भ्रूः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रूः, स्त्री, (भ्राम्यति नेत्रोपरि इति । भ्रम् + “भ्रमेश्च डूः ।” उणा० २ । ६८ । इति डूः ।) दृग्भ्यामूर्द्ध्वभागः । तत्पर्य्यायः । चिल्लिका २ नयनोर्द्ध्वभागरोमराजी ३ । इति राजनिर्घण्टः ॥ तल्लक्षणम् यथा, गारुडे ६६ अध्याये । “विशालोन्नता सुखिनि दरिद्रा विषमभ्रुवः । धनी दीर्घा संसक्तभ्रूर्बालेन्दून्नतसभ्रुवः । आव्या निस्वश्च खड्गभ्रूर्मध्याश्च विनतभ्रुवः ॥” अत्र षट्चक्रान्तर्गताज्ञाख्य चक्रमस्ति । तत्तु हक्षवर्णद्बययुक्तद्बिदलपद्माकारम् । तन्मध्ये मन- स्तिष्ठति । यथा, -- “आज्ञानामाम्बुजं तद्धिमकरसदृशं ध्यान- धामप्रकाशं हस्ताभ्यां वै कलाभ्यां प्रविलसितवपुर्नेत्रपत्रं सुशुभ्रम् । तन्मध्ये हाकिनी सा शशिसमधवला वक्त्रषट्कं दधाना विद्यां मुद्रां कपालं डमरुजपवटीं बिभ्रती शुद्धचित्ता ॥ एतत्पद्मान्तराले निवसति च मनः सूक्ष्मरूपं प्रसिद्धम् ॥” इति श्रीतत्त्वचिन्तामणौ षष्ठप्रकाशः ॥ (विषयोऽस्या यथा, -- “भ्रुवोर्वा यदि वा मूर्द्ध्नि सीमन्तावर्त्तकान् बहून् । अपूर्ब्बानकृतान् व्यक्तान् दृष्ट्वा मरणमादिशेत् ॥ त्र्यहमेते न जीवन्ति लक्षणेनातुरा नराः । अरोगाणां पुनस्त्वेतत् षड्रात्रं परमुच्यते ॥” इति चरके इन्द्रियस्थाने अष्टमेऽध्याये ॥ कर्णनेत्रनासाभ्रूशङ्खांसगण्डकक्षस्तनवृषपार्श्व- स्किग् जानुबाहूरूप्रभृतयो द्वे द्वे विंशतिरङ्गु- लयः । इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=भ्रूः&oldid=155218" इत्यस्माद् प्रतिप्राप्तम्