मन्त्रिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्री, [न्] पुं, (मन्त्रो गुप्तभाषणमस्यास्ति । मन्त्र + इनिः । यद्बा, मन्त्रयते इति । मन्त्र + “नन्दिग्रहीति ।” ३ । १ । १३४ । इति णिनिः ।) मन्त्रजातकर्त्तव्यनिश्चयकर्त्ता । तत्पर्य्यायः । धीसचिवः २ अमात्यः ३ । इत्यमरः । २ । ८ । ४ ॥ सचिवः ४ धीसखः ५ सामवायिकः ६ । इति हेमचन्द्रः । ३ । ३८३ ॥ तस्य लक्षणं यथा, -- “मन्त्री भक्तः शुचिः शूरोऽनुकृतो बुद्धिमान् क्षमी । आन्वीक्षिक्यादिकुशलः परिच्छेदी सुदेशजः ॥” इति कविकल्पलता ॥ “बहुभिर्म्मन्त्रयेत् कामं राजा मन्त्रं पृथक् पृथक् । मन्त्रिणामपि नो कुर्य्यान्मन्त्री मन्त्रप्रकाशनम् ॥ न क्वचित् कस्य विश्वासो भवतीह सदा नृणाम् । निश्चयश्च सदा मन्त्रे कार्य्य एकेन सूरिणा ॥ भवेद्वा निश्वयावाप्तिः परबुद्ध्यनुजीवनात् । एकस्यैव महीभर्त्तुर्भूयः कार्य्यो विनिश्चयः ॥” इति मत्स्यपुराणे १८९ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रिन् पुं।

मन्त्री

समानार्थक:मन्त्रिन्,धीसचिव,अमात्य,अमात्य,सचिव

2।8।4।2।1

राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात्. मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः॥

स्वामी : राजा

सेवक : सहायकारिः,प्रधानोद्योगस्थाः

 : सहायकारिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रिन्¦ पु॰ मन्त्रयते णिनि। धीसचिवे येन सह रहसिकर्त्तव्यमवसीयते तस्मिन् अमात्ये अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रिन्¦ m. (-न्त्री) A counsellor or adviser, a king's counsellor, a minister. E. मत्रि to advise, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रिन् [mantrin], a. [मन्त्रयते मन्त्र् णिनि]

Wise, clever in counsel.

Familiar with sacred texts or spells.

Ved. Eloquent. -m.

A minister, counsellor, a king's minister; अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः R.8. 17; Ms.8.1.

A conjurer, an enchanter.

(In chess) The queen.

(In astrol.) The 12th mansion.-Comp. -धुर a. able to bear the burden of a minister's office; सुसंवृतो मन्त्रिधुरैरमात्यैः शास्त्रकोविदैः Rām.2.1.16. -पतिः, -प्रधानः, -प्रमुखः, -मुख्यः, -वरः, -श्रेष्ठः the prime minister, premier. -परिषद् a council of ministers; इन्द्रस्य हि मन्त्रिपरिषद् ऋषीणां सहस्रम् Kau. A.1.15.-प्रकाण्डः an excellent or eminent minister. -श्रोत्रियः a minister conversant with the Vedas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रिन् mfn. wise or eloquent VS.

मन्त्रिन् m. " knowing sacred texts or spells " , a conjurer , enchanter Bhartr2.

मन्त्रिन् m. a king's counsellor , minister Mn. MBh. etc.

मन्त्रिन् m. (in chess) the queen Pan5cad.

मन्त्रिन् m. (in astrol. ) the 12th mansion VarYogay.

मन्त्रिन् See. p.786.

"https://sa.wiktionary.org/w/index.php?title=मन्त्रिन्&oldid=503393" इत्यस्माद् प्रतिप्राप्तम्