मद्य

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्यम्, क्ली, (माद्यति जनोऽनेन । मद् + “गदमद- यमश्चानुपसर्गे ।” ३ । १ । १०० । इति करणे यत् ।) सुरा । इत्यमरः । २ । १० । ४० ॥ (यथा, साहित्यदर्पणे । “भिक्षो ! मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना मद्यञ्चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौर्य्येण बा, एतावानपि संग्रहोऽस्ति भवतो नष्टस्य कान्या गतिः ॥”) अस्य गुणपर्य्यायौ मदिराशब्दे द्रष्टव्यौ ॥ * ॥ तत् द्वादशविधं यथा पुलस्त्यः । “पानसं द्राक्षमाधूकं खार्ज्जूरं तालमैक्षवम् । माध्वीकं टाङ्कमाध्वीकं मैरेयं नारिकेलजम् ॥ समानानि विजानीयान्मद्यान्येकादशैव तु । द्वादशस्तु सुरा मद्यं सर्व्वेषामधमं स्मृतम् ॥” अनेन एकादशानां सुरात्वं निषेधयति मद्यशब्दो मदहेतुद्रव्यवचनः । अस्मादेव वचनात् नतु मद्यमात्रं सुराशब्दार्थः । यथा बृहस्पतिः । “गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समा- चरेत् । सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः ॥ यत्रैकः स्मृतिविभ्रंशस्तत्र सर्व्वमसाधु यत् । अयुक्तियुक्तमन्नं हि व्याधये मरणाय वा ॥ मद्यं त्रिवर्गधीधैर्य्यलज्जादेरपि नाशनम् । नाति माद्यन्ति बलिनः कृताहारा महाशनाः ॥ स्निग्धाः सत्त्ववयोयुक्ता मद्यनित्यास्तदन्वयाः । मेदःकफाधिकामन्दवातपित्ता दृढाग्नयः ॥ विपर्य्ययेऽतिमाद्यन्ति विश्रध्वाः कुपिताश्च ये । मद्येन चाम्लरूपेण साजीर्णे बहु नाति च ॥” इति वाभटे निदानस्थाने षष्ठेऽध्याये ॥) एतानि श्रुतिस्मृतिविरुद्धत्वान्मोहनार्थानिशिष्टैः कदाचिदपि नाचरणीयानि ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्य नपुं।

सुरा

समानार्थक:सुरा,हलिप्रिया,हाला,परिस्रुत्,वरुणात्मजा,गन्धोत्तमा,प्रसन्ना,इरा,कादम्बरी,परिस्रुत्,मदिरा,कश्य,मद्य,वारुणी,मधु,हाल,अनुतर्ष

2।10।40।1।3

मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम्. शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः॥

