सामग्री पर जाएँ

मदिरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिरा, स्त्री (माद्यतीति । मद् + किरच् । अजादित्वात् टाप् ।) मत्तखञ्जनः । इति शब्दरत्नावली ॥ (यथा, शाकुन्तले । ३ । ५ । “यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति । माद्यत्यनयेति । मद् + “इषि मदीति । उणा० । १ । ५२ । इति किरच् ।) मादकद्रव्यविशेषः । मद् इति भाषा ॥ (यथा, -- “हिक्का-श्वास-प्रतिश्याय-कास वर्च्चोग्रहारुचौ । वम्यानाहविबन्धेषु वातघ्नी मदिरा हिता ॥” इति चरके सूत्रस्थाने १७ अध्यायः ॥ आमैस्तैरेव यः सीधुः स च शीतरसः स्मृतः ॥ सीधुः पक्वरसः श्रेष्ठः स्वराग्निबलवर्णकृत् । वातपित्तकरो हृद्यः स्नेहनो रोचनो हरेत् ॥ विबन्धमेदःशोषार्शःशोफोदरकफामयान् । तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः ॥” अथासवस्य लक्षणं गुणाश्च । “यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः । आसवस्य गुणा ज्ञेया बीजद्रव्यगुणैः समाः ॥” अथ नवपुराणमद्यगुणाः । “मद्यं नवमभिष्यन्दि त्रिदोषजनकं सरम् । अहृद्यं बृंहणं दाहि दुर्गन्धं विशदं गुरु ॥ जीर्णं तदेव रोचिष्णु कृमिश्लेष्मानिलापहम् । हृद्यं सुगन्धि गुणवल्लघुस्रोतोविशोधनम् ॥” अथ सात्विकानां मद्यं पिबतां चेष्टाविशेषाः । सात्विके गीतहास्यादि राजसे साहसादिकम् । तामसे निन्द्यकर्म्माणि निद्राञ्च मदिराचरेत् ॥” आचरेत् कुर्य्यात् । “विधिना मात्रया काले हितैरन्नैर्यथाबलम् । प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा ॥ किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् । अयुक्तियुक्तं रोगाय युक्तियुक्तं यथामृतम् ॥” अथ मद्यगन्धनाशनोपायः । “मुस्तैलबालगदजीरकधान्यकैला- यश्चर्व्वयन् सदसि वाचमभिव्यनक्ति । स्वाभाविकं मुखजमुज्झति पूतिगन्धं गन्धञ्च मद्यलशुनादिभवञ्च नूनम् ॥” इति भावप्रकाशः ॥ अपि च । “प्रकृत्या मद्यमत्युष्णमम्लञ्चोष्णं विपाकतः । सर्व्वसामान्यतस्तस्य विशेष उपदेक्ष्यते ॥ कृशानां सक्तमूत्राणां ग्रहण्यर्शोविकारिणाम् । सुरा प्रशस्ता वातेषु रक्तपित्तक्षयेषु च ॥ प्रसन्ना गुल्मवातार्शोविबन्धानाहनाशिनी । शूलप्रवाहिकाटोपकफवातार्शसां हिता ॥” जगलो ग्राहिरूक्षोष्णः शोथघ्नो भक्तपाचनः । शोथार्शोग्रहणीदोषान् हन्त्यरिष्टः कफामयान् ॥” अरिष्टो मद्यविशेषः ॥ “प्रायशोऽभिनवं मद्यं गुरु दोषलमीरितम् । स्रोतसां शोधनं जीर्णं दीपनं लघु रोचनम् ॥ हर्षणं प्रीणनं बल्यं मद्यं शोकश्रमापहम् । प्रागल् भ्यप्रतिभापुष्टिवीर्य्यतुष्टिस्वरप्रदम् ॥” इति राजवल्लभः ॥ अन्यत् मद्यशब्दे द्रष्टव्यम् ॥ (वसुदेवपत्नी । यथा, श्रीमद्भागवते । ९ । २४ । ४५ । “पौरवी रोहिणी भद्रा मदिरा रोचना इला । देवकीप्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिरा स्त्री।

सुरा

समानार्थक:सुरा,हलिप्रिया,हाला,परिस्रुत्,वरुणात्मजा,गन्धोत्तमा,प्रसन्ना,इरा,कादम्बरी,परिस्रुत्,मदिरा,कश्य,मद्य,वारुणी,मधु,हाल,अनुतर्ष

2।10।40।1।1

मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम्. शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः॥

