मदिराक्षी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिराक्षी, स्त्री, (मदिरे इव अक्षिणी यस्याः इति अक्षि + “अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ । इति अच् । स्त्रियां ङीप् ।) मत्तलोचना । यथा, -- “अविदितसुखदुःखं निर्गुणं वस्तु किञ्चि- ज्जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे । मम तु मतमनङ्गस्मेरतारल्यघूर्ण- न्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ॥” इत्युद्भटः ॥ (पुं, विराटराजस्य भ्राता । यथा, महा- भारते । ४ । ३० । ११ -- १२ । सवज्रायसगर्भन्तु कवचं तप्तकाञ्चनम् । विराटस्य प्रियो भ्राता शतानीकोऽभ्यहार- यत् ॥ सर्व्वपारशवं वर्म्म कल्याणपटलं दृढम् । शतानीकादवरजो मदिराक्षोऽभ्यहारयत् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिराक्षी¦ पु॰

१ विरादस्य भ्रातरि भा॰ वि॰

३१ अ॰। मदिरा-मत्तखञ्जनाक्षीवाक्षियस्य षच्समा॰। खञ्जनतुल्यनेत्रे त्रि॰स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिराक्षी¦ f. (-क्षी) A woman, a mistress, a wife. E. मदिरा wine, अक्षि the eye, अच् and ङीष् affs., whose eyes inebriate like wine.

"https://sa.wiktionary.org/w/index.php?title=मदिराक्षी&oldid=318712" इत्यस्माद् प्रतिप्राप्तम्