मदन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मदनः, पुं, (मदयतीति । मद् + णिच् ल्युः ।) कामदेवः । इत्यमरः । १ । १ । २६ ॥ तस्य नाम्नां व्युत्पत्तिर्यथा । ऋषय ऊचुः । “यस्मात् प्रमथ्य चेतस्त्वं जातोऽस्माकं तथा विधेः । तस्मान्मन्मथनाम्ना त्वं लोके गेयो भविष्यसि ॥ जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते । अतस्त्वं कामनाम्नापि ख्यातो भव मनोभव ! ॥ मदनान्मदनाख्यस्त्वं शम्भोर्दर्पात् सदर्पकः । तथा कन्दर्पनाम्नापि लोके ख्यातो भविष्यसि ॥” इति कालिकापुराणे २ अध्यायः ॥ ब्रह्मणस्तस्योत्पत्तिर्यथा, -- “प्रहृष्टमानसः पुत्त्रं कन्यैकाञ्च ससर्ज्ज ह । हृष्टस्य कामिनः पुत्त्रः कामदेवो बभूव ह ॥ कन्या षोडशवर्षीया रत्नभूषणभूषिता ॥ उवाच पुत्त्रं स विधिः सुदीप्तं पुरतः स्थितम् । दुर्न्निवार्य्यं मत्कलांशं स्वात्मारामं मनोहरम् ॥ ब्रह्मोवाच । स्त्रीपुंसोः क्रीडनार्थाय मुदा त्वञ्च विनिर्म्मितः । हृदि योगेन सर्व्वेषामधिष्ठानं करिष्यसि ॥ सम्मोहनं समुद्वेगबीजं स्तम्भितकारणम् । उन्मत्तबीजं ज्वलनं शश्वच्चेतनहारकम् ॥ प्रगृह्यैतान्मया दत्तान् सर्व्वान् सम्मोहनं कुरु । दुर्निवार्य्यो मम वराद्भव वत्स ! भवेषु च ॥ बाणान्दत्त्वैवमुक्त्वा च प्रहृष्टश्च जगद्बिधिः । दृष्ट्वा वाचं दुहितरं वरं दातुं समुद्यतः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३५ अध्यायः ॥ (योगाचार्य्यरूपः शिवस्यावतारविशेषः । यथा, शिवपुराणे वायुसंहितायाम् । २ । १० । १ -- २ । श्रीकृष्ण उवाच । “युगावर्त्तेषु सर्वेषु योगाचार्य्यछलेन तु । अवताराणि सर्वस्य शिष्यांश्च भगवन् ! वद ॥” उपमन्युरुवाच । “श्वेतः सुतारो मदनः सुहोत्रः कंक एव च ॥” महादेवः । मदयति भक्तानां मनः इति मद + ल्युः । मनसि आनन्दजनकत्वादस्य तथा- त्वम् । यथा, महाभारते । १३ । १७ । ६९ । “उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥” मत्तता । वरारोहाणां कामिनीनां भावविशेषः इति यावत् । यथा, महाभारते । ३ । ४६ । १३ । “सीधुपानेन चाल्पेन तुष्टाथ मदनेन च । विलासनैश्च विविधैः प्रेक्षणीयतराभवत् ॥”) वसन्तः । धुस्तूरः । सिक्थकम् । इति मेदिनी । मे । १०३ ॥ वृक्षभेदः । मयना इति भाषा । तत्पर्य्यायः । पिचुकः २ मुचुकुन्दः ३ कण्टकी ४ । इति रत्नमाला ॥ पिण्डीतकः ५ । (तथाचास्य पर्य्यायान्तरं गुणाश्च । “मदनः छर्द्दनः पिण्डो नटः पिण्डीतकस्तथा । करहाटी मरुवकः शल्यको विषपुष्पकः ॥ मदनो मधुरस्तिक्तो वीर्य्योष्णो लेखनो लघुः । वान्तिकृद्विद्रधिहरः प्रतिश्यायव्रणान्तकः ॥ रूक्षः कुष्ठकफानाहशोथगुल्मव्रणापहः ॥” धुस्तूरार्थे पर्य्यायो यथा, -- “धत्तूरधूर्त्तधुत्तूरा उन्मत्तः कनकाह्वयः । देवता कितवस्तूरी महामोहः शिवप्रियः ॥ मातुलो मदनश्चास्य फले मातुलपुत्त्रकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) मरुवकः ६ श्वसनः ७ करहाटकः ८ शल्यः ९ । इत्यमरः । २ । ४ । ५२ -- ५३ ॥ भ्रमरः । इति जटाधरः ॥ माषः । इति हेमचन्द्रः ॥ खदिरवृक्षः । इति शब्दचन्द्रिका ॥ मङ्कोठ- वृक्षः । वकुलवृक्षः । वृक्षविशेषः । मयना- फल इति भाषा । तत्पर्य्यायः । शल्यः २ कैटर्य्यः ३ पिण्डः ४ धाराफलः ५ तगरः ६ करहाटः ७ पिण्डीतकः ८ श्वसनः ९ मरु- वकः १० । अस्य गुणाः । वमिकारकत्वम् । तिक्तत्वम् । उष्णवीर्य्यत्वम् । लेखनत्वम् । लघुत्वम् । रूक्षत्वम् । कुष्ठकफानाहशोफगुल्मब्रणापहत्वञ्च । इति राजनिर्घण्टः ॥ आलिङ्गनविशेषः । तल्ल- क्षणम् । नायको नायिकायाः कण्ठे हस्तं दत्त्वा द्वितीयहस्तं तस्या मध्यदेशे दत्त्वा यदाश्लिषति । इति कामशास्त्रम् ॥ (“अथ मयनम् ।” मम् इति भाषा । “मयनन्तु मधूच्छिष्टं मधुशेषञ्च सिक्थकम् । मध्वाधारो मदनकं मधूषितमपि स्मृतम् ॥ मदनं मृदुसुस्निग्धं भूतघ्नं ब्रणरोपणम् । भग्नतन्धानकृद्वातकुष्ठवीसर्परक्तजित् ॥” इति च भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥ मण्डलिसर्पान्तर्गतसर्पविशेषः ॥ “शिशुको मदनः पालिंहिरः इत्यादि ।” इति मुश्रुते कल्पस्थाने चतुर्थेऽध्याये ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मदन पुं।
कामदेवः
समानार्थक:मदन,मन्मथ,मार,प्रद्युम्न,मीनकेतन,कन्दर्प,दर्पक,अनङ्ग,काम,पञ्चशर,स्मर,शम्बरारि,मनसिज,कुसुमेषु,अनन्यज,पुष्पधन्वन्,रतिपति,मकरध्वज,आत्मभू,पञ्चबाण,काम,ब्रह्मसू,विश्वकेतु
1।1।25।1।1
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः। कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः॥
जनक : विष्णुः
सम्बन्धि2 : कामबाणः
जन्य : अनिरुद्धः
सेवक : कामबाणः
पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता
मदन पुं।
मयनफलवृक्षः
समानार्थक:पिण्डीतक,मरुबक,श्वसन,करहाटक,शल्य,मदन
2।4।53।1।2
शल्यश्च मदने शक्रपादपः पारिभद्रकः। भद्रदारु द्रुकिलिमं पीतदारु च दारु च॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
मदन पुं।
धत्तूरः
समानार्थक:उन्मत्त,कितव,धूर्त,धत्तूर,कनकाह्वय,मातुल,मदन
2।4।78।1।2
मातुलो मदनश्चास्य फले मातुलपुत्रकः। फलपूरो बीजपूरो रुचको मातुलुङ्गके॥
अवयव : धत्तूरफलम्
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मदन¦ पु॰ माद्यत्यनेन मद करणे ल्युट्।
१ कामदेवे अमरः।
२ सुरायां हेमच॰।
३ वसन्ते काले
४ सिक्थके
५ धुस्तूरे चपु॰ मेदि॰। (मयना)
६ वृक्षभेदे रत्नमाला।
७ भ्रमरेजटा॰ माषे
८ कलायभेदे हेमच॰।
९ खदिरवृक्षे शब्दच॰
१० अङ्कोटकवृक्षे
११ बकुलवृक्षे (मयनफल)
१२ वृक्षभेदे चराजनि॰।
१३ आलिङ्गनभेदे कामशास्त्रम्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मदन¦ m. (-नः)
1. KAMADE4VA, the Hindu CUPID.
2. The season of spring.
3. A plant commonly Mayana4, (Vangueria spinosa.)
4. Thorn-apple, (Dhu4tu4ra metel.)
5. A bee.
6. A sort of bean, (Pha- seolus radiatus.)
7. Bee's wax.
8. A tree, (Mimosa eatechu.)
9. A kind of embrace. f. (-ना-नी)
1. Spirituous or vinous liquor.
2. De- lighting, E. मद् to exhilarate or rejoice, aff. ल्युट्, fem. aff. टाप्, or ङीष् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मदन [madana], a. (-नी f.) [माद्यति अनेन, मद्-करणे ल्युट्]
Intoxicating, maddening.
Delighting, exhilarating.
नः The god of love, Cupid; व्यापाररोधि मदनस्य निषेवितव्यम् Ś.1.27; हतमपि निहन्त्येव मदनः Bh.3.18.
Love, passion, sexual love, lust; विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः Ś.2.11; सतन्त्रिगीतं मदनस्य दीपकम् Ṛs.1.3; R.5.63; so मदनातुर, मदनपीडित &c.
The spring season.
A bee.
Bees'-wax.
A kind of embrace.
The Dhattūra plant.
The Khadira tree.
The Bakula tree.
N. of the 7th mansion (in astrol.).
A kind of measure (in music).
ना, नी Spirituous liquor.
Musk.
The atimukta creeper. (नी only in these two senses).
नम् Intoxicating.
Gladdening, delighting. -Comp. -अग्रकः a species of grain (कोद्रव).
