मत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्तः, पुं, (माद्यतीति । मद् + कर्त्तरि क्तः ।) क्षरन्मदहस्ती । मातओयाला हाती इति भाषा ॥ तत्पर्य्यायः । प्रभिन्नः २ गर्ज्जितः ३ । इत्यमरः । २ । ८ । ३६ ॥ मतङ्गः ४ क्षरन्मदः ५ । इति शब्दरत्नावली ॥ धुस्तूरः । कोकिलः । महिषः । इति राजनिर्घण्टः ॥

मत्तः, त्रि, मत्तताविशिष्टः । सुरापाने विक- लान्तःकरणः । तत्पर्य्यायः । शौण्डः २ उत्- कटः ३ क्षीवः ४ । इत्यमरः । ३ । १ । २३ ॥ मदोद्धतः ५ । इति जटाधरः ॥ (यथा, देवी- भागवते । २ । ८ । ४ । “ते पीत्वा मदिरां मत्ताः कृत्वा युद्धं पर- स्परम् ।” यथाच माधवकृतरुग्विनिश्चये मदात्ययाद्यधिकारे । “मध्येन मत्तः पुरुषो मदेन ।”) हृष्टः । मदीभिर्य्यञि हर्षे क्तः । इत्यमर- भरतौ ॥ अविवेकी । (यथा रामायणे । १ । ४४ । १० । “बलान्मत्तो महाबलः ।” “मत्तोऽविवेकी ।” इति तट्टीकाकृद्रामानुजः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्त पुं।

मत्तगजः

समानार्थक:प्रभिन्न,गर्जित,मत्त,घनाघन

2।8।36।1।3

प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ। हास्तिकं गजता वृन्दे करिणी धेनुका वशा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

मत्त वि।

उन्मत्तः

समानार्थक:मत्त,शौण्ड,उत्कट,क्षीब

3।1।23।2।1

सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः। मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः॥

 : उन्मादशीलः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मत्त वि।

प्रमुदितः

समानार्थक:हृष्ट,मत्त,तृप्त,प्रह्लन्न,प्रमुदित,प्रीत,प्रतीत

3।1।103।1।2

हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः। छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्त¦ पु॰ मद--क्त।

१ दुर्मदे गजे अमरः।

२ क्षीवे

३ मदयुक्ते

४ हृष्टे च त्रि॰।

५ धुस्तूरे

६ कोकिले

७ महिषे पु॰राजनि॰ मत्तं मदोऽस्त्यस्याम् अच्।

८ मदिरायां स्त्रीराजनि॰।
“ज्ञेया मत्ता मभनगयुता” वृ॰ र॰ उक्ते

९ दशाक्षरपादके छन्दोभेदे स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Pleased, glad, delighted.
2. Intoxicated, (drunk with liquor.)
3. Intoxicated, (with pride, passion, &c.)
4. Furious, mad, insane. m. (-त्तः)
1. A furious elephant, or one in rut.
2. Buffalo.
3. The Kokila or Indian cuckoo.
4. The thorn- apple, (Dhu4tura
4.) f. (-त्ता)
1. Vinous liquor.
2. A species of the Pankti4 metre. E. मद् to rejoice, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्त [matta], p. p. [मद्-क्त]

Intoxicated, drunk, inebriated (fig. also); Ms.11.96; मत्तं प्रमत्तमुन्मत्तं ...... न रिपुं हन्ति धर्मवित् Bhāg.1.7.36; ज्योत्स्नापानमदालसेन वपुषा मत्ताश्चकोरा- ङ्गनाः Vb.1.11; प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति K. P.1; so ऐश्वर्य˚, धन˚, बल˚ &c.

Mad, insane.

In rut, furious (as an elephant); जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव R.12.93.

Proud, arrogant.

Delighted, overjoyed, excited with joy.

Amorous, sportive, wanton.

Excited by sexual desire.

त्तः A drunkard.

A mad man.

An elephant in rut.

A cuckoo.

A buffalo.

The thorn-apple or Dhattūra plant. -त्ता Spirituous or vinous liquor. -Comp. -आक्रीडा N. of a metre; मत्ताक्रीडा म्नौ त्नौ नौ नल्गिति भवति वसुशरदशयनियुता V. Ratna. -आम्लवः a fence round a large building (as of a rich man). -इभः an elephant in rut. ˚गमना a woman having the gait of an elephant in rut, e. g. with a lounging gait. ˚विक्रीडितम् N. of a metre; सभरा न्मौ यलगास्त्रयोदशयतिर्मत्ते भविक्रीडितम् V. Ratna. -काशि(सि)नी a handsome and very fascinating woman; दर्शितो$सौ चित्रपटस्तस्यै मत्तकाशिन्यै Dk.2.3. -कीशः an elephant.

गामिनी = मत्तेभगमना above.

a bewitching or wanton woman. -दन्तिन् m., -नागः an elephant in rut. -पालकः a drunken wretch; दास्याः पुत्र मत्तपालक कुतो$त्र नवमालिका Nāg.3. -मयूरः a wild or amorous peacock. (-रम्) a kind of metre; वेदैरन्ध्रैर्मत्तौ यसगा मत्तमयूरम् V. Ratna.-वारणः an elephant in rut; R.12.93.

(णः, णम्) a fence round a large building or mansion.

a turret or small room on the top of a large building.

a veranda.

a pavilion.

a peg or bracket.

a bed-stead. (-णम्) pounded betel-nuts.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्त etc. See. p. 77 , col. 3.

मत्त mfn. excited with joy , overjoyed , delighted , drunk , intoxicated( lit. and fig. ) AV. etc.

मत्त mfn. excited by sexual passion or desire , in rut , ruttish (as an elephant) MBh. R. etc.

मत्त mfn. furious , mad , insane ib.

मत्त m. a buffalo L.

मत्त m. the Indian cuckoo L.

मत्त m. a drunkard L.

मत्त m. a ruttish or furious elephant L.

मत्त m. a madman L.

मत्त m. a thorn-apple L.

मत्त m. N. of a राक्षसR.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an attribute of विघ्नेश्वर. Br. IV. ४४. ६९. [page२-601+ ३८]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MATTA : A demon. He was born to the demon Mālyavān of his wife Sundarī. Matta had six brothers named Vajramuṣṭi, Virūpākṣa, Durmukha, Suptaghna, Yajñakośa and Unmatta. This Matta was killed in the Rāma-Rāvaṇa battle. (Chapter 10, Agni Purāṇa).


_______________________________
*6th word in left half of page 494 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मत्त&oldid=503350" इत्यस्माद् प्रतिप्राप्तम्