मन्दिर

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दिरम्, क्ली, (मन्द्यते सुप्यतेऽत्र मन्द्यते स्तूयते इति वा । मदि ङ स्वपने स्तुतौ + “इषि मदिमुदीति ।” उणा० १ । १५२ । इति किरच् ।) गृहम् । इत्यमरः । २ । २ । ५ ॥ “मन्द्यते सुप्यतेऽत्र मन्दिरम् । मदि ङ स्वपने जाड्ये मदे मोदे स्तुतौ गतौ नाम्नीति इरः । नगरं मन्दिरं पुरमिति पुंनपुंसकयोररुणेन पठ्यते । स्त्रियां मन्दिरा च प्रयोगश्च मन्दिरायास्त्वरावानिति मधुमुकुटादयः ।” इति तट्टीकायां भरतः ॥ * ॥ अथ भगवन्मन्दिरनिर्म्माणमाहात्म्यम् । “यः कारयेन्मन्दिरं केशवस्य पुण्या~ल्लोकान् स जयेच्छाश्वतान् वै । दत्त्वावासान् पुष्पफलाभिपन्नान् भोगान् भुङ्क्ते कामतः श्लाघनीयान् ॥ आसप्तमं पितृकुलं तथा मातृकुलं नरः । तारयेदात्मना सार्द्धं विष्णोर्म्मन्दिरकारकः ॥ इमाश्च पितरो दैत्यगाथा गायन्ति योगिनः । पुरतो यदुसिंहस्य ह्यनघस्य तपस्विनः ॥ अपि नः स्वकुले कश्चिद्विष्णुभक्तो भविष्यति । हरिमन्दिरकर्त्ता यो भविष्यति शुचिव्रतः ॥” इति वामने शेषाध्यायः ॥ * ॥ अपि च । अग्निपुराणे । “ये ध्यायन्ति सदा बुद्ध्या करिष्यामो हरे- र्गृहम् । तेषां विलीयते पापं पूर्ब्बजन्मशतोद्भवम् ॥” किञ्च । “समतीतं भविष्यञ्च कुलानामयुतं नरः । विष्णुलोकं नयत्याशु कारयेद्वा हरेर्गृहम् ॥” किञ्च । “लक्षेणाथ सहस्रेण शतेनार्द्धेन वा हरेः । तुल्यं फलं समाख्यातमिहेश्वरदरिद्रयोः ॥” विष्णुधर्म्मोत्तरे तृतीयकाण्डे । “कृत्वा वासगृहं तस्य देवस्य परमेष्ठिनः । राजसूयाश्वमेधानां फलेन सह युज्यते ॥ प्रासादे मृण्मये पुण्यं मयैतत् कथितं द्विजाः । तस्माद्दारुमये पुण्यं कृते शतगुणं भवेत् ॥ ततो दशगुणं पुण्यं तथा शैलमये भवेत् । ततो दशगुणं लौहे ताम्रे शतगुणं ततः ॥ सहस्रगुणितं रौप्ये तस्मात् फलमपाश्नुते । ततः शतसहस्रं वै सौवर्णे द्बिजसत्तमाः ॥ अनन्तं फलमाप्नोति रत्नचित्रे मनोहरे ॥” स्कान्दे । “आरम्भे कृष्णधिष्ण्यस्य सप्तजन्मनि यत् कृतम् । पापं विलयमाप्नोति नरकादुद्धरेत् पितॄन् ॥ प्रासादपादे कृष्णस्य यावत्तिष्ठन्ति रेणुकाः । उत्तरेण नलैस्तालैः शुभा स्यात् पुष्पवाटिका सर्व्वतस्तु जलं श्रेष्ठं स्थिरमस्थिरमेव च ॥ सर्व्वतश्चापि कर्त्तव्यं परिखाबलयादिकम् । याम्ये तपोवनस्थानमुत्तरे मातृकागृहम् ॥ महानसं तथाग्नेये नैरृते तु विनायकः । वारुणे श्रीनिवासश्च वायव्ये ग्रहमालिका ॥ उत्तरे यज्ञशाला तु निर्म्माल्यस्थानमुत्तरे । वारुणे सोमदैवत्ये बलिनिर्व्वपणं स्मृतम् ॥ पुरतो गरुडस्थानं तथान्येषां यथोचितम् । एवमायतनं कुर्य्या च्छुभमण्डपसंयुतम् ॥ घण्टावितानकसतोरणचित्रयुक्तं नित्योत्सवप्रमुदितेन जनेन सार्द्धम् । यः कारयेत् सुरगृहं विविधध्वजाढ्यं श्रीस्तं न मुञ्चति सदा दिवि पूज्यते च ॥” अथ जीर्णोद्धारः । विष्णुधर्म्मे तृतीयकाण्डे । “यस्य राज्ञस्तु विषये देववेश्म विशीर्य्यते । तस्य सीदति तद्राज्यं देववेश्म यथा तथा ॥ कृत्वा जीर्णस्य संस्कारं तथा देवेशवेश्मनः । द्विगुणं फलमाप्नोति नात्र कार्य्या विचारणा ॥” विष्णुरहस्ये । “पतितस्य च यः कर्त्ता पतमानस्य रक्षिता । विष्णोरायतनस्येह स नरो विष्णुलोकभाक् ॥” अग्निपुराणे । “पतितं पतमानन्तु तथार्द्धस्फुटितं नरः । समुद्धृत्य हरेर्धाम द्विगुणं फलमाप्नुयात् ॥” देवीपुराणे । “मूलाच्छतगुणं पुण्यं प्राप्नुयाज्जीर्णकारकः । तस्मात् सर्व्वप्रयत्नेन जीर्णस्योद्धारमाचरेत् ॥” हयशीर्षपञ्चरात्रे । “वापीकूपतडागानां सुरधाम्नां तथानघ ! । प्रतिमानां सभानाञ्च संस्कर्त्ता यो नरो भुवि । पुण्यं शतगुणं तस्य भवेन्मूलान्न संशयः ॥ प्रतिष्ठाया विधिः कार्य्यस्तथा मन्दिरनिर्म्मिते । प्रायः श्रीहयशीर्षोक्तेरनुसारेण वैष्णवैः ॥ देवालयप्रतिष्ठा च ख्याता तल्लिखनेन किम् । श्रीमूर्त्तिस्थापनेनैव संपूर्णा सा विशेषतः ॥” इति श्रीहरिभक्तिविलासे २० विलासः ॥