अवयव : सुराकल्कः,सुरामण्डः

वृत्तिवान् : शौण्डिकः

 : मधुकपुष्पकृतमद्यम्, इक्षुशाकादिजन्यमद्यम्, नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्य¦ न॰ माद्यत्यनेन करणे यत्। मदिराशब्दे उक्ते माध्वी-कादिद्वादशविधे मादकद्रव्ये अमरः। मद्यभेदा वर्णभेदेनतत्पाननिषेधादिकं प्रा॰ वि॰ उक्तं यथा
“पुलस्त्यः
“पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम्। माध्वीकं टाङ्कमाध्वीकं मैरेयं नारिकेलजम्। समानानिविजानीयान्मद्याज्येकादशैव तु। द्वादशन्तु सुरामद्यं सर्वे-षामधमं स्मृतम्”। अनेनैकादशानां सुरात्वं निषेधयतिमद्यशब्दस्तु मदहेतुद्रवद्रव्यमात्रवचनः तस्मादेव वचनान्नतु मद्यमात्रं सुराशब्दार्थः। तथा च वृहस्पतिः
“गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत्। तप्तकृच्छ्रं पराकञ्च चान्द्रायणमनुक्रमात्”। त्रयाणांसुरात्वे क्रमेण प्रायश्चित्तं न स्यात्। यथा भविष्ये
“सुरा तु पैष्टी मुख्योक्ता न तस्यास्त्वितरे समे”। पैष्टीतितण्डुलविकारमात्रोपलक्षणम्। इतरे गौडीमाध्व्यौअतोऽन्नविकार एव सुराशब्दस्य मुख्यत्वात् त्रिविधासुरेति गौडीमाध्व्योर्गौणसुरात्वज्ञापनार्थम्। तेनैतत्-पानेऽपि महापातकत्वमतिदिशति
“यथैवैका तथा सर्वेति” पैष्ट्यां पूर्वप्रसिद्धिं दर्शयति यथा पैष्टी सुरा तथा सर्वागौडी माध्वी च पूर्ववचनोक्ता पैष्टीदृष्टान्तत्वेनात्र दर्शितान पातव्या द्विजोत्तमैर्ब्राह्मणैरित्यर्थः। त्रैवर्णिकपरत्वेउत्तसपदानर्थक्यात्। न च बहुवचनानर्थक्यपरिहारार्थम्उत्तमप्रतिपदिकानर्थक्यं युक्तं बहुवचनस्य स्वजातीयोप-स्थापके चरितार्थत्वात्। अतो ब्राह्मणस्य त्रिविधसुरापानंमहापातकं क्षत्रियवैश्ययोस्तु
“सुरा वै सलमन्नानामिति” वचनेन पैष्ट्येवेति स्थितम्। गोविन्दराजविश्वरूपधा-रेश्वराणामनुसतोऽयमर्थः। अतएव
“एव माध्वी चगौटी च पैष्टी च त्रिविघा सरा। द्विजातिभिर्नपातव्या कदाचिदपि कर्हिचिदिति” यमवचनेऽपि द्विजा-[Page4729-a+ 38] तिपदं ब्राह्मणपरमेव। अतएव द्विविधसुरापाने क्षत्रि-यादीनां महापातकं दूरे तावदस्तु दोषाभाबमेवाहवृद्धयाज्ञवल्क्यः
“कामादपि हि राजन्यो वैश्यश्चापिकथञ्चन। मद्यमेवासुरां पीत्वा न दोषं प्रतिपद्यते”। तदेवं पैष्टीनिषेधस्त्रैवर्णिकानां गौडीमाध्वीनिषेधस्तुब्राह्मणानामेव। ननु ब्राह्मणराजन्याविति विशेषणात्पुंलिङ्गमत्र विवक्षितम्। अतः कथं ब्राह्मण्याः सुरापानंमहापातकम्। उच्यते निषिध्यमानक्रियाया विधेयत्वेनतत्कर्त्तुरनुपादेयत्वात्तद्विशेषणं लिङ्गमविवक्षितं हवि-रुभयत्ववत् अतस्तज्जातीयस्त्रीणामपि पाननिषेधः। यथा भविष्ये
“तस्मान्न पेयं विप्रेण सुरामद्यं कथ-ञ्चनन। ब्राह्मण्यापि न पेया वै मुरा पापभयावहा”।
“या ब्राह्मणी सुरापी स्यात् न तां देवाः पतिलोकंनयन्ति” इति श्रुतेः।
“पत्युरर्द्धशरीरेण भार्य्या यस्य सुरांपिबेत्। पतितार्द्धशरीरस्य निष्कृतिनोपपद्यते”। नचैबं क्षत्रियवैश्यस्त्रीणामनिषेधः, ब्राह्मणीपदस्य निषिद्ध-सुरापानकर्त्तुर्भार्य्योपक्षक्षकत्वात् भार्य्या यस्य सुरां पिबे-दिति सामान्यश्रवणात्। पानञ्च द्रवीभूतस्याभ्यव-हारः स च कण्ठदेशादधोनयनं न तु वक्त्रमात्रप्रवेशः। निष्ठीवनाद्यर्थं कपोलधारणे पानशब्दाप्रयोगात्यथोक्तं
