मस्करी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्करी, [न्] पुं, (मस्कते इतस्ततो गच्छत्यनेनेति । मस्क + बाहुलकादरः । मस्करो दण्डः सोऽ- स्त्यस्येति । मस्कर + इनिः । यद्वा, मा कर्त्तुं कर्म्म निषेद्धुं शीलमस्य । “मस्करमस्करिणौ वेणुपरिव्राजकयोः ।” ६ । १ । १५४ । इति इनिर्निपात्यते ।) भिक्षुः । इत्यमरः । २ । ७ । ४७ ॥ (यथा, भट्टिकाव्ये । ५ । ६३ । “अधीयन्नात्मविद्विद्यां धारयन् मस्करिव्रतम् । वदन् बह्वङ्गुलिस्फोटं भ्रूक्षेपञ्च विलोकयन् ॥”) चन्द्रः । इति शब्दचन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=मस्करी&oldid=156698" इत्यस्माद् प्रतिप्राप्तम्