भोजन

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोजनम्, क्ली, (भुज् + “ल्युट् च ।” ३ । ३ । ११५ । इति भावे ल्युट् ।) भक्षणम् । कठिनद्रव्यस्य गलाधःकरणम् । तत्पर्य्यायः । जग्धः २ जेमनम् ३ लेपः ४ आहारः ५ निघसः ६ न्यादः ७ । इत्यमरः । २ । ९ । ५५ ॥ जमनम् ८ विघसः ९ । इति तट्टीका ॥ अभ्यवहारः १० प्रत्यवसानम् ११ अशनम् १२ स्वदनम् १३ निगरः १४ । इति राजनिर्घण्टः ॥ * ॥ अथ भोजनगुणविधानादि । “भोजनाग्रे सदा पथ्यं जिह्वाकण्ठविशोधनम् । अग्निसन्दीपनं हृद्यं लवणार्द्रकभक्षणम् ॥ आयुर्घृते गुडे रोगा मृत्युर्लीनो विदाहिषु । आरोग्यं कटुतिक्तेषु बलं मांसे पयःसु च ॥ अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः । पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् ॥ घृतादष्टगुणं तैलं मर्द्दनान्न च भक्षणात् । आहारः प्रीणनः सद्यो बलकृद्देहधारणः ॥ * ॥ आयुष्यं प्राङ्मखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥ कुक्षेरन्नेन भागौ द्वावेकं पानेन पूरयेत् । वायोः सञ्चारणार्थञ्च चतुर्थमवशेषयेत् ॥ दन्ते चावगतं चान्नं सौचेनैवाहरेज्जलैः । कुर्य्यादनिर्गतं तद्धि सुखस्यानिष्टगन्धताम् ॥ भुक्त्रा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते । अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥ भुक्त्वाचम्य करं वामं दत्त्वा कुक्षौ ततः पठेत् । भुक्तं महेन्द्रहस्तेन वैश्वानरसुखेन च ॥ गरुडस्य च कण्ठेन समुद्रस्य च वह्निना । वातापिर्भक्षितो येन पीतो येन महोदधिः ॥ यन्मया खादितं पीतं तदगस्त्यो जरिष्यति । पठित्वैतत् सुखासीनः क्षणं तिष्ठेदनाकुलः ॥ भुक्त्रा पादशतं गत्वा वामपार्श्वेन संविशेत् । एवं ह्यधोगतं चान्नं सुखं तिष्ठति जीर्य्यति ॥ भुक्त्वोपविशतस्तुन्दं शयानस्य वपुर्भवेत् । आयुश्चंक्रममाणस्य मृत्युर्धावति धावतः ॥” इति राजवल्लभः ॥ * ॥ अपि च । “ततो भोजनवेलायां कुर्य्यान्मङ्गलदर्शनम् । तस्य प्रदक्षिणं नित्यमायुर्धर्म्मविवर्द्धनम् ॥ लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः ॥ पादुकारोहणं कुर्य्यात् पूर्ब्बं भोजनतः परम् । पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे । सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ॥ फलानि सर्व्वभक्ष्यांश्च परिशुष्काणि यानि च । तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ॥ प्रद्रवाणि रसांश्चैव पाणीयं पानकं पयः । खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ॥ सर्व्वान् गुडविकारांश्च रागषाडवसट्टकान् । पुरस्तात् स्थापयेत्प्राज्ञो द्वयोरपि च मध्यतः ॥ एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् । भोक्तारं विजने रम्ये निःसम्बाधे शुभे शुचौ ॥ सुगन्धिपुष्परचिते समे देशेऽथ भोजयेत् । पूर्ब्बं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ ॥ पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत् । आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् ॥ ततः पेयांस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततःपरम् । घनपूर्ब्बं समश्नीयात् केचिदाहुर्विपर्य्ययम् ॥ आदावन्ते च मध्ये च भोजनस्य तु शस्यते । अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः ॥ तेषु तत्प्रत्यनीकाढ्यं भुञ्जीत प्रातरेव तु । येषु चापि भवेयुश्च दिवसा भृशमायताः ॥ तेषु तत्कालविहितमपराह्णे प्रशस्यते । रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः ॥ कृत्वासममहोरात्रं तेषु भुञ्जीत भोजनम् । तस्मात् सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्ज्जितम् । यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् ॥”

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोजन नपुं।

भोजनम्

समानार्थक:जग्धि,भोजन,जेमन,लेह,आहार,निघस,न्याद

2।9।55।2।6

सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम्. उदन्या तु पिपासा तृट्तर्षो जग्धिस्तु भोजनम्.।

