मस्तकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तकः, पुं, क्ली, (मस्यते परिमीयते । मस् + “इष्यशिभ्यां तकन् ।” उणा ० ३ । १४८ । इत्यत्र । “बाहुलकात् मस्यतेरपि तकन् ।” इत्युज्ज्वलदत्तोक्त्या तकन् ।) प्रधानाङ्गम् । माथा इति भाषा ॥ (यथा, मार्कण्डेयपुराणे । १४ । ७८ । “बिम्रत् क्लेशमवाप्नोति सोऽप्येवं शिरसा शिलाम् । क्षुत्क्षामोऽहर्निशं भारपीडाव्यथित- मस्तकः ॥”) तत्पर्य्यायः । उत्तमाङ्गम् २ शिरः ३ शीर्षम् ४ मूर्द्धा ५ । इत्यमरः । २ । ६ । ९४ ॥ मुण्डम् ६ शिरम् ७ । इति शब्दरत्नावली ॥ वराङ्गम् ८ । इति जटाधरः ॥ कम् ९ पुण्ड्रम् १० मौलिः ११ कपालम् १२ केशभूः १३ । इति राज- निर्घण्टः ॥ (मस्तम् १४ । इति द्विरूपकोषः ।) तस्य शुभाशुभलक्षणं यथा, -- “छत्राकारैः शिरोभिस्तु नृपा निम्नशिरा धनी । चिपिटैश्च पितुर्मृत्युर्गवाढ्याः परिमण्डलैः ॥ घटमूर्द्धा पापरुचिर्धनाद्यैः परिवर्ज्जितः ॥” इति गारुडे ६६ अध्यायः ॥ मस्तके अधोमुखसहस्रदलकमलमस्ति तत् कर्णिकायां परमात्मा तिष्ठति । यथा । स्वाङ्के उत्तानौ करौ कृत्वा सोऽहमिति जीवात्मानं हृदयस्थं दीपकलिकाकारं मूलाधारस्थकुल- कुण्डलिन्या सह सुसम्नावर्त्मना मूलाधारस्वाधि- ष्ठानमणिपूरानाहतविशुद्धाज्ञाख्यषट्चक्राणि भित्त्वा शिरोऽवस्थिताधोमुखसहस्रदलकमल- कर्णिकान्तार्गतपरमात्मनि संयोज्येत्यादि तन्त्र- सारः ॥ तथा च । “सुसुम्नावर्त्मना सोऽहमिति मन्त्रेण योजयेत् । सहस्रारे शिरःस्थाने परमात्मनि देशिकः ॥” इति गौतमीयतन्त्रम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तकः [mastakḥ] कम् [kam], कम् [मस्मति परिमात्यनेन मस्-करणे त स्वार्थे क Tv.]

The head, skull; अतिलोभा (v. l. तृष्णा) भिभूतस्य चक्रं भ्रमति मस्तके Pt.5.22.

The head or top of anything, peak, summit; न च पर्वतमस्तके Ms.4.47; वृक्ष˚, चुल्ली˚ &c.

The tuft of leaves growing at the top of palm trees.-Comp. -आख्यः the top of a tree. -उद्भवः the brain.-ज्वरः, -शूलम् an acute head-ache. -पिण्डकः, -कम् a round protuberance on the temples of an elephant in rut. -मूलकम् the neck. -लुङ्गः the membrane surrounding the brain.

स्नेहः the brain.

an oily substance appearing on the head.

"https://sa.wiktionary.org/w/index.php?title=मस्तकः&oldid=332530" इत्यस्माद् प्रतिप्राप्तम्