मन्दा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दा, स्त्री, (मन्द + स्त्रियां टाप् ।) संक्रान्ति- विशेषः । सा उत्तरफल्गुन्युत्तराषाढोत्तरभाद्र- पदारोहिणीनक्षत्रेषु रविसंक्रान्तिश्चेत्तदा भवति । तस्याः सन्निहितदण्डत्रयस्य पुण्य- तमत्वम् । यथा, -- “मन्दा मन्दाकिनी ध्मांक्षी घोरा चैव महो- दरी । राक्षसी मिश्रिता प्रोक्ता संक्रान्तिः सप्तधा नृप ! ॥ मन्दा ध्रुवेषु विज्ञेया मृदौ मन्दाकिनी तथा । क्षिप्रे ध्मांक्षीं विजानीयादुग्रे घोरा प्रकीर्त्तिता ॥ चरैर्म्महोदरी ज्ञेया क्रूरैरृक्षैस्तु राक्षसी । मिश्रिता चैव विज्ञेया मिश्रैरृक्षैस्तु संक्रमः ॥” इत्येतैर्द्वादशस्वेव संक्रान्तिषु ध्रुवादिनक्षत्र- योगात् मन्दादिरूपतया सप्तधा भिन्नासु त्रिचतुःपञ्चसप्ताष्टनवद्बादश एव च । क्रमेण घटिका ह्येतास्तत् पुण्यं पारमार्थिकमिति देवीपुराण एव त्रिचतुरादिघटिकानां पुण्यत्व- मुक्तम् । इति तिथ्यादितत्त्वम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दा f. a pot , vessel , inkstand L.

"https://sa.wiktionary.org/w/index.php?title=मन्दा&oldid=326849" इत्यस्माद् प्रतिप्राप्तम्