अवयव : तैलम्,भुक्तोच्चिष्टम्

 : पौलिः, भृष्टव्रीह्यादिः, अपूपः, दधिमिश्रसक्तुः, सिद्धान्नम्, भक्तोद्भवमण्डः, यवागू, तिलौदनः, गोरसम्, दुग्धम्, सहभोजनम्, पानरुचिजनकभक्षणम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोजन¦ न॰ भुज--ल्युट्।

१ कठिनद्रव्यस्य गलबिलाधःसंयोजने। करणे ल्युट्।

२ धने निघण्दुः

३ विष्णौ पु॰।
“भ्राजिष्णु-[Page4706-b+ 38] भोजनं भोक्ता” विष्णुस॰।
“भोज्यरूपा च प्रकृतिर्ययाभोजनमुच्यते” मायाया भोज्यरूपेण परिणामात् विष्णो-स्तदधिष्ठानत्वात् तथात्वमिति भाष्यादौ दृश्यम्। भोजन-गुणादि भावप्र॰ उक्तम् आहारशब्दे

८९

७ पृ॰ दृश्यम्। तत्र विशेष आह्निकतत्त्वोक्तोत्राभिधीयते
“विष्णुपु॰
“मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप!। अन्यत्रफलमांसेभ्यः शुष्कशाकादिकात् तथा। तद्वदौदरिके-भ्यञ्च गुरुपक्वेभ्य एव च। भुञ्जीतोद्धृतसाराणि नकदाचिन्नरेश्वर!। नाशेषं पुरुषोऽश्नीयादन्यत्र जगतो-पते!। मध्वन्नदधिसर्पिर्भ्यः सक्तुभ्यश्च विवेकवान्। अश्नीयात्तन्मना भूत्वा पूर्वन्तु मधुरं रसम्। लवणाम्नौतथा मध्ये कटुतिक्तादिकांस्तथा। प्राग्द्रवं पुरुषोऽश्रन्वै मध्ये च कठिनाशनः। पुनरन्ते द्रवाशी तु बला-रोग्ये न मुञ्चति। अनिन्द्यं भक्षयेदित्थं वाग्यतोऽन्न-मकुत्सयन्। पञ्च ग्रासान् सहामौनं प्राणाद्य प्ययनायतत्”। मन्त्राभिमन्त्रितमिति मन्त्रानादेशे गायत्रीति वच-नात् गायत्राभिमन्त्रितम्। गारुडे
“शाकं सूपञ्चभूयिष्ठम् अत्यम्लञ्च निवर्जयेत्। न चैकरससेवायांप्रसज्येत कदाचन। ”
“मुनिभिर्द्विरशनं प्रोक्तं विप्राणांमर्त्यवासिनां नित्यम्। अहनि च तथा तमस्विन्यांसार्द्धप्रहरयामान्तः” छन्दोगप॰। विष्णुः
“न तृतीयमथा-श्रीयादापद्यपि कदाचन”। भगवत्गीतासु
“आयुःसत्त्व-बलरोग्यसुखप्रीतिविवर्सनाः। रखाः स्निग्धाः स्थिराहृद्या आहाराः सात्त्विकप्रियाः। कड्ववणात्युष्ण-तीक्ष्णरूक्षविदाहिनः। आहाराराजसस्येष्टा दुःख-शोकामयप्रदाः। यातयामं गतरसं पूति पर्य्युषित{??}यत्। उच्छिष्टमपि चामेध्यं भोजनं ताममप्रियम्”। महाभारते
“इन्दुव्रतसहसृस्तु यश्चरेत् कायशोधनम्। पिवेद् यश्चापि गङ्गाम्भस्त{??} साम्यं न यात्यसौ”। गङ्गामधिकृत्य मत्स्यपुराणम्
“अवगाह्म च पीत्वा चपुनात्यासप्तमं कुलम्”। देवीपुराणम्
“ये चैव नृत्तिकास्तस्मात्तीर्थादाहृत्य भुञ्जते। ते सर्वपापनिर्मुक्ताःप्रभवन्ति गतामयाः”। मनुः
“आयुष्यं प्राङ्मुखोभुङ्क्ते यशस्यं दक्षिणामुखः। श्रियः प्रत्यङ्मुणोभुङ्क्त ऋतं भुङ्क्ते ह्युदङ्मुखः”। नियमे त्वेवम्। अनियमे तु नोदङ्मुखः। हारीतः
“नोदङ्मुखो-ऽश्नीयात्” इति
“निष्कानस्य तु प्राङ्मुखेनैव भीजनम्। यथाह देवलः
“प्राङ्मुखोऽन्नानि भुञ्जीत शुचिः पीठमधि-[Page4707-a+ 38] ष्ठितः। विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः” जीवन्मातृकस्य दक्षिणामुखत्वनिषेधमाह आपस्तम्बः
“दक्षिणामुखो न भुञ्जीत एवंविधभोजनमनायुष्यंगातुरुपदिशति” केचित्तु
“कुहूस्नानं गयाश्राद्धंतिलैस्तर्पणमेव{??}। न जीवत्पितृकः कुर्य्यादृक्षिणा-मुखभोजनम्” इत्याचारत्न करवृताज्जीवत्पितृकस्यापिनिषेध इत्याहुः। व्यासः
“पञ्चार्द्रो भोजनं कुर्य्यात्प्राङ्मुखो मौनमास्थितः। हस्तौ पादौ तथैवास्यमेषुपञ्चार्द्रता मता। ” गोभिलः
“भुञ्जानेषु तु विप्रेषुयस्तु पात्रं परित्यजेत्। भोजने विघ्नकर्त्तासौ ब्रह्महा-पि तथोच्यते”। आपस्तम्बः
“दिवा पुनर्न भुञ्जीतान्यत्रफलमूलेभ्यः”। मनुः
