मथुरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मथुरा, स्त्री, (मथ्यते पापराशिर्यया इति । मथ + “मन्दिवाशीत्यादि ।” उणा० । १ । ३९ । इति उरच् ।) स्वनामख्यातपुरी । अधुना आगरा इति ख्यातस्याग्रवणस्य नगरम् । (यथा, रघौ । ६ । ४८ । “यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले । कलिन्दकन्या मथुरां गतापि गङ्गोर्म्मिसंसक्तजलेव भाति ॥”) तत्पर्य्यायः । मधुपघ्नम् २ । इति त्रिकाण्डशेषः ॥ मधुपुरी ३ मधुरा ४ । इति शब्दरत्नावली ॥ सा च मोक्षदायकतीर्थम् । यथा, -- “अयोध्या मथुरा माया काशी काञ्ची अव- न्तिका । पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः ॥ अयोध्या रामनगरी मथुरा कृष्णपालिता । एतास्तु पृथिवीमध्ये न गण्यन्ते कदाचन ॥ श्रीरामधनुरग्रस्था अयोध्या सा महापुरी । मथुरा केशवोत्सृष्टसुदर्शनविधारिता ॥” इत्यादिभूतशुद्धितन्त्रम् ॥ * ॥ तत्र विष्णुदर्शनमाहात्म्यं यथा, “यज्ज्यैष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले । मथुरायां हरिं दृष्ट्वा प्राप्नोति परमां गतिम् ॥ यमुनासलिले स्नातः पुरुषो मुनिसत्तम ! । ज्येष्ठामूलामले पक्षे द्वादश्यामुपवासकृत् ॥ समभ्यर्च्च्याच्युतं सम्यक् मथुरायां समाहितः । अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥ कश्चिदस्मत्कुले जातः कालिन्दीसलिलाप्लुतः । अर्च्चयिष्यति गोविन्दं मथुरायामुपोषितः ॥ ज्येष्ठामूलसिते पक्षे येनैवं वयमप्युत । परामृद्धिमवाप्स्यामस्तारिताः सकुलोद्भवैः ॥” इति विष्णुपुराणे ६ अंशे ८ अध्यायः ॥ * ॥ तस्या माहात्म्यं यथा, -- वराह उवाच । “न विद्यते च पाताले नान्तरीक्षे न मानुषे । समत्वं मथुराया हि प्रियं मम वसुन्धरे ! ॥” सूत उवाच । “तच्छ्रुत्वा वचनं तस्य प्रणम्य शिरसा तदा । पुण्यानां परमं पुण्यं पृथ्वी वचनमब्रवीत् ॥ पृथिव्युवाच । पुष्करं नैमिषं चैव पुरी वाराणसी तथा । एता हित्वा महाभाग ! मथुरां किं प्रशंससि ॥ वराह उवाच । शृणु कार्त्स्नेन वसुधे ! कथ्यमानं मयानधे ! । मथुरति च विख्यातं नास्ति क्षेत्रं परं मम । तस्मिन् स्नातो नरो देवि ! मम लोके महीयते । तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ॥ तद्दक्षिणे महादेवि ! ऋषितीर्थं परं मम । तत्र स्नातो नरो देवि ! ऋषिलोकं प्रपद्यते ॥ अथात्र मुञ्चते प्राणान्मम लोके महीयते । दक्षिणे ऋषितीर्थस्य मोक्षतीर्थं परं मम ॥ स्नानमात्रेण वसुधे ! मोक्षं प्राप्नोति मानवः । तत्राथ मुञ्चते प्राणान् मम लोके महीयते ॥ तत्रैव कोटितीर्थं हि तीर्थानामपि दुर्लभम् । तत्र स्नानेन दानेन मम लोके महीयते ॥ कोटितीर्थे नरः स्नातः सन्तर्प्य पितृदेवताः । तारिताः पितरस्तेन तथैव प्रपितामहाः ॥ कोटितीर्थे नरः स्नातो ब्रह्मलोके महीयते । तत्रैव वायुतीर्थन्तु पितॄणामपि दुर्लभम् ॥ पिण्डं दद्यात्तु वसुधे ! पितृलोकं स गच्छति । गयापिण्डप्रदानेन यत् फलं लभते नरः ॥ तत् फलं लभते देवि ! ज्यैष्ठे दानान्न संशयः । द्वादशैतानि तीर्थानि देवानां दुर्लभानि च ॥ स्नानं दानं जपो होमः सहस्रगुणितं भवेत् । एषां स्मरणमात्रेण सर्व्वपापैः प्रमुच्यते ॥ श्रुत्वा तीर्थस्य माहात्म्यं सर्व्वान् कामानवा- प्नुयात् ॥” इत्यादि वराहपुराणे मथुरातीर्थप्रभावः ॥ * ॥ इतः प्रभृति सप्तविंशाध्यायेषु मथुरामाहात्म्यं ज्ञेयम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मथु(थू)रा¦ स्त्री मथ--उ(ऊ)रच्। स्वनामख्यातायां नगर्य्याम।
“अयोध्या मथुरा माया काशी काञ्ची अवन्तिका। पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः” काशी॰ ख॰। तन्माहात्म्यं विष्णुपु॰

६ अंशे

८ अ॰। वराहपु॰

२७ अ॰। ततः चतुरर्थ्यां वरणा॰ अण्। माथुर तत्पुर्य्यदूरभवेत्रि॰। मथूराप्यत्र द्विरूपको॰। [Page4725-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मथुरा¦ f. (-रा) A town in the province of A4gra4, celebrated as the birth place, and early residence of KRISHN4A, and still an object of pilgrimage amongst the Hindus. E. मथ् to stir, Una4di aff. उरच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मथुरा f. See. next.

