मङ्गलचण्डिका

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गलचण्डिका, स्त्री, (मङ्गला मङ्गलदायिका चासौ चण्डिका चेति । यद्वा, सृष्टौ मङ्गला प्रलये चण्डिका । अथवा मङ्गले चण्डिका दक्षा ।) मङ्गलचण्डी । यथा, कालिकापुराणे । “यैषा ललितकान्ताख्या देवी मङ्गलचण्डिका । वरदाभयहस्ता च द्विभुजा गौरदेहिका ॥ रक्तपद्मासनस्था च रत्नकुण्डलमण्डिता । रक्तकौषेयवस्त्रा च स्मितवक्त्वा शुभानना ॥ नवयौवनसम्पन्ना चार्व्वङ्गी ललितप्रभा । उमया भाषितं मन्त्रं यत् पूर्ब्बन्त्वेकमक्षरम् । मन्त्रमस्यास्तु तज्ज्ञेयं तेन देवीं प्रपूजयेत् ॥” एकमक्षरं शक्तिबीजरूपम् । “अष्टम्याञ्च नवम्याञ्च पूजा कार्य्या विवृद्धये । पटेषु प्रतिमायां वा घटे मङ्गलचण्डिकाम् ॥ यः पूजयेद्भौमदिने शुभर्द्दूर्व्वाक्षतैः शुभाम् । सततं साधकः सोऽपि काममिष्टमवाप्नुयात् ॥ * ॥ मङ्गलवारे कृष्णाष्टमीचतुर्द्दश्यौ चेत् पुण्यतरै भवतः । यथा, -- “शनैश्चरस्य वारेण वारेणाङ्गारकस्य च । कृष्णाष्टमीचतुर्द्दश्यौ पुण्यात् पुण्यतरे स्मृते ॥ * ॥ मङ्गलवारे शुक्ला चतुर्थी चेदक्षया भवति । यथा, -- “सोमवारेऽप्यमावास्या आदित्याहे च सप्तमी । चतुर्थ्यङ्गारके वारे त्वष्टमी च बृहस्पतौ ॥ अत्र यत् क्रियते पापमथवा धर्म्मसञ्चयः । षष्टिवर्षसहस्राणि प्रतिजन्म तदक्षयम् ॥” इति तिथ्यादितत्त्वम् ॥

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गलचण्डिका/ मङ्गल--चण्डिका f. N. of दुर्गCat. W.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAṄGALACAṆḌIKĀ : A devī. Vedas and Vedavids alike praise this goddess who is always interested in granting the requests of her devotees. Because she showers prosperity on her devotees she became known as Maṅgalacaṇḍikā. There is another version that she got the name because she was worshipped by Maṅgala (Kuja) and because she grants the requests of Maṅgala. Yet another version is that she got the name because she was worshipped by the King Maṅgala chief of the seven islands. Born of the species of Durgādevī she is very kind and affectionate to her devotees. Parama- śiva worshipped this Devī before he went to destroy the demon-trio Tripuras. (9th Skandha, Devī Bhāga- vata).


_______________________________
*1st word in right half of page 477 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मङ्गलचण्डिका&oldid=434488" इत्यस्माद् पुनः प्राप्तिः