सामग्री पर जाएँ

मरुत्वान्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुत्वान्, [त्] पुं, (मरुतो देवाः पालनीयत्वेन सन्त्यस्य इति । मरुत् + “मध्वादिभ्यश्च ।” ४ । २ । ८६ । इति मतुप् मस्य वः । संज्ञायां प्रत्यय- वकारे परे न तस्य दः ।) इन्द्रः । इत्यमरः । १ । १ । ४४ ॥ (यथा, रघौ । ३ । ४ । “दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः ॥” धर्म्मपुत्त्रदेवगणभेदः । यथा, महाभारते । १२ । २०७ । २३ । “धर्म्मस्य वसवः पुत्त्रा रुद्राश्चामिततेजसः । विश्वे देवाश्च साध्याश्च मरुत्वन्तश्च भारत ! ॥” मरुज्जनकत्वेनास्त्यस्येति । मतुप् । मस्य वः ।) हनूमान् । इति शब्दरत्नावली ॥ (वायु- विशिष्टे, त्रि । सर्व्वोदाहरणं यथा, भट्टौ । १० । २९ । “बभौ मरुत्वान् विकृतः समुद्रो बभौ मरुत्वान् विकृतः समुद्रः । बभौ मरुत्वान् विकृतः समुद्रो बभौ मरुत्वान् विकृतः समुद्रः ॥” स्त्री, दक्षस्य प्रचेतसः कन्या । सैव धर्म्मस्य पत्नी । यथा, भागवते । ६ । ६ । ४ । “भानुर्लम्बाककुद्यामिर्विश्वा साध्या मरुत्वती । वसुर्मुहूर्त्ता संकल्पा धर्म्मपत्न्यः सुतान् शृणु ॥”)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MARUTVĀN : See under MARUTVATĪ.


_______________________________
*1st word in right half of page 491 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मरुत्वान्&oldid=434806" इत्यस्माद् प्रतिप्राप्तम्