मथुरा f. N. of various towns ( esp. of an ancient town now called Muttra and held in great honour as the birthplace of कृष्ण; situated in the province of अग्रon the right bank of the यमुनाor Jumna ; described in VP. xii , 1 as having been founded by शत्रु-घ्न; accord. to Kull. on Mn. ii , 19 it forms part of a district called ब्रह्मर्षि, belonging to शूर-सेन) AV.Paris3. Hariv. Pur. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--founded by शत्रुघ्न after killing लवण; फलकम्:F1:  भा. IX. ११. १४; Br. III. ६३. १८६; IV. ४०. १९; वा. ८८. १८५-6; Vi. IV. 4. १०१.फलकम्:/F capital of सुबाहु and शूरसेन; here was celebrat- ed the marriage of Vasudeva and देवकी when the couple [page२-604+ ४६] were the recipients of rich presents of elephants, horses, दासिस् and others; Kamsa joined in the festivities when a voice in the sky said that her eighth son was to kill him; फलकम्:F2:  भा. X. 1. २७-34; 2. 4.फलकम्:/F visited by Nanda to pay his annual tribute; left by Nanda; फलकम्:F3:  Ib. X. 5. १९, ३२; 6. ३१.फलकम्:/F capital of the Yadus, besieged by जरासन्ध and his followers; defended by the यादवस् on all the four sides; entered by कृष्ण after defeating जरासन्ध; second attempt of जरा- sandha on the city with बाण's army; entered by कृष्ण after a third success over जरासन्ध; फलकम्:F4:  Ib. X. ५०. 4. ११ [1-9], २० [1-5], ३६-40. ५० (V) 6, [५१ (V) २१-3], [५२ (V) 9].फलकम्:/F राजमार्ग and सभा of; फलकम्:F5:  Ib. X. ५०. १०-13.फलकम्:/F with a huge army कृष्ण and राम returned to; besieged by Yavana; abandoned by कृष्ण in fear, for द्वारका; फलकम्:F6:  Ib. X. ५३ (V) २१-2, ५०, ४५, ५३; ७२. ३१.फलकम्:/F reached by राम, कृष्ण, अक्रूर and others; Gopa's camp outside the city; entered by the brothers and Gopas; the city describ- ed; joy of the women at the sight of the brothers; फलकम्:F7:  Ib. X. ch. ४१ (whole); ४२. २३.फलकम्:/F left by अक्रूर for Vraja by chariot, as also by Uddhava; Gopis' enquiry about कृष्ण. Uddhava's return to मथुरा from Vraja. फलकम्:F8:  Ib. X. ३८. 1; ४७. २१, ६८.फलकम्:/F reached by Nanda, Gopas and Gopis after Vasu- deva's sacrifice at स्यमन्तपञ्चक; फलकम्:F9:  Ib. X. ८४. ६९.फलकम्:/F Vajra anointed king of, by युधिष्ठिर; फलकम्:F१०:  Ib. I. १५. ३९.फलकम्:/F sometime ruled by seven नाग kings; फलकम्:F११:  Br. III. ७४. १९४.फलकम्:/F sacred to देवकी. फलकम्:F१२:  M. १३. ३९.फलकम्:/F Vasudeva's residence in; फलकम्:F१३:  Vi. V. 3. १६.फलकम्:/F left by अक्रूर in a chariot as directed by Kamsa to fetch कृष्ण from Vraja; कृष्ण's visit to, which travelling by chariot took one day; फलकम्:F१४:  Ib. V. १५. २४; १८. 9ff.फलकम्:/F ruled by Kamsa and then Ugrasena; फलकम्:F१५:  Ib. V. १९. 8 ff.फलकम्:/F evacuat- ed for fear of कालयवन and migrated to द्वारका, फलकम्:F१६:  Ib. V. २१. ३२; २३. १५.फलकम्:/F temple of Hari at. फलकम्:F१७:  Ib. VI. 8. ३१.फलकम्:/F
(II)--(दक्षिण) visited by बलराम. भा. X. ७९. १५. [page२-605+ २१]
(III)--the capital of the नागस् of whom seven are distinguished. वा. ९९. ३८३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Mathurā  : f.: Name of a city.

A. Famous for:

(1) Milch cows of holy complexion; Kṛṣṇa gave to the Pāṇḍavas, as a part of dowry, large number of such milch cows from the place around Mathurā (māthuradeśyānāṁ dogdhrīṇāṁ puṇyavarcasām/…dadau janārdanaḥ prītyā) 1. 213. 42-43;

(2) Men around Mathurā known for their skill in wrestling (mathurām abhitaś ca ye/ete niyuddhakuśalāḥ) 12. 102. 5 (Nī. on Bom. Ed. 12. 101. 5: niyuddhaṁ bāhuyuddham).

B. Epic events:

(1) Krṣṇa and the other Yādavas lived happily at Mathurā when Jarāsandha, after the death of Haṁsa and Dibhaka, left fighting and returned to his city 2. 13. 44;

(2) Kṛṣṇa and the Yādavas fled from Mathurā out of fear of Jarāsandha and went to Dvārakā 2. 13. 65.

C. Past event: Nārāyaṇa had prophesied to Nārada that at the close of the conjunction of Dvāpara and Kali he would be born in Mathurā for the death of Kaṁsa (dvāparasya kaleś caiva saṁdhau paryavasānike/prādurbhāvaḥ kaṁsahetor mathurāyāṁ bhaviṣyati) 12. 326. 82.

_______________________________
*2nd word in right half of page p551_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=मथुरा&oldid=446060" इत्यस्माद् प्रतिप्राप्तम्