महर्षि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महर्षिः, पुं, (महांश्चासौ ऋषिश्चेति ।) व्यासादिः । इति त्रिकाण्डशेषः ॥ अस्य व्युत्पत्त्यादिर्यथा, -- “ऋषिर्हिंसागतो धातुर्व्विद्यासत्यतपःश्रुतैः । एष सन्निचयो यस्माद् ब्राह्मणश्च ततस्त्वृषिः ॥ विवृत्तिसमकालन्तु बुद्ध्या व्यक्तिमृषिस्त्वयम् । ऋषते परमं यस्मात् परमर्षिस्ततः स्मृतः ॥ गत्यर्थादृषतेर्धातोर्नामनिर्वृतिकारणम् । यस्मादेष स्वयम्भूतस्तस्माच्च ऋषिता मता ॥ तेनेश्वराः स्वयम्भूता ब्रह्मणो मानसाः सुताः । विवर्द्धमानैस्तैर्ब्बुद्ध्वा महान् परिगतः परः ॥ यस्मादृषिः परत्वेन महांस्तस्मान्महर्षयः । ईश्वराणां सुतास्तेषां मानसाश्चौरसाश्च वै ॥ ऋषयस्तत्परत्वेन भूतादिऋषयस्ततः । ऋषिपुत्त्रा ऋषीकास्तु मैथुनाद्गर्भसम्भवात् ॥ परत्वेनर्षयस्ते वै भूतादिऋषिकास्ततः । ऋषीकाणां सुता ये वै विज्ञेया ऋषिपुत्त्रकाः ॥ श्रुत्वा ऋषं परत्वेन नाम तस्मात् श्रुतर्षयः । अव्यक्तात्मा महानात्माहङ्कारात्मा तथैव च ॥ भूतात्मा चेन्द्रियात्मा च तेषान्तु ज्ञानमुच्यते । इत्येवमृषिजात्यस्तु पञ्च तान् नामभिः शृणु ॥ भृगुर्म्मरीचिरत्रिश्च अङ्गिराः पुलहः क्रतुः । मनुर्द्दक्षो वशिष्ठश्च पुलस्त्यश्चेति ते दश ॥ ब्रह्मणो मानसा ह्येते उत्पन्नाः स्वयमीश्वराः । परत्वेनर्षयस्तस्माद्भूतास्तस्मान्महर्षयः ॥” इति मात्स्ये १२० अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महर्षि¦ पु॰ कर्म॰। परमर्षिशब्दार्थे वेदव्यासादौ त्रिका॰।
“ऋषिर्हंसागतौ धातुर्विद्यासत्यतपःश्रुतैः। एष सन्नि-चयो यस्माद् ब्राह्मणश्च ततस्त्वृषिः। विवृतिसम-कालन्तु बुद्ध्या व्यक्तमृषिस्त्वयम्। ऋषते परमं यस्मात्परमर्षिस्ततः स्मृतः। गत्यर्थादृषतेर्धातोर्नाम निर्वृति-कारणम्। यस्मादेष स्वयम्भूतस्तस्माच्च ऋषिता मता। तेनेश्वराः स्वयम्भूता ब्रह्मणो मानसाः सुताः। विवर्द्ध-मानैस्तैर्बुद्धा महान् परिगतः परम्। यस्मादृषिः पर-त्वेन महांस्तस्मान् महर्षयः” मत्स्यपु॰

१२

० अ॰ तन्निरुक्तिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महर्षि¦ m. (-र्षिः) A Ri4shi or saint of a particular order, including VYA4SA and others. E. मह for महत् great, and ऋषि saint: see राजर्षि |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महर्षि/ मह--र्षि m. a great ऋषि, any great sage or saint( accord. to Mn. i , 34 ten महर्षिs were created by मनुस्वायम्भुव, viz. मरीचि, अत्रि, अङ्गिरस्, पुलस्त्य, पुलह, क्रतु, प्रचेतस्, वसिष्ठ, भृगु, नारद, also called the 10 प्रजापतिs , See. ; some restrict the number to 7 , and some add दक्ष, धर्म, गौतम, कण्व, वाल्मीकि, व्यास, मनु, विभाण्डकetc. ) Mn. MBh. etc. ( IW. 206 n. 1 )

महर्षि/ मह--र्षि m. N. of शिवS3ivag.

महर्षि/ मह--र्षि m. of बुद्धL.

महर्षि/ मह--र्षि m. of a poet Cat.

"https://sa.wiktionary.org/w/index.php?title=महर्षि&oldid=333050" इत्यस्माद् प्रतिप्राप्तम्