मरिच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरिचम्, क्ली, (म्रियते नश्यति श्लेष्मादिकमनेनेति । मृ + बाहुलकात् इचः ।) कक्कोलकम् । स्वनामख्यात- वर्त्तुलाकारकटुद्रव्यविशेषः । तत्पर्य्यायः । पवि- तम् २ श्यामम् ३ कोलम् ४ वल्लीजम् ५ ऊष- णम् ६ यवनेष्टम् ७ वृत्तफलम् ८ शाकाङ्गम् ९ धर्म्मपत्तनम् १० कटुकम् ११ शिरोवृत्तम् १२ वीरम् १३ कफविरोधि १४ मृषम् १५ सर्व्व- हितम् १६ कृष्णम् १७ वेल्लजम् १८ । (यथा, सुश्रुते सूत्रस्थाने ३८ अध्याये । “पिप्पलीमरिचशृङ्गवेराणि त्रिकटुकम् ॥”) अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । लघुत्वम् । श्लेष्मविनाशनत्वम् । समीरकृमि- हृद्रोगहरत्वम् । रुचिकारकत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “मरिचं वेल्लजं कृष्णमूषणं धर्म्मपत्तनम् । मरिचं कटुकं तीक्ष्णं दीपनं कफवातजित् ॥ उष्णं पित्तहरं रूक्षं श्वासशूलकृमीन् हरेत् । तदार्द्रं मधुरं पाके नात्युष्णं कटुकं गुरु ॥ किञ्चित्तीक्ष्णगुणं श्लेष्मप्रसेकि स्यादपित्तलम् ॥” इति भावप्रकाशः ॥ (अपि च । “स्वादुपाक्यार्द्रमरिचं गुरुश्लेष्मप्रसेकि च । कटूष्णं लघु तच्छुष्कमवृष्यं कफवातजित् ॥ नात्युष्णं नातिशीतञ्च वीर्य्यतो मरिचं सितम् । गुणवन्मरिचेभ्यश्च चक्षुष्यञ्च विशेषतः ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

मरिचः, पुं, (म्रियते नश्यतीति । मृ + इचः ।) मरुवकवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरि(री)च¦ पु॰ मृ--इच--पृ॰ वा दीर्घः।

१ स्वनामख्याते वृक्षेअमरः।

२ कक्कोलके राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरिच¦ n. (-चं) Pepper. E. मृ to die, (venom,) and इच् aff.; considered as an antidote; also मरीच |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरिच m. the pepper shrub R. Var. Sus3r.

मरिच m. a kind of Ocimum L.

मरिच m. Strychnos Potatorum L. ( v.l. मरीच)

मरिच m. N. of a man Ra1jat.

मरिच n. black pepper Sus3r.

मरिच n. a partic. fragrant substance(= कक्कोलक) L.

"https://sa.wiktionary.org/w/index.php?title=मरिच&oldid=328682" इत्यस्माद् प्रतिप्राप्तम्