मनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनः, पुं, (मन्यते सुरभित्वादिगुणेन आद्रियत इति । मन् + घः ।) जटामांसी । इति शब्द- चन्द्रिका ॥

मनः, [स्] क्ली, (मन्यते बुध्यतेऽनेनेति । मन् + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।) लिङ्गशरीरावयवविशेषः । यथा । सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरी- राणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धि- मनसी कर्म्मन्द्रियपञ्चकं वायुपञ्चकञ्चेति । मनो नाम सङ्कल्पविकल्पात्मिका अन्तःकरणवृत्तिः । मनस्तु कर्म्मोन्द्रियैः सहितं सत् मनोमयकोशो भवति । इति वेदान्तसारः ॥ ज्ञानेन्द्रियविशेषः । तत्तु बुद्धीन्द्रियाणां षण्णां प्रधानं श्रीकृष्ण- विभूतिश्च । यथा, -- “इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥” इति भगवद्गीता ॥ तच्च गभस्थस्य सप्तमे मासि जायते । इति सुखबोधः ॥ (“पञ्चमे मनः प्रतिबुद्धतरं भवति ।” इति सुश्रुते शारीरस्थाने तृतीयेऽध्याये ॥ * ॥) तत्पर्य्यायः । चित्तम् २ चेतः ३ हृदयम् ४ अलीकवचनं मिथ्याकथनं अटनं पृथ्वीपरि- भ्रमणम् ॥ अथ तमोगुणयुक्तस्य मनसो गुणा यथा, -- “नास्तिक्यं सुविषन्नतातिशयितालस्यञ्च दुष्टा मतिः प्रातिर्निन्दितकर्म्मशर्म्मणि सदा निद्रालुताह- र्न्निशम् । अज्ञानं किल सर्व्वतोऽपि सततं क्रोधान्धता मूढता प्रख्याता हि तमोगुणेन सहितस्यैते गुणा- श्चेतसः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ * ॥ सर्व्वे सान्ता अदन्ताश्चेति प्रमाणात् अका- रान्त मनशब्दोऽप्यस्ति । यथा, उत्तरगीता- याम् । १३ । अध्याये । “मनस्थं मनमध्यस्थं मध्यस्थं मनवर्ज्जितम् । मनसा मनमालोक्य स्वयं सिद्ध्यन्ति योगिनः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनः in comp. for मनस्.

"https://sa.wiktionary.org/w/index.php?title=मनः&oldid=322790" इत्यस्माद् प्रतिप्राप्तम्