सामग्री पर जाएँ

मरीचम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरीचम्, क्ली, (मृ + बाहुलकात् ईचः ।) स्वनाम- ख्यातकटुद्रव्यविशेषः । तत्पर्य्यायः । वेल्लजम् २ कोलकम् ३ कृष्णम् ४ ऊषणम् ५ धर्म्मपत्तनम् ६ । इत्यमरः । २ । ९ । ३६ ॥ मरिचम् ७ श्यामम् ८ वरिष्ठम् ९ । इति जटाधरः ॥ आर्द्रस्य तस्य गुणाः । पाके स्वादुत्वम् । गुरुत्वम् । श्लेष्म- प्रसेकित्वञ्च । शुष्कस्य तस्य गुणाः । रुच्यत्वम् । अग्निदत्वम् । रूक्षत्वम् । कटुत्वम् । उष्णत्वम् । लघुत्वम् । शुक्रनाशित्वञ्च । इति राजवल्लभः ॥ अन्यत् मरिचशब्दे द्रष्टत्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=मरीचम्&oldid=156376" इत्यस्माद् प्रतिप्राप्तम्