मन्त्री
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मन्त्री, [न्] पुं, (मन्त्रो गुप्तभाषणमस्यास्ति । मन्त्र + इनिः । यद्बा, मन्त्रयते इति । मन्त्र + “नन्दिग्रहीति ।” ३ । १ । १३४ । इति णिनिः ।) मन्त्रजातकर्त्तव्यनिश्चयकर्त्ता । तत्पर्य्यायः । धीसचिवः २ अमात्यः ३ । इत्यमरः । २ । ८ । ४ ॥ सचिवः ४ धीसखः ५ सामवायिकः ६ । इति हेमचन्द्रः । ३ । ३८३ ॥ तस्य लक्षणं यथा, -- “मन्त्री भक्तः शुचिः शूरोऽनुकृतो बुद्धिमान् क्षमी । आन्वीक्षिक्यादिकुशलः परिच्छेदी सुदेशजः ॥” इति कविकल्पलता ॥ “बहुभिर्म्मन्त्रयेत् कामं राजा मन्त्रं पृथक् पृथक् । मन्त्रिणामपि नो कुर्य्यान्मन्त्री मन्त्रप्रकाशनम् ॥ न क्वचित् कस्य विश्वासो भवतीह सदा नृणाम् । निश्चयश्च सदा मन्त्रे कार्य्य एकेन सूरिणा ॥ भवेद्वा निश्वयावाप्तिः परबुद्ध्यनुजीवनात् । एकस्यैव महीभर्त्तुर्भूयः कार्य्यो विनिश्चयः ॥” इति मत्स्यपुराणे १८९ अध्यायः ॥