अङ्कुशः the penis.
a finger-nail, or a wound inflicted by it in cohabitation. -अत्ययः excess of intoxication; मद्येन खलु जायन्ते मदात्ययमुखा गदाः Bhāva. P. -अन्तकः, -अरिः, -दमनः, -दहनः, -नाशनः, -रिपुः epithets of Śiva. -अवस्थ a. in love, enamoured.-आतपत्रम् the vulva. -आतुर, -आर्त, -क्लिष्ट, -पीडित a. afflicted by love, smit with love, love-sick; रावणावरजा तत्र राघवं मदनातुरा (अभिपेदे) R.12.32; Ś.3.13.
आयुधम् pudendum muliebre.
'Cupid's missle', said of a very lovely woman.
आलयः, यम् pudendum muliebre.
a lotus.
a king. -आशयः sexual desire.-इच्छाफलम् a kind of mango. -उत्सवः the vernal festival celebrated in honour of Cupid. (-वा) anapsaras. -उत्सुक a. pining or languid with love.-उद्यानम् 'a pleasure-garden', N. of a garden.
कण्टकः erection of hair caused by the feeling of love.
N. of a tree. -कलहः 'love's quarrel', sexual union; ˚छेद- सुलभाम् Mal.2.12. -काकुरवः a dove or pigeon. -गृहम् pudendum muliebre. -गोपालः an epithet of Kṛiṣṇa.-चतुर्दशी the fourteenth day in the bright half of Chaitra, or the festival celebrated on that day in honour of Cupid. -तन्त्रम् the science of sexual love.-त्रयोदशी the thirteenth day in the bright half of Chaitra, or the festival celebrated on that day in honour of Cupid. -द्वादशी a festival in honour of Cupid on the 12th day of the bright half of Chaitra.-ध्वजा the पौर्णिमा day of Chaitra month. -नालिका a faithless wife. -पक्षिन् m. the Khañjana bird. -पाठकः the cuckoo. -पीडा, -बाधा pangs or torments of love.-महः, -महोत्सवः a festival celebrated in honour of Cupid; मदनमहोत्सवाय रसिकमनांसि समुल्लासयन् Dk.2.5.-मोहनः an epithet of Kṛiṣṇa. -रसः poison; मदनरस- योगेनातिसन्धाय अपहरेत् Kau. A.1.15. -ललितम् amorous sport or dalliance. -ललिता N. of a metre; वेदाङ्गाङ्गैर्मदन- ललिता मो भो नमलसाः V. Ratna. (com.). -लेखः a loveletter. -वश a. influenced by love, enamoured. -विनोदः N. of a medical vocabulary attributed to मदनपाल.
शलाका the female of the cuckoo.
an aphrodisiac.
the female parrot (also मदनसारिका). -संदेशः a message of love.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मदन m. ( ifc. f( आ). )passion , love or the god of love MBh. Ka1v. etc.
मदन m. a kind of embrace L.
मदन m. the season of spring L.
मदन m. a bee L.
मदन m. (?) bees-wax(See. पट्टिका)
मदन m. Vanguiera Spinosa Sus3r.
मदन m. a thorn-apple and various other plants( e.g. Phaseolus Radiatus , Acacia Catechu etc. ) L.
मदन m. a bird L.
मदन m. (in music) a kind of measure Sam2gi1t.
मदन m. (in astrol. ) N. of the 7th mansion Var.
मदन m. N. of various men and authors (also with आचार्य, भट्ट, सरस्वतीetc. ; See. below) Ra1jat. Inscr. Cat.
मदन n. the act of intoxicating or exhilarating MW.
मदन n. ( scil. अस्त्र) , N. of a mythical weapon R. ( v.l. मादन)
मदन n. bees-wax L.
मदन mfn. = मन्द्रNir.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a name of काम, God of Love: also Makaradhvaja (s.v.); फलकम्:F1: भा. XI. 4. 8.फलकम्:/F created by ब्रह्मा when he looked at महालक्ष्मी after praying to जनार्दन; was given the flower dart and the sugarcane bow; Hari blessed him with all con- quest and no defeat; फलकम्:F2: Br. IV. 8. २४-9; ११. 7.फलकम्:/F performed सौभाग्य--शयनम्; फलकम्:F3: M. ६०. ४९.फलकम्:/F at the request of the Devas and persecuted by तारक, Madana took courage and secretly entered शिव's abode; the latter grew angry and burnt him with his third eye; फलकम्:F4: Br. IV. ११. २८.फलकम्:/F remembered by Indra, went to him and was ordered to create sexual desire in शिव; he got frightened at शिव's third eye, but pressed by Indra he agreed to meet the Lord and sent his arrow of Mohana when Siva's third eye burnt him down; Rati wept with Madhu or Spring and both went to शिव; Rati praised him for grace; शिव replied that Madana would attain fame as Ananga in the world sometime hence. फलकम्:F5: M. १५४. २१२-51, २६०-70.फलकम्:/F
(II)--the seventh son of देवकी. M. ४६. १९.