“जिघ्रन्नहि सुरां कश्चित् पिवतीत्यभिधीयते। याव{??} क्रियते वक्त्रे गण्डूषस्य प्रवेशनम्”। तत्रगण्डूषपरिमाणमविवक्षितं गण्डूपार्द्धपानेऽपि लोकेपानशब्दप्रयोगात् अतएव मुखप्रवेशनमत्राविवक्षितंकिन्तु येन मुखप्रवेशेन कण्ठादधोनयनं मवति अतस्त-देवोपलक्षयति अतएवोष्ठमात्रलेपे न पाननिष्पतिःअतस्तत्रोत्तमाङ्गस्पर्शप्रायश्चित्तम्। एतेन केवलौष्ठसंयोगेतप्तकृच्छ्रसंस्काराविति वालकस्य व्याख्यानमसङ्गतंपानानिष्पत्तेरिति। ” मद्यमेदगुणादिकं भावप्र॰ उक्तं यथा
“मद्यन्तु सीधुर्मैरयमिरा च मदिरा सुरा। कादम्बरीवारुणी च हालापि बलवल्लभा। पेयं यन्मादकंलोकैस्तन्मद्यमभिधीयते। यथारिष्टं सुरा सीधुरासवाद्य-मनेकथा। मद्यं सर्वं भवेदुष्णं पित्तकृद्वातनाशनम्। भेदनं शीघ्रपाकञ्च रूक्षं कफहरं परम्। अम्लञ्चदीपनं रुच्यं पाचनं चाशुकारि च। तीक्ष्णं सूक्ष्मञ्चविशदं व्ययामि च विकाशि च”। अथारिष्टस्य लक्षणंगुणाथ
“पकोषधाम्बुसिद्धं यस्मद्यं तत्स्यादरिष्टकम्”। [Page4729-b+ 38] अरिष्टं मद्यमिति लोके। यथा द्राक्षारिष्टम्। दशमूलारिष्टम्। वव्वूलारिष्टमिति।
“अरिष्टं लघु-पाकेन सर्वतश्च गुणाधिकम्। अरिष्टस्य गुणा ज्ञेयावीजद्रव्यगुणैः समाः”। अथ सुरालक्षणं गुणाश्च
“शालिषष्टिकपिष्टादिकृतं मद्यं सुरा स्मृता। सुरा-गुर्नी वलस्तन्यपुष्टिमेदःकफप्रदा। शोथहृत् ग्राहिगुल्मार्शोग्रहणीमूत्रकृच्छ्रनुत्”। अथ सुराभेदीवारुणी तस्या लक्षणं गुणाश्च
“पुनर्नवाशिलापिष्टै-र्वारुणी विहिता स्मृता। संहितैस्तालखर्जूररसैर्यासापि वारुणी। सुरावद्वारुणी लघ्वी पीनसाघ्मानशूलनुत्”। सुरातो भेदार्थं लघ्वीति। अथ सीघु-द्वयस्य लक्षणं गुणाश्च
“इक्षोः पक्वैः रसैः सिद्धःसीधुः पक्वरसश्च सः। आमैस्तैरेव यः सीधुः स चशीतरसः स्मृतः। सीधुः पक्वरसः श्रेष्ठः स्वराग्नि-वलवर्णकृत्। वातपित्तकरः सद्यः स्नेहनो रोचनोहरेत्। विवन्धमेदःशीफार्शःशोथोदरकफामयान्। तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः। ” अथासवस्यलक्षणं गुणाश्च
“यदपक्वौषधाम्बुभ्यां सिद्धं मद्यंस आसवः। था लोहासवादिः।
“आसवस्य गुणाज्ञेया वीजद्रव्यगुणैः समाः। ” अथ नवपुराणमद्य-गुणाः।
“मद्यं नवमभिष्यन्दि त्रिदोषजनकं सरम्। अहृद्यं वृंहणन्दाहि दुर्गन्धं विशदं गुरु। जीर्णन्त-देव रोचिष्णु कृमिश्लेष्मानिललापहम्। हृद्यं सुगन्धि-गुणवल्लघु म्लोतोविशोधनम्”। अथ सात्त्विकानां मद्यंपिवतां चेष्टाविशेषाः।
“सात्त्विके गीतहास्यादि राजसेसाहसादिकम्। तामसे निन्द्यकर्माणि निद्राञ्च मदि-राचरेत्”। आचरेत् कुर्य्यात्
“विधिना मात्रया काले हितै-रन्नैर्यथाबलम्। प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतंयथा। किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्। अयुक्तियुक्तं रोगाय युक्तियुक्तं यथामृतम्”। अथमद्यानां गन्धनाशनोपायः।
“सुस्तैलवालमदजीरक-धान्यकैला यश्चर्वयन् सदसि वाचमभिव्यनक्ति। स्वाभा-विकं मुखजमुज्झति पूतिगन्धं गन्धञ्च मद्यलशुनादि-भवञ्च नूनम्। ” ओषधार्थमपि विप्रैर्मद्यं न पेयम्मदिराशब्दे राजनि॰ वाक्यं दर्शितम्। पुराणादौ ब्राह्मणस्य मद्यनिषेधो यथा
“अदेयकाप्यपेयञ्च तथैवास्पृश्यमेव च। द्विजातीना-मनालोच्यं नित्यं मद्यमिति[Page4730-a+ 38] प्रयत्नेन मद्यं नित्यं विवर्जयेत्। पीत्वा पतति कर्मस्थितम्। तस्मात् सर्व-भ्यस्त्वसम्भाष्यो द्विजोत्तमः। भक्षयित्वाप्यभक्ष्याणि पीत्वा-पेयान्यपि द्विजः। नाधिकारी भवेत्तावद्यावत्तन्न जहा-त्यधः। तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः। अपेयानि च विप्रो वै पीत्वा तद्याति रौरवम्। कूर्मपु॰

