मनीषी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनीषी, [न्] पुं, (मनीषा अस्त्यस्येति । मनीषा + व्रीह्यादित्वात् इनिः ।) पण्डितः । इत्यमरः । २ । ७ । ५ ॥ (यथा च मनौ । १ । १७ । “यन्मूर्त्त्यवयवाः सूक्ष्मास्तस्येमान्याश्रयन्ति षट् । तस्माच्छरीरमित्याहुस्तस्य मूर्त्तिं मनीषिणः ॥”) बुद्धियुक्ते, त्रि ॥ (यथा, ऋग्वेदे । १ । १६४ । ४५ । “चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ॥” “मनीषिणो मेधाविनः ।” इति तद्भाष्ये सायनः ॥)

"https://sa.wiktionary.org/w/index.php?title=मनीषी&oldid=503381" इत्यस्माद् प्रतिप्राप्तम्