“नातिप्रगे नातिमायं न सायंप्रातराशितः”। अतिप्रगेऽचिरोदितसूर्य्ये अतिसायंसूर्य्यास्तमितिसमय एवं प्रातराशितः दिनभीजनेनाति-तृप्तः न सायं न रात्रौ भुञ्जीतेत्यर्थः। आपस्तम्बः
“यस्तु भोजनशालायां भोक्तुकाम उपस्पृशेत्। आस-नस्थो न चान्यत्र स विप्र पङ्क्तिदूषकः” भोजनशालायांभोक्तुकामः सन् आसनस्थो वान्यत्र स्थितो वा नचोपस्पृशेत्। बौधायनः
“उपलिप्ते समे स्थाने शुचौसध्यासनान्विते। चतुरस्रं त्रिकोणञ्च वर्त्तुलञ्चार्द्धचन्द्रकम्। कर्त्तव्यमानुपूर्वेण ब्राह्मणादिषु मण्डलम्। अकृत्वा मण्डलं ये तु भुञ्जतेऽधमयोनयः। तेषान्तु यक्षरक्षांसि हरन्त्यन्नानि तद्बलात्”। आप-स्तम्बः
“भिन्नकांस्ये तु यो विप्रो यदि भुङ्क्ते तुकामतः। उपवासेन चैकेन पञ्चगव्येन शुद्ध्यति”। तथा शूद्रादिभोजनेनापरिष्कृतपात्रेऽपि। वृद्धमनुः
“ताम्मपात्रे न भुञ्जीत भिन्नकांस्ये मलाविले। पलाश-पद्मपत्रे वा गृही भुक्तैन्दवं चरेत्”। गव्यवर्द्धमान-धृताग्निपुराणम्
“अर्कपत्रे तथा पृष्ठे आयसे ताम्र-भाजने। करे कर्पटके चैव भुक्त्वा चीन्द्रायणं चरेत्” पृष्ठे कदलीपत्रादिपृष्ठे। पैठीनसिः
“ताम्ररजतसुवर्णाश्म-शङ्खशुक्तिस्फटिकानां भिन्नमभिन्नम् इति न दोषः”। अत्रपाषाणपातं भाजने विहितम्
“तैजसानां मणीनाच्चसर्वस्याश्ममयस्य च। भस्मनाद्भिर्मृदा चैव शुद्धिरुक्तामनीषिभिः” इति मनुना पाषाणपात्रस्य शुद्धिविधानाच्च। प्रचेताः
“तान्घूलाभ्यञ्जने चैव कांस्यपात्रे च भोजनम्। यंतश्च ब्रह्मचारी च विधवा च विवर्जयेत्”। अत्रिः
“आसने पादमारीप्य बो भुङ्क्ते ब्राह्मणः क्वचित्। [Page4707-b+ 38] मुखेन चान्नमश्नाति तुल्यं गोमांसभक्षणैः”। मुखेनहस्तोत्तोलनं विना गवादिवदित्यर्थः। आश्वमेधिके
“आर्द्रपादस्तु भुञ्जीत प्राङ्मुखश्चासने शुचौ। पादाभ्यांधरणीं स्पृष्ट्वा पादेनैकेन वा पुनः”। बौधायनः
“भो-जनं हवनं दानमुपहारः परिग्रहः। बहिर्जानु नकार्य्याणि तद्वदाचमनं स्मृतम्”। हारीवः
“मार्ज-नाच्च वलिकर्म भोजनानि दैवतीर्थेन कुर्य्यात्”। परा-शरभाष्ये वृद्धमनुः
“न पिबेन्न च भुञ्जीत द्विजः स-ष्येन पाणिना। नैकहस्तेन च जलं शूद्रेणावर्जितंपिबेत्”। मार्कण्डेयपुराणम्
“पादप्रसारणं कृत्वा न चवेष्टितमस्तकः”। मनुः
“पूजयेदशनं नित्यं चाद्याच्चैवमकुत्सयन्। दृष्ट्वा हृष्येत् प्रसीदेच्च प्रणमेच्चैव सर्वदा। अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः प्रार्थयेत्ततः। अस्माकंनित्यमस्त्वेतदिति भक्त्याथ वन्दयेत्”। विष्णुपु॰
“नागःकूर्मश्च क्रकरो देवदत्तो धनञ्जयः। वहिस्था वायवःपञ्च तेषां भूमौ प्रदीयते। अदत्त्वा बाह्यवायुभ्यः प्राणा-दिभ्यो न होमयेत्”। इति शिष्टपठितवचनान्नागादिभ्योबलिदानमिति प्राचीनाचारः। तत्रान्नं देवेभ्योदत्त्वा भो-क्तव्यं तथा च भगवद्गीतायाम्
“इष्टान् भोगान् हि वोदेवादास्यन्ति यज्ञभाविताः। तैर्दत्तानप्रदायैभ्यो यो भुङ्-
“क्ते स्तेन एव सः”। यज्ञैः संवर्द्धिता देवा वो युष्मभ्यंभोगानन्नादीनि वृष्ट्यादिद्वारा दास्यन्ति। अतो देवैर्दत्तान्अन्नादीन् तेभ्योऽदत्त्वा यो भुङ्क्ते स चौर एव। स्मृतिः
“निवेद्य प्राशनात् पूर्वं देवपादोदकाहुतिः। हो-तव्या जठरे वह्नौ स्वेन पाणितलेन तु”। तेन पादोदकेना-पोशानं कृत्वा प्राणाहुतिर्नैवेद्येन कार्य्या” आ॰ त॰ रघु॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोजन¦ n. (-नं)
1. Food.
2. Eating.
3. Any object of enjoyment.
4. Wealth. E. भुज् to eat, aff. ल्युट् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोजन [bhōjana], a. भुज्-ल्यु ल्युट् वा]