१६ अ॰।
“द्विजस्य पूजादौ मद्यदानविध्यनुकल्पनिषेधो यथा।
“मदिरां पृष्ठतो दद्यात् अन्यत् पानन्तुवामतः। अवश्यं विहितं यत्र मद्यं तत्र द्विजःपुनः। नारिकेलजलं कांस्ये ताम्रे च विसृजेन्मधु। नापद्यपि द्विजो मद्यं कदाचित् विसृजेदपि। ऋते,पुष्पासवादुक्तात् व्यञ्जनाद्वा विशेषतः। राजपृत्रस्तथामर्त्यः सचिवः सौप्तिकादयः। दद्युर्नरबलिं भूपसम्मत्या विभवाय च। मूपालानुमते मद्यं ददत् पाप-मवाप्नुयात्” कालिका पु॰

६६ अ॰। अथ ब्राह्मणस्यमद्यपाननिषेधकशुक्रशापो यथा
“वैशाम्पायन उवाच। सुरापानाद्वञ्चनां प्राप्य विद्वान् संज्ञानाशं प्राप्य चैवाति-घोरम्। दृष्ट्वा कचञ्चापि तथाभिरूपं पीतं तथा सुरयामोहितेन। समन्युरुत्थाय महानुभावस्तदोशना विप्र-हितं चिकीर्षुः। काव्यः स्वयं वाक्यमिदं जगादसुरापानं प्रति वै जातशङ्कः। यो ब्राह्मणोऽद्यप्रभृतीहकश्चित् मोहात् सुरां पास्यति मन्दबुद्धिः। अपेतधर्मोब्रह्महा चैव स स्यादस्मिं ल्लोके गर्हितः स्यात् परे च। मया चेमां विप्रधर्मोक्तसीमां मर्य्यादां वै स्थापितां सर्व-लोके। सन्तो विप्राः शुश्रुवांसो गुरूणां देवालोका-श्चोपशृण्वन्तु सर्वे” भा॰ आ॰