मन्दिरम्, क्ली, पुं, (मन्दन्ते मोदन्ते लोका यत्र । मदि + “इषिमदिमुदीति ।” उणा० १ । ५२ । इति किरच् ।) नगरम् । इति मेदिनी । रे, १९७ ॥ पुंलिङ्गोऽप्ययं शब्दः । यथा । नगरं मन्दिरं पुरमिति पुंनपुंसकयोररुणेन पठ्यते । इत्य- मरटीकायां भरतः ॥ (अश्वजानुपश्चिमभागः । यथा, अश्ववैद्यके । २ । २१ । “अधरे च ततो जानु निर्द्दिष्टं शास्त्रकोविदैः । मन्दिरं पश्चिमो भागः कलाची जानुनोऽग्रिमः ॥”)

मन्दिरः, पुं, (मदि + किरच् ।) समुद्रः । इति मेदिनी । रे, १९७ ॥ जानुपश्चाद्भागः । इति हेमचन्द्रः । ३ । २७८ ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दिर नपुं।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

2।2।5।1।6

निशान्तवस्त्यसदनं भवनागारमन्दिरम्. गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः॥

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

मन्दिर नपुं।

नगरम्

समानार्थक:पुर्,पुरी,नगरी,पत्तन,पुटभेदन,स्थानीय,निगम,भोगवती,पुर,मन्दिर

3।3।184।2।1

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्. मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे॥

अवयव : मूलनगरादन्यनगरम्,नगरद्वारम्

 : कुबेरपुरी, मूलनगरादन्यनगरम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दिर¦ न॰ मन्द्यतेऽत्र मदि--किरच्।

१ गृहे

२ पुरे च अमरःतस्य द्विलिङ्गत्वमित्येके।

३ समुद्रे मेदि॰

४ जानुपश्चाद्भागेच पु॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दिर¦ nf. (-र-रा) A house. n. (-रं)
1. A town.
2. A temple. m. (-रः)
1. The sea.
2. The back of the knee, the ham.
3. One of the Gan- dharbas. f. (-रा) A stable. E. मदि to sleep, &c. Una4di aff. किरच् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दिरम् [mandiram], [मन्द्यते$त्र मन्द् किरच्] A dwelling house, habitation, place, mansion; प्रावेशयन्मन्दिरमृद्धमेनम् Ku.7. 55; Bk.8.96; R.12.83; मणिमयमन्दिरमध्ये पश्यति पिपीलिका छिद्रम् Subhāṣ.

An abode, a dwelling in general; as in क्षीराब्धिमन्दिरः.

A town; विनिक्षिप्य बलं सर्वं बहिरन्तश्च मन्दिरे Rām.6.12.3.

A camp.

A temple.

The body.

रः The sea.

The hollow of the knee, ham. -Comp. -पशुः a cat. -मणिः an epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दिर n. any waiting or abiding-place , habitation , dwelling , house , palace , temple , town , camp etc. ( ifc. dwelling in) MBh. Ka1v. etc.

मन्दिर n. a stable for horses L. (See. मन्दुरा)

मन्दिर n. the body L.

मन्दिर m. the sea L.

मन्दिर m. the hollow or back of the knee L.

मन्दिर m. N. of a गन्धर्वL.

"https://sa.wiktionary.org/w/index.php?title=मन्दिर&oldid=503398" इत्यस्माद् पुनः प्राप्तिः