मरक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मरकः, पुं, (म्रियन्ते जना यस्मात् । मृ + अपादाने अप् । ततः स्वार्थे संज्ञायां वा कन् । यद्वा, मृ + भावे अप् । मरो मरणमिति शब्देन कायति शब्दायते इति । कै + कः ।) मारिः । इति हेमचन्द्रः । २ । २३९ ॥ मडक इति भाषा । तत्पर्य्यायः । मारी २ मारकः ३ । इति जटा- धरः ॥ (यथा, कामन्दकीयनीतिसारे । १३ । २० । “हुताशनो जलं व्याधिर्दुर्भिक्षो मरकस्तथा । इति पञ्चविधं दैवं व्यसनं मानुषं परम् ॥”) तस्य कारणादि यथा, -- “यावन्मार्त्तण्डसूनुर्गवि धनुषि झसे मन्मथे वास्ति नार्य्यां तावद्दुर्भिक्षपीडा भवति च मरकं संशयं यान्ति लोकाः । हाहाकारा तथोर्व्वी मनुजभयकरी फेरुरावैश्च भीमैः शून्यग्रामा भवेयुर्नरपतिरहिता भूरिकङ्काल- माला ॥ वक्रं करोति रविजो धरणीसुतो वा मूलर्क्षहस्तमघरेवतिमैत्रभेषु । छत्रोपभङ्गपतनानि च सैनिकानां सर्व्वत्र लोकमरणं जलधौतदेशः ॥ मांसास्थीनि समादाय श्मशानाद्गृध्रवायसाः । श्वा शृगालोऽथवा मध्ये पुरस्य प्रविशन्ति चेत् ॥ विकिरन्ति गृहादौ च श्मशानं सा मही भवेत् । चौरेण हन्यते लोकः परचक्रसमागमः ॥ संग्रामश्च महाघोरो दुर्भिक्षं मरकस्तथा । अद्भुतानि प्रसूयन्ते तस्य देशस्य विद्रवः ॥” इति ज्योतिस्तत्त्वम् ॥ अपि च । “सार्च्चिष्यग्निभयं गैरिकरूपे च युद्धानि । दूर्व्वाकाण्डश्यामे हारिद्रे चापि निर्द्दिशेन् मरकम् ॥” इति ग्रहणप्रकरणे तिथ्यादितत्त्वम् ॥ अन्यदपि । “रवाविन्दौ गजारूढा शन्यङ्गारे तुरङ्गमे । नौकया गुरुशुक्राभ्यां दोलया बुधवासरे ॥ गजे च जलदा देवी छत्रभङ्गस्तुरङ्गमे । नौकायां शस्यवृद्धिः स्यात् दोलायां मरकं भवेत् ॥” इति पत्रिकाप्रवेशफलकथने ज्योतिषम् ॥ * ॥ अस्य शान्तिः । देवीमाहात्म्यपाठः । वटुक- भैरवस्तवपाठः । तुलस्या विष्णुपूजनञ्च । यथा, “उपसर्गानशेषांस्तु महामारीसमुद्भवान् । तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥” इति मार्कण्डेयपुराणम् ॥ “मारीभये राजभये तथा चौराग्निजे भये । औत्पातिके महाघोरे तथा दुःस्वप्नदर्शने । बन्धने च तथा घोरे पठेत् स्तोत्रं समाहितः ॥” इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पः ॥ “ग्रहयज्ञैः शान्तिकैश्च किं क्लिश्यन्ति नरा द्विज ! ॥ महाशान्तिकरः श्रीमांस्तुलस्या पूजितो हरिः ॥ उत्पातान् दारुणान् पुंसां दुर्निमित्तान्यशेषतः । तुलस्या पूजितो भक्त्या महाशान्तिकरो हरिः ॥” अत्र ब्रह्मपुराणीयो मन्त्रः । “ओ~ नमस्ते बहुरूपाय विष्णवे परमात्मने स्वाहेति ।” इति ज्योतिस्तत्त्वम् ॥ (जातिविशेषः । यथा, मार्कण्डेये । ५८ । ५१ । “दार्व्वादा मरकाश्चैव कुरटाश्चान्नदारकाः । एकपादाः खशा घोषाः स्वर्गभौजानव- द्यकाः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मरक¦ पु॰ मृ--वुन्।
१ दैविकभौतिकोपद्रवष्यन्थे प्राणिनामकालमरणे (मडक)
२ मारिभवे हेमच॰। [Page4737-a+ 38]
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मरक¦ m. (-कः) Epidemic or pestilential disease. E. मृ to die, वुन् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मरकः [marakḥ], [मृ-वुन्] A plague, murrain, pestilential disease, an epidemic.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मरक m. an epidemic , plague , mortality Var. Sus3r.
मरक m. pl. N. of a people Ma1rkP.