Feeding, nourishing, giving to eat.

Voracious; (राक्षसी) अङ्गारकेति विख्याता छायामाक्षिप्य भोजनी Rām.4.41.26.

नः N. of Viṣṇu.

Of Śiva.

नम् Eating, eating food; taking one's meals; अजीर्णे भोजनं विषम्.

Food.

Giving (food) to eat, feeding.

Using, enjoying.

Any object of enjoyment.

That which is enjoyed; सहानुजैः प्रत्यवरुद्ध- भोजनः Bhāg.1.1.1.

Property, wealth, possessions.-Comp. -अधिकारः charge of provender, superintendence over food or provisions, stewardship. -आच्छादनम् food and raiment; भोजनाच्छादने दद्यादृतुकाले च संगमम् Pt.5.62.-कालः, -वेला, -समयः meal-time, dinner or supper time. -त्यागः abstaining from food, fasting. -माण्डम् a dish of meat. -भूमिः f. a dining-hall. -विशेषः a dainty, delicacy. -वृत्तिः f. a meal, food. -व्यग्र a.

engaged in eating.

straitened for want of food.-व्ययः expense for food.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोजन mf( ई)n. feeding , giving to eat (said of शिव) MBh.

भोजन mf( ई)n. voracious R.

भोजन m. N. of a mountain BhP.

भोजन n. the act of enjoying , using RV.

भोजन n. the act of eating (exceptionally with acc. of object) RV. etc.

भोजन n. a meal , food ib. ( ifc. f( आ). , " feeding on " , " affording anything as food " , " serving as food for " ; 653272 त्रिद्व्य्-एक-भोजनmfn. " taking food every 3rd day , every 2nd day and every day ")

भोजन n. anything enjoyed or used , property , possession RV. AV. Naigh.

भोजन n. enjoyment , any object of -enjenjoyment or the pleasure caused by it RV.

भोजन n. (fr. Caus. ) the act of giving to eat , feeding Gr2S3rS. R. Mn. ( v.l. )

भोजन n. dressing food , cooking Nal.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Mt. of क्रौञ्चद्वीप. भा. V. २०. २१.

"https://sa.wiktionary.org/w/index.php?title=भोजन&oldid=503290" इत्यस्माद् प्रतिप्राप्तम्