मत्स्यगन्धा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्स्यगन्धा, स्त्री, (मत्स्यस्येव गन्धो यस्याः । छान्दसादित्वाभावः ।) लाङ्गलीवृक्षः । स च जलपिप्पली । इति जटाधरः राजनिर्घण्टश्च ॥ व्यासमाता ॥ (अस्या उत्पत्तिकथा यथा, एकदा चेदीश्वरो वसुराजः पितृगणनियोजितो मृगये- प्सुर्वनं गत्वा स्वपत्नीं गिरिकां ऋतुस्नातां स्मरन् आस्ते । इत्यवसरे कामोद्दीपकवसन्तवायुना प्रेर्य्यमाणस्य तस्य रेतः प्रचस्कन्द । ततस्त- द्वीर्य्यं सपत्रपुटे स्थापितवान् । एतत्तु मृषा न स्खलितमिति निश्चित्य अभिमन्त्र्य च तत् स्वपालित-श्येनेन प्रियायै प्रेषयामास । तदा- दाय उड्डीयमानस्य अन्येन च श्येनेन सह विहायसि युध्यतस्तस्य पदात् भ्रष्टं कालिन्दीजले पपात वीर्य्यम् । अथ तद्रेतः ब्रह्मशापान्मत्स्य- रूपिणी अद्रिका नाम्नी काचिदप्सरा भक्षित- वती धीवरास्तु तां पूर्णगर्भां मत्स्यीं बवन्धुः ततस्तेतु तस्या उदरात् एकां स्त्रियमेकञ्च पुरुषमुज्जह्रुः । तयोस्तु पुरुषो मत्स्यो नाम राजा, सा कन्या च मत्स्यगन्धेति ख्यातासीत् ॥ हवुषा । तत्पर्य्यायो यथा, -- “तन्मस्ये प्रथमं फलं मत्स्यसदृशं विस्रगन्धंद्बितीय- मश्वत्थफलसदृशं मत्स्यगन्धं तयोर्नामानि । “हवुषा पुष्पवस्ता च पराश्वत्थफला मता । मत्स्यगन्धा प्लीहहन्त्री विषघ्नी ध्वाङ्क्षनाशिनी ॥” मत्स्याक्षी ॥ तत्पर्य्यायो यथा, -- “मत्स्याक्षी वाह्लिका मत्स्यगन्धा मत्स्या- दनीति च ।” जलपिप्यल्यर्थे पर्य्यायो यथा, -- “जलपिप्पल्यभिहिता शारदी शकलादनी । मत्स्यादनी मत्स्यगन्धा लाङ्गलीत्यपि कीर्त्तिता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्स्यगन्धा¦ स्त्री मत्स्यस्येव गन्धोऽस्याः।

१ व्यासमातरि सत्य-वत्याम् भा॰ आ॰

६३ अ॰।

२ जलपिप्पल्याञ्च जटा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्स्यगन्धा/ मत्स्य--गन्धा f. N. of सत्य-वती(mother of व्यास, also called मीन-गन्ध; See. मत्स्यabove ) MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MATSYAGANDHĪ (MATSYAGANDHĀ) : Another name for Satyavatī, mother of Vyāsa. (See under Satyavatī).


_______________________________
*2nd word in left half of page 494 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मत्स्यगन्धा&oldid=503352" इत्यस्माद् प्रतिप्राप्तम्