मधुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुः, पुं, (मन् + उ । नस्य धः ।) मधुद्रुमः । मौलगाछ इति भाषा ॥ वसन्तर्त्तुः । (यथा, कुमारसम्भवे । ३ । २७ । “निवेशयामास मधुर्द्विरेफान् नामाक्षराणीव मनोभवस्य ॥”) दैत्यभेदः । (यथा, देवीभागवते । १ । ९ । १५ । “मधुश्च कुपितस्तत्र हरिणा सह संयुगे ॥”) इमं हत्वा विष्णुर्मधुसूदनोऽभूत् ॥ चैत्रमासः । इति मेदिनी । धे, १२ ॥ (यथा, रघुः । ११ । ७ । “रेजतुर्गतिवशात् प्रवर्त्तिनौ भास्करस्य मधुमाधवाविव ॥”) अशोकवृक्षः । इति हेमचन्द्रः । २ । १५३ ॥ यष्टि- मधु । इति शब्दरत्नावली ॥ असुरविशेषः । (यथा, भागवते । ९ । ११ । १४ । “शत्रुघ्नश्च मधोः पुत्त्रं लवणं नाम राक्षसम् । हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥”) स च शत्रुघ्नेन हतः । यस्य नाम्ना मथुरा मधु- पुरीति ख्याता ॥

मधुः, स्त्री, (मन् + उ । नस्य धः ।) जीवन्तीवृक्षः । इत्यमरः । २ । ४ । १४२ ॥

"https://sa.wiktionary.org/w/index.php?title=मधुः&oldid=155798" इत्यस्माद् प्रतिप्राप्तम्