मरुव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुवः, पुं, (मरुं निर्ज्जलदेशं वाति प्राप्नोतीति । वा + कः ।) वृक्षविशेषः । मरुया इति नाग- दाना इति च भाषा ॥ तत्पर्य्यायः । खरपत्रः २ गन्धपत्रः ३ फणिज्झकः ४ बहुवीर्य्यः ५ शीतलकः ६ सुराह्वः ७ समीरणः ८ जम्बीरः ९ प्रस्थकुसुमः १० मरुवकः ११ आजन्मसुरभि- पत्रः १२ मरिचः १३ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कृमिकुष्ठविड्बन्धाध्मान- शूलमान्द्यत्वग्दोषनाशित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “मरुत्तको मरुवको मरुन्मरुरपि स्मृतः । फणी फणिज्झकश्चापि प्रस्थपुष्पः समीरणः ॥ मरुदग्निप्रदो हृद्यस्तिक्तोष्णः पित्तलो लघुः । बृश्चिकादिविषश्लेष्मवातकुष्ठकृमिप्रणुत् । कटुपाकरसो रुच्यस्तिक्तो रूक्षः सुगन्धिकः ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुव¦ पु॰ मरुं निर्जलदेशं वाति कारणत्वेन वा क। (नाग-दाना) (मरुआ) वृक्षभेदे। स्वार्थे क। तत्र वृ{??}क्षभेदे(मयना) स्वल्पपत्रतुलस्याम् अमरः। त्तम्बीरभेदे भरतःपुष्पप्रधाने (मरुयाफुल) वृक्षभेदे रत्नमा॰ व्याक्रे, राहौभयानके च जटा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुव m. marjoram L.

"https://sa.wiktionary.org/w/index.php?title=मरुव&oldid=329375" इत्यस्माद् प्रतिप्राप्तम्