सामग्री पर जाएँ

भ्राता

विकिशब्दकोशः तः

संस्कृतम्

[सम्पाद्यताम्]
  • भ्राता
  • भ्राता नाम सोदरः।

अनुवादाः

[सम्पाद्यताम्]

उदाहरणानि

[सम्पाद्यताम्]
  • श्रीकान्तः मम भ्राता।

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्राता, [ऋ] पुं, (भ्राजते इति । भ्राज + “नप्तृ- नेष्टृत्वष्टृहोत्रिति । उणा० । २ । ९६ । इति तृन् । निपात्यते च ।) एकगर्भजातः । “भाइ” इति भाषा । तत्पर्य्यायः । सहोदरः २ समानोदर्य्यः ३ सोदर्य्यः ४ सगर्भः ५ सहजः ६ सोदरः ७ । इति हेमचन्द्रः ॥ पितरि मृते ज्येष्ठभ्रातुः पितृतुल्यत्वम् । यथा, -- “ज्येष्ठो भ्राता पितृतुल्यो मृते पितरि शौनक ! । सर्व्वेषां स पिता हि स्यात् सर्व्वेषामनुपालकः ॥ कनिष्ठस्तेषु सर्व्वेषु समत्वेनानुवर्त्तते । समोपभोगजीवेषु यथैव तनयस्तथा ॥” इति गारुडे ११४ अध्यायः ॥ तस्य भार्य्याहरणे तस्मै दायादाने च दोषो यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५६ अध्याये । “भ्रातृजायापहारी च मातृगामी भवेन्नरः । ब्रह्महत्यासहस्रञ्च लभते नात्रसंशयः ॥ स याति कुम्भीपाकञ्च यावच्चन्द्रदिवाकरौ । तस्मादुर्त्तीर्य्य पापी च विष्ठायां जायते कृमिः ॥ वर्षकोटिसहस्राणि तत्र स्थित्वा च पातकी । ततो भवेन्महापापी वर्षकोटिसहस्रकम् ॥ पुंश्चलीयोनिगर्भे च कृमिश्चैव पुरन्दर ! । गृघ्रः कोटिसहस्राणि शतजन्मानि कुक्कुरः । भ्रातृजायापहरणात् शतजन्मानि शूकरः ॥” “यो ददाति न दायञ्च बलिष्ठो दुर्ब्बलाय च । स याति कुम्भीपाकञ्च यावच्चन्द्रदिवाकरौ ॥ भ्रातुरन्वेषणे भ्राता न गच्छेत् । यथा, -- नारद उवाच । “हे हर्य्यश्वा महावीर्य्याः प्रजा यूयं करिष्यथ । ईदृशो लक्ष्यते यत्नो भवतां श्रूयतामिदम् ॥ वालिशा वत यूयं ये नास्या जानीत वै भुवः । अन्तरूर्द्धमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥ ऊर्द्ध्वं तिर्य्यगधश्चैव यदाप्रतिहता गतिः । तदा कस्माद्भुवो नान्तं सर्व्वे द्रक्ष्यथ वालिशाः ॥ ते तु तद्वचनं श्रुत्वा प्रयाताः सर्व्वतो दिशम् । अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः ॥ हर्य्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः । वैरिण्यामथ पुत्त्राणां सहस्रमसृजद्विभुः ॥ विवर्द्धयिषवस्ते तु सवलाश्वाः प्रजाः पुनः । पूर्ब्बोक्तं वचनं ब्रह्मन्नारदेन प्रचोदिताः ॥ अन्योन्यमूचुस्ते सर्व्वे सम्यगाह महामुनिः । भ्रातॄणां पदवी चैव गन्तव्या नात्र संशयः ॥ ज्ञात्वा प्रमाणं पृथ्य्वास्तु प्रजाः स्रक्ष्यामहे पुनः । तेऽपि तेनैव मार्गेण प्रयाताः सर्व्वतो दिशम् । अद्यापि न निवर्त्तन्ते समुद्रेम्य इवापगाः ॥ ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विज ! । प्रयातो नश्यति तथा तन्न कार्य्यं विजानता ॥” इति विष्णुपुराणे १ अंशे १६ अध्यायः ॥ अपि च, मात्स्ये ५ अध्याये । “ततः प्रभृति न भ्रातुः कनीयान् मार्गमिच्छति । अन्विषन् दुःखमाप्नीति तेन तं परिवर्जयेत् ॥” ज्येष्ठभ्रात्त्रादेर्गुरुत्वं यथा, -- “उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः । मातुलः श्वशुरस्त्राता मातामहपितामहौ । बन्धुर्ज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः ॥” इति कौर्म्मे उपविभागे ११ अध्यायः ॥ विभक्तानां तेषां धर्म्मवृद्धिर्यथा, -- व्यासः । “भ्रातॄणां जीवतोः पित्रोः सहवासो विधीयते । तदभावे विभक्तानां धर्म्मस्तेषां विवर्द्धते ॥ भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्म्मणा । स निर्भाज्यः स्वकादंशात् किञ्चिद्दत्त्वोप- जीवनम् ॥” ज्येष्ठभ्रातृप्रशंसा यथा, -- “बिभृयाद्वेच्छतः सर्व्वान् ज्येष्ठो भ्राता यथा पिता । भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षा कुले स्थितिः ॥ कुटुम्बार्थेषु चोद्युक्तस्तत् कार्य्यं कुरुते तु यः । स भ्रातृभिर्बृंहणीयो ग्रासाच्छादनवाहनैः ॥ अन्योन्यभेदो भ्रातॄणां सुहृदां वा बलान्तक ! । भवत्यानन्दकृद्देव ! द्बिषतां नात्र संशयः ॥” * ॥ भ्रातृसंस्कारस्यावश्यकत्वम् । यथा, नारदः । “येषान्तु न कृताः पित्रा संस्कारविधयः क्रमात् । कर्त्तव्या भ्रातृभिस्तेषां पैतृकादेव तद्धनात् ॥ अविद्यमाने पित्रर्थे स्वांशादुद्धृत्य वा पुनः । अवश्यकार्य्याः संस्कारा भ्रातृभिः पूर्ब्बसंस्कृतैः ॥” विभक्तानां तेषां साक्षित्वादि यथा, -- “साक्षित्वं प्रतिभाव्यञ्च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्य्युर्नाविभक्ताः परस्परम् ॥” इति दायतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=भ्राता&oldid=503306" इत्यस्माद् प्रतिप्राप्तम्