७६ अ॰।
“नारिकेलञ्चखार्जूरं पानसञ्च तथैव च। ऐक्षवं मधुकं टाङ्कंतालञ्चैव च माक्षिकम्। द्राक्षन्तु दशमं ज्ञेयं गौडंचैकादशं स्मृतम्। पैष्टन्तु द्वादशं प्रोक्तं सर्वेषामधमंस्मृतम्। मध्यमं मधुजं गौडं शेषञ्चोत्तममिष्यते। एतत् द्वादशकं मद्यं न पातव्यं द्विजैः क्वचित्। क्षत्रि-यादिः विवेत् सर्वं पैष्टीमेकन्तु वर्जयेत्। सुरां पीत्वाद्विजो मोहात् कामात् तक्रादिमिश्रिताम्। त्रैवार्षिकंव्रतं कुर्य्यादीषन्मिश्रे तु वार्षिकम्। तक्रादिमिश्रितांकिञ्चित् सुरां पीत्वा ह्यकामतः। कृच्छ्राव्दपाद्यमुच्चर्य्यपुनः संस्कारमर्हति। मुखप्रवेशमात्रे तु प्रायश्चित्तार्द्ध-माचरे{??}। अनुपनीतो देवेशि! व्रतं त्रैवार्षिकं चरेत्। चतुर्थकालाहा{??} स्याद् ब्रह्मचर्य्यमथापि वा। आपञ्च{??} पतं वा ज्ञानादशं विनिर्दिशेत्। शूद्रस्य च[Page4730-b+ 38] विशेषेण अतिकृच्छ्रद्वयं चरेत्। स्वजातिसाधिते तस्मिन्तदर्द्धं व्रतमाचरेत्। पैष्ठीपाने व्राह्मणस्य मरणान्तिक-सुच्यते। माध्वीगौडीसुरापाने द्वादशाब्दं विधी-यते। इतरेषान्तु पानेन शुद्धिश्चान्द्रायणेन तु। राजन्य-वैश्ययोश्चापि गौडी माध्वी न शस्वते। मोहात् क्षात्रश्चवैश्यश्च पीत्वा कृच्छ्रद्वयं चरेत्। शूद्रोऽपि गौडींपैष्टीञ्च न पिवेद्धीनसंस्कृताम्। कामात् पीत्वा सुरांविप्रो मरणान्तिकमाचरेत्। चरेच्चान्द्रायणं ज्ञानात्क्षत्रियो वैश्य एव च। षैष्टीपाने तु शूद्रस्य प्राजा-प्रत्यं विनिर्दिशेत्। ज्ञानादभ्यासयोगे तु चान्द्रायण-त्रयं स्मृतम्। नारिकेलं तथा ज्ञानाद्विप्रश्चान्द्रायणेनतु। क्षत्रियश्चैव वैश्यश्च प्राणायामेन शुध्यति। अपक्वं पानसञ्चैव आम्रञ्च वदरं तथा। स्थापयित्वाघटे नित्यं दद्यादामपयः पलम्। त्रैलौक्यविजयाञ्चैवमातुलङ्गं तथैव च। समेऽहनि ततो दद्यात् सन्धा-नात् सत्त्वमीरितम्। दधि मधु घृतञ्चापि माञ्जिष्ठंतिक्तकं तथा। अनुपाने तु देवेशि! द्राक्षमद्यं सुनि-श्चितम्। विडङ्गं शालयो मूलं समभागेन योजितम्। मधुना सह संस्थाप्य शेषपाकं समाचरेत्। पिप्पलीलवणंदत्त्वा मधुना मद्यमीरितम्। पानसं पक्वखर्जूरमार्द्रंसोमलतारसम्। पकीकृत्याग्निसन्धानात् खार्जूरं मद्यमी-रितम्। पक्वतालं दन्तिशाकं ककुभञ्च तथैव च। एतैरेवसुसन्धानात् तालमद्यं प्रकीर्त्तितम्। इक्षुदण्डं मरीचञ्चबदरञ्च तथा दधि। शेषे तु लवणं दत्त्वा। इक्षुमद्यंप्रकीर्त्तितम्। नवं मधु तथा विल्वं पक्वं शर्करया सह। सन्धानाज्जायते मद्यं माध्वीकं शरतो रसम्। शता-वरी टङ्कमूलं लक्ष्मणं पद्ममेव च। मधुना सह सन्धा-नात् टङ्कमाध्वीकमीरितम्। मालूरमूलं वटरी शर्कराच तथैव च। एषामेकत्र सन्धानात् मैरेयं मद्यमीरि-तम्। इन्द्रजिह्वा पक्व{??}त्री नारिकेलजलन्तथा। कदली-फलसन्धानन्मद्य तन्नारिकेलजम्। दधि त्रैलोक्यविजयातथैव च करीकणा। गुडेव सह सन्धानात् गौडीमद्यंप्रकीर्त्तितम्। शस्कुलीमर्द्धसिद्धान्नमुष्णोदकसमन्विवम्। वह्नौ सन्तापयेत् किञ्चित् स्थापयित्वा दिनद्वयम्। शेपेऽहनि तु संज्ञाप्ते जीवनं तत्र निःक्षिपेत्। शृङ्गवेरमरीचञ्च मातुलङ्गं तथैव च। एतेषामेव सन्धानात्पैष्टीमद्यं प्रकीर्त्तितम्” मत्स्यसूक्ते

१६ पटले।
“सिद्धमन्त्रीभवेद्वीरो न वीरी मद्यपानतः। कलौ तु भारते वर्षे लोका[Page4731-a+ 38] भारतवासिनः। गृहे गृहे सुरां पीत्वा वर्णभ्रष्टा भवन्तिहि” उत्पत्तितन्त्रे

