मञ्जूषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जूषा, स्त्री, (मज्जति द्रव्यमस्मिन् । “मस्जेर्नुम् च ।” उणा० । ४ । ७७ । इति मस्ज् + ऊषन् । नुम् च स चाचोऽन्त्यात् परः । ततो जश्त्व- श्चुत्वे मध्यमस्य लोपात् साधुः ।) पिटकः । इत्य- मरः । २ । १० । ३० ॥ (यथा, देवीभागवते । २ । ६ । ३३ । “मञ्जुषायां सुतं कुन्ती सुञ्चन्ती वाक्यमब्रवीत् ॥”) पाषाणः । इत्युणादिकोषः ॥ मञ्जिष्ठा । इति राजनिर्घण्टः ॥ (मञ्जिष्ठार्थे पर्य्यायो यथा, -- “मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका । मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ॥ रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका । भण्डीतकी च गण्डेरी मञ्जूषा वस्त्ररञ्जिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जूषा स्त्री।

पेटकः

समानार्थक:पिटक,पेटक,पेटा,मञ्जूषा

2।10।29।3।4

पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता। जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु। पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जूषा¦ स्त्री मन्ज ऊषन् (पेटरा)

१ पेटिकायाम् अमरः।

२ मञ्जिष्ठायाञ्च राजनि॰

३ पाषाणे उणा॰ को॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जूषा¦ f. (-षा)
1. A basket, a large basket,
2. A stone.
3. Bengal ma4d- der.
4. The case in which the great bow that RA4MA broke, was kept. E. मन्ज् to make pure or clean by ablution, Una4di aff. ऊषन्, and the nasal augment; also with a short vowel मञ्जुषा |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जूषा f. ( L. , also मञ्जुषा)a box , chest , case , basket MBh. Ka1v. etc.

मञ्जूषा f. receptacle of or for (often ifc. , rarely ibc. in titles of works ; also N. of various works and sometimes abridged for the fuller names , e.g. for धातु-न्याय-म्etc. )

मञ्जूषा f. Rubia Munjista Bhpr.

मञ्जूषा f. a stone L.

"https://sa.wiktionary.org/w/index.php?title=मञ्जूषा&oldid=314211" इत्यस्माद् प्रतिप्राप्तम्