मल्लिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लिका, स्त्री, (मल्लिरेवेति । मल्लि + स्वार्थे कन् । स्त्रियां टाप् । यद्बा, मल्लिर्हंस इव शुक्ल- त्वात् । मल्लि + इवार्थे कन् ।) स्वनामख्यात- पुष्पवृक्षः । वेलफुल इति भाषा ॥ (यथा, काव्यादर्शे । २ । “मल्लिकामुकुले चण्डि ! भाति गुञ्जन्मधुव्रतः । प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥”) तत्पर्य्यायः । तृणशून्यम् २ भूपदी ३ शतभीरुः ४ । इत्यमरः । २ । ४ । ६९ ॥ तृणशून्या ५ शीतभीरुः ६ । इति भरतः ॥ भद्रवल्ली ७ गौरी ८ वनचन्द्रिका ९ प्रिया १० सौम्या ११ नारीष्टा १२ गिरिजा १३ सिता १४ मल्ली १५ मदयन्ती १६ चन्द्रिका १७ मोदिनी १८ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । चक्षुष्यत्वम् । मुखपाककुष्ठविस्फोटकण्डूति- विषव्रणनाशित्वञ्च । इति राजनिर्घण्टः ॥ कफ- नाशित्वम् । इति राजवल्लभः ॥ उष्णत्वम् । लघुत्वम् । वृष्यत्वम् । वातपित्तास्रदृग्व्याध्य- रुचिनाशित्वञ्च । इति भावप्रकाशः ॥ * ॥ अस्या उत्पत्तिर्यथा, -- “विचरन्तं तदा भूयो महेशं कुसुमायुधः । आरात् स्थित्वाग्रतो धन्वी सन्तापयितुमुद्यतः ॥ ततस्तमग्रतो दृष्ट्वा क्रोधाद् ध्मातदृशा हरः । स्मरमालोकयामास शिखाग्राच्चरणान्तिकम् ॥ आलोकितस्त्रिनेत्रेण मदनो द्युतिमानपि । प्रादह्यत तदा ब्रह्मन् ! पादादारभ्य कक्षवत् ॥ प्रदह्यमानौ चरणौ दृष्ट्वासौ कुसुमायुधः । उत्ससर्ज्ज धनुः श्रेष्ठं तज्जगामाथ पञ्चधा ॥ यदासीन्मुष्टिबन्धं तद्रुक्मपृष्ठं महाप्रभम् । स च कल्पतरुर्ज्जातः स्रग्गन्धाढ्यो गुणाकृतिः ॥ नाहस्थानं शुभाकारं यदासीद्वज्रभूषितम् । तज्जातं केशवारण्यं बकुलं नामतो नगैः ॥ या च कोटी शुभा ह्यासीदिन्द्रनीलविभूषिता । जाता सा पाटला रम्या भृङ्गराजविभूषिता ॥ नाहोपरि तथा मुष्टौ स्थानं चन्द्रमणिप्रभम् । पञ्चगुल्माभवज्जाती शशाङ्ककिरणोज्ज्वला ॥ ऊर्द्ध्वं मुष्ट्या अधः कट्याः स्थानं विद्रुमभूषितम् । तस्माद्बहुपुटा मल्ली सञ्जाता विविधा मुने ! ॥” इति वामनपुराणे ६ अध्यायः ॥ मत्स्यविशेषः । मृत्पात्रभेदः । इति मेदिनी । के, १३७ ॥ पानपात्रम् । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लिका स्त्री।

मल्लिका

समानार्थक:तृणशून्य,मल्लिका,भूपदी,शीतभीरु

2।4।69।2।4

वेणी खरा गरी देवताडो जीमूत इत्यपि। श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका॥

 : वनमल्ली, यूथिका, पीतयूथिका, मालती, नवमालिका, कुन्दम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लिका [mallikā], 1 A kind of jasmine; वनेषु सायंतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु R.16.47; वनमल्लिकामतल्लिकोद्वेल्लितधमिल्लः Bhāratachampū मल्लिकाकुसुमदुण्डुभकेन N.21.43.

A flower of this jasmine; विन्यस्तसायंतनमल्लिकेषु (केशेषु) R.16. 5; Kāv.2.215.

A lamp-stand.

An earthen vessel of a particular form. -Comp. -गन्धम् a kind of agallochum. -छद्, -छदनम् n. a shade for a lamp.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लिका f. Jasminum Zambac (both the plant and the flower ; ifc. f( इका). ) MBh. R. Hariv. etc.

मल्लिका f. an earthenware vessel of a peculiar form Mr2icch.

मल्लिका f. a lamp-stand L.

मल्लिका f. a lamp L.

मल्लिका f. any vessel made out of a cocoa-nut shell L.

मल्लिका f. a species of fish L.

मल्लिका f. N. of two metres Col.

मल्लिका f. of मल्लक, in comp.

मल्लिका f. See. under मल्लक.

"https://sa.wiktionary.org/w/index.php?title=मल्लिका&oldid=331690" इत्यस्माद् प्रतिप्राप्तम्