६४ पटले।
“दीव्यवीरमयो भावःकलौ नास्ति कदाचन। केवलं पशुभावेन मन्त्रसिद्धि-र्भवेन्नृणाम्” महानिर्वाणतन्त्रम्।
“न दद्याद् ब्राह्मणोमद्यं महादेव्यै कथञ्चन। वामकामो ब्राह्मणो हि मद्यंमांसं न भक्षयेत्” तन्त्रम्। भैरवतन्त्रे
“नारिकेलोदकंकांस्ये ताम्रे गव्यं तथा मधु। राजन्यवैश्ययोर्देयं नद्विजस्य कदाचन। एवं प्रदानमात्रेण हीनायु-ब्राह्मणो भवेत्”। कलौ मद्यपानादिनिषेधो यथायाज्ञवल्क्यदीपकलिकायां ब्रह्मपु॰
“नराश्वमेधौमद्यञ्च कलौ वर्ज्या द्विजातिभिः” निषेधविषयंस्पष्टयति उशना
“मद्यमदेयमपेयमनिर्ग्राह्यम्”। अनि-र्ग्राह्यमस्वीकार्य्यमिति कल्पतरुः। कालिकापु॰।
“ख-गात्ररुधिरं दत्त्वा आत्महत्यामवाप्नुयात्। मद्यंदत्त्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते”। स्व तिः
“ताम्रे चेक्षुरसो मद्यं पयसा यवचूर्णकम्। गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना”। अतोमद्यप्रतिनिधिदानमपि न युक्तम्” ति॰ त॰ रघु॰। मद्य-तुल्यं यथा
“नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितंमधु। गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना” कर्मलोचनम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्य¦ n. (-द्यं) Wine, vinous or spirituous liquor. f. (-द्या)
1. Intoxicating.
2. Gladdening. E. मद to be intoxicated, (by it), aff. यत् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्य [madya], a. [माद्यत्यनेन करणे यत्]

Intoxicating.

Gladdening, exhilarating. -द्यम् Spirituous liquor, wine, any intoxicating drink; रणक्षितिः शोणितमद्यकुल्या R.7.49; Ms.5.56;9.84;1.89; भिक्षो मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना S. D.525. -Comp. -आक्षेपः addiction to drink.-आमोदः, -गन्धः, -दोहदः the Bakula tree. -कीटः a kind of insect. -कुम्भः a brandy-jar. -द्रुमः a kind of tree (माडवृक्ष). -पः a drunkard, tippler, sot. -पङ्कः mash.

पानम् drinking intoxicating liquor.

any intoxicating drink. -पीत a. intoxicated with drink.-पुष्पा the plant called Dhātakī. -बी(वी)जम् a drug used to cause fermentation, leaven. -भाजनम् a wineglass; so मद्यभाण्डम्. -मण़्डः barm, yeast. -वासिनी the plant called धातकी. -संधानम् distillation of spirit; क्रयं वा विक्रयं वा$पि मद्यसंधानमेव च Śukra.1.33.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्य (for 2. See. p. 779 , col. 1) Nom. P. यतिPa1n2. 7-2 , 98 Sch.

मद्य mf( आ)n. (for 1. See. p. 777 , col. 2) intoxicating. exhilarating , gladdening , lovely RV.

मद्य n. any intoxicating drink , vinous or spiritous liquor , wine Mn. MBh. etc.

मद्य 1. 2.See. pp. 777 and 779.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MADYA : Wine. There is a story in the seventh Skandha of Devī Bhāgavata showing how Madya happened to be an intoxicant. Once Indra sent out the Aśvinīdevas from Devaloka and banned wine to them. They took refuge in Cyavana a great sage. Cyavana conducted a special Yāga and invited the Aśvinīdevas to partake of the Yajñāṁśa. Indra objected to this and Cyavana had to face Indra in a fight. Then Cyavana produced from the sacrificial fire a demon named Mada and he rushed at Indra to kill him. Indra then bowed down before Cyavana and craved for pardon. Cyavana withdrew the demon and tearing him into four pieces put one each in dice, hunting, wine and women. That was how all the four became intoxicating.

In ancient India there were certain social conventions regarding drinking of alcoholic preparations. All those drinks which were intoxicants were not listed as ‘Alcohol’. Wine, honey, toddy, juice of sugarcane, juice of Iruppa and Kuṭampuli, and sweet toddy of palm tree were not considered alcohol. Surā (liquor) chiefly meant Paiṣṭī (liquor made out of rice paste). Drinking of Surā was banned to the three castes, Brāh- maṇa, Kṣatriya and Vaiśya. If they drank Surā they had to perform a penance for a year drinking only water or eat long pepper for a year. To be free from the sin of drinking Surā one should wear dress made of animal hair. Even if one drinks water in a pot in which Surā was taken, one should observe Vrata for seven days. (Chapter 173, Agni Purāṇa).


_______________________________
*14th word in left half of page 460 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मद्य&oldid=434615" इत्यस्माद् पुनः प्राप्तिः