मध्यमा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यमा स्त्री, (मध्यम + टाप् ।) दृष्टरजस्का नारी । कर्णिका । अङ्गुलिमेदः । त्र्यक्षर- च्छन्दः । इति मेदिनी । मे, ५० ॥ हृदयोत्थित- बुद्धियुतनादरूपवर्णः । यथा, अलङ्कारकौस्तुभः ॥ “पश्चात् पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्य- माख्यः ।” स्वीयाद्यन्तर्गतनायिकाभेदः । तस्या लक्षणम् । हिताहितकारिण्यपि प्रियतमे हिताहित- कारिणी या सा । अस्यास्तु व्यवहारानुसारिणी चेष्टा । इति रसमञ्जरी ॥ (जम्बुभेदः । तत्पर्य्यायो यथा, -- “सूक्ष्मकृष्णफलाजम्बुर्दीर्घपत्रा च मध्यमा ॥” इति वैद्यकरत्नमालायाम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यमा स्त्री।

प्रथमप्राप्तरजोयोगा

समानार्थक:मध्यमा,दृष्टरजस्

2।6।8।2।1

कन्या कुमारी गौरी तु नग्निकानागतार्तवा। स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मध्यमा स्त्री।

मध्याङ्गुली

समानार्थक:मध्यमा

2।6।82।2।1

अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी। मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यमा¦ स्त्री मध्य + म।

१ दृष्टरजस्कायां नार्य्याम्

२ तर्जन्य-नामयोरन्तःस्थायामङ्गुलौ,

३ पद्मादीनां कर्णिकायाम्मेदि॰ परादिषु मध्ये

४ हृदयोत्पन्नशब्दभेदे पश्यन्ती-शब्दे

४२

८१ पृ॰ दृश्यम्

५ नायिकाभेदे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यमा f. the womb TBr.

"https://sa.wiktionary.org/w/index.php?title=मध्यमा&oldid=321950" इत्यस्माद् प्रतिप्राप्तम्