अवयव : सुराकल्कः,सुरामण्डः

वृत्तिवान् : शौण्डिकः

 : मधुकपुष्पकृतमद्यम्, इक्षुशाकादिजन्यमद्यम्, नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिरा¦ स्त्री मद--करणे किरच्।
“माध्वीकं पानसं द्राक्षंखार्जूरं तालमैक्षवम्। मैरेयं माक्षिकं टाङ्कं मधूकनारिकेलजम्। मुख्यमन्नविकारोत्थं मद्यानि द्वादशैवतु” इत्युक्ते

१ मद्यसामान्ये

२ मत्तखञ्जने शब्दरत्ना॰।

३ रक्तखदिरे पु॰ शब्दच॰। कालभेदे तद्भेदग्राह्यता यथा[Page4728-a+ 38]
“गौडी त शिशिरे पेया पैष्टी हेमन्तवर्षयोः। शरद्-ग्रीष्मवसन्तेषु माध्वी ग्राह्या न चान्यथा। कादम्बरीशर्करजादिमद्यं सुशीतलं वृष्यकर मदात्मम्। माध्वीसमंस्यात् तृणवृक्षजातं मद्यं सुशीतं गुरु तर्पणञ्च। अन्यथाकुरुते पानं मद्यं सन्तापशोपदम्। अन्नदोषमदात्यय-कारकं मूर्च्छनञ्च तत्”।
“पर्य्युषितमल्पमेलनमल्पं वापिच्छिलं विगन्धं वा। दोषावहमविशेषान् मद्यं हृद्यंविवर्जयेत् सर्वम्। मद्यप्रयोगं कुर्वन्ति शूद्रादिषु महार्त्तिषु। द्विजैस्त्रिभिस्तु न ग्राह्यं यद्यप्युज्जीवयेन्मृतम्” राजनि॰। अधिकं मद्यशब्दे दृश्यम्।

४ वसुदेवस्य पत्न्यां हरिवं॰

३६ अ॰।

५ दुर्गायां

१७

८ अ॰।
“सप्तभकारकृतावसितौच गुरुः कविभिः कथिता मदिरा” वृ॰ र॰ टी॰ उक्तेद्वाविंशत्यक्षरपादके

६ छन्दोभेदे स्त्री।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिरा [madirā], 1 Spirituous liquor; काङ्क्षत्यन्यो वदनमदिरां दोहद- च्छद्मनास्याः Me.8 (v. l.); Śi.11.49.

A kind of wagtail.

N. of Durgā.

N of a metre; सप्तभकारकृताबसितौ च गुरुः कविभिः कथिता मदिरा V. Ratna. (com.). -Comp. -उत्कट, -उन्मत्त a. intoxicated with spirituous liquor.-गृहम्, -शाला an ale-house, dram-house, a tavern.-मदान्ध a. dead drunk. -सखः the mango tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिरा f. See. below.

मदिरा f. spirituous liquor , any inebriating drink , wine , nectar Mn. MBh. etc.

मदिरा f. a wagtail ( esp. in the pairing season = मत्त-खञ्जन) L.

मदिरा f. a kind of metre Col.

मदिरा f. N. of दुर्गा, Hariv.

मदिरा f. of the wife of वरुणVP.

मदिरा f. of one of the wives of वसु-देवib. Pur.

मदिरा f. of the mother of कादम्बरीKa1d.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of Vasudeva's wives and mother of Nanda and other sons. भा. IX. २४. ४५, ४८. Br. III. ७१. १६१, १७१-2. वा. ९६. १६०, Vi. IV. १५. १८, २३.
(II)--came out of the churning of the ocean of milk. फलकम्:F1:  M. २५१. 2.फलकम्:/F बलराम indulged in. फलकम्:F2:  Vi. IV. १३. १५७.फलकम्:/F
(III)--an epithet of वारुणि. Vi. V. २५. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MADIRĀ : Wife of Vasudeva, father of Śrī Kṛṣṇa. Vasu- deva had seven wives named Rohiṇī, Bhadramāninī, Madirā, Ilā, Rocanā, Pauravī and Devakī (9th Skandha, Bhāgavata). Of these Devakī, Rohiṇī, and Bhadrā abandoned their lives by jumping into the funeral pyre of Vasudeva. (Śloka 18, Chapter 7, Mausala Parva).


_______________________________
*1st word in left half of page 460 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मदिरा&oldid=503359" इत्यस्माद् प्रतिप्राप्तम्