथाह नारदः । “विश्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च । अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः ॥ कृतकालोपनेयश्च यावद्देयोद्यतस्तथा । स पुनर्द्विविधः प्रोप्यो गोप्यो भोग्यस्तथैव च ॥” गोप्यो रक्षणीयः । भोग्यस्यार्थः फलभोग्यपदे द्रष्टव्यः । तद्यथा, -- “काले कालकृतो नश्येत् फलभोग्यो न नश्यति ।” फलं भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिः स न कदाचिदपि नश्यति । इति मिताक्षरायां व्यवहाराध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोग्य¦ न॰ भुज--ण्यत् कुत्वम्।

१ धने

२ धान्ये च। भोगमर्हतियत्।

३ भोगार्हे त्रि॰। भोगार्हस्त्रियां

४ वेश्यायाञ्च स्त्रीराजनि॰।

५ आधिभेदे पु॰ यथाह नारदः
“विश्रम्भहेतू द्वा-वत्र प्रतिभूराधिरेव च। अधिक्रियत इत्याधिः स विज्ञेयोद्विलक्षणः। कृतकालोपनेयश्च यावद्देयोद्यतस्तथा। सपुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोग्य¦ mfn. (-ग्यः-ग्या-ग्यं) To be enjoyed. n. (-ग्यं)
1. Wealth.
2. Grain. f. (-ग्या) A whore. m. (-ग्यः) A pledge that can be used until re- deemed. E. भुज् to enjoy, aff. ण्यत् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोग्य [bhōgya], a. [भुज् ण्यत् कुत्वम्]

To be enjoyed or turned to one's account; समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया R.8.14; Pt.1.117.

To be suffered or endured; Me.1; स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च Nārada.

Profitable.

ग्यम् Any object of enjoyment.

Wealth, property, possessions.

Corn, grain. -ग्या A harlot, courtezan. -Comp. -वस्तु articles of luxury; अस्त्यत्र भोग्यवस्तु वर्षशतोपभोगेनाप्यक्षय्यम् Dk.2.4.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोग्य See. p.767.

भोग्य mfn. to be enjoyed , to be used (in the sense " to be eaten " भोज्यis more common) , what may be enjoyed or used , useful , profitable AV. etc.

भोग्य mfn. to be endured or suffered Megh. Ra1jat.

भोग्य mfn. (in astron. ) to be passed Su1ryas.

भोग्य n. an object of enjoyment , possession , money L.

भोग्य n. corn , grain L.

भोग्य n. a precious stone L.

"https://sa.wiktionary.org/w/index.php?title=भोग्य&oldid=308905" इत्यस्माद् प्रतिप्राप्तम्