भोजनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भोजनम्, क्ली, (भुज् + “ल्युट् च ।” ३ । ३ । ११५ । इति भावे ल्युट् ।) भक्षणम् । कठिनद्रव्यस्य गलाधःकरणम् । तत्पर्य्यायः । जग्धः २ जेमनम् ३ लेपः ४ आहारः ५ निघसः ६ न्यादः ७ । इत्यमरः । २ । ९ । ५५ ॥ जमनम् ८ विघसः ९ । इति तट्टीका ॥ अभ्यवहारः १० प्रत्यवसानम् ११ अशनम् १२ स्वदनम् १३ निगरः १४ । इति राजनिर्घण्टः ॥ * ॥ अथ भोजनगुणविधानादि । “भोजनाग्रे सदा पथ्यं जिह्वाकण्ठविशोधनम् । अग्निसन्दीपनं हृद्यं लवणार्द्रकभक्षणम् ॥ आयुर्घृते गुडे रोगा मृत्युर्लीनो विदाहिषु । आरोग्यं कटुतिक्तेषु बलं मांसे पयःसु च ॥ अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः । पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् ॥ घृतादष्टगुणं तैलं मर्द्दनान्न च भक्षणात् । आहारः प्रीणनः सद्यो बलकृद्देहधारणः ॥ * ॥ आयुष्यं प्राङ्मखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥ कुक्षेरन्नेन भागौ द्वावेकं पानेन पूरयेत् । वायोः सञ्चारणार्थञ्च चतुर्थमवशेषयेत् ॥ दन्ते चावगतं चान्नं सौचेनैवाहरेज्जलैः । कुर्य्यादनिर्गतं तद्धि सुखस्यानिष्टगन्धताम् ॥ भुक्त्रा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते । अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥ भुक्त्वाचम्य करं वामं दत्त्वा कुक्षौ ततः पठेत् । भुक्तं महेन्द्रहस्तेन वैश्वानरसुखेन च ॥ गरुडस्य च कण्ठेन समुद्रस्य च वह्निना । वातापिर्भक्षितो येन पीतो येन महोदधिः ॥ यन्मया खादितं पीतं तदगस्त्यो जरिष्यति । पठित्वैतत् सुखासीनः क्षणं तिष्ठेदनाकुलः ॥ भुक्त्रा पादशतं गत्वा वामपार्श्वेन संविशेत् । एवं ह्यधोगतं चान्नं सुखं तिष्ठति जीर्य्यति ॥ भुक्त्वोपविशतस्तुन्दं शयानस्य वपुर्भवेत् । आयुश्चंक्रममाणस्य मृत्युर्धावति धावतः ॥” इति राजवल्लभः ॥ * ॥ अपि च । “ततो भोजनवेलायां कुर्य्यान्मङ्गलदर्शनम् । तस्य प्रदक्षिणं नित्यमायुर्धर्म्मविवर्द्धनम् ॥ लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः ॥ पादुकारोहणं कुर्य्यात् पूर्ब्बं भोजनतः परम् । पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे । सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ॥ फलानि सर्व्वभक्ष्यांश्च परिशुष्काणि यानि च । तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ॥ प्रद्रवाणि रसांश्चैव पाणीयं पानकं पयः । खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ॥ सर्व्वान् गुडविकारांश्च रागषाडवसट्टकान् । पुरस्तात् स्थापयेत्प्राज्ञो द्वयोरपि च मध्यतः ॥ एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् । भोक्तारं विजने रम्ये निःसम्बाधे शुभे शुचौ ॥ सुगन्धिपुष्परचिते समे देशेऽथ भोजयेत् । पूर्ब्बं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ ॥ पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत् । आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् ॥ ततः पेयांस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततःपरम् । घनपूर्ब्बं समश्नीयात् केचिदाहुर्विपर्य्ययम् ॥ आदावन्ते च मध्ये च भोजनस्य तु शस्यते । अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः ॥ तेषु तत्प्रत्यनीकाढ्यं भुञ्जीत प्रातरेव तु । येषु चापि भवेयुश्च दिवसा भृशमायताः ॥ तेषु तत्कालविहितमपराह्णे प्रशस्यते । रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः ॥ कृत्वासममहोरात्रं तेषु भुञ्जीत भोजनम् । तस्मात् सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्ज्जितम